________________ 236 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका सा गुणकर्मान्यत्वरूपविशेषणाभावे ग्रहीतुं न शक्यते इति कृत्वा व्यभिचारवारकं विशेषणं सार्थकम् / स्वरूपासिद्धिवारकं तु विशेषणं व्यर्थम् / कथम् ? इदं तैजसं रूपादिषु पञ्चसु मध्ये रूपस्यैवाभिव्यञ्जकत्वात् आलोकवत्, अत्ररूपस्यैवाभिव्यञ्जकत्वादित्यत्र रूपमात्रव्यञ्जकत्वादित्यर्थः / तत्र रूपमात्रव्यञ्जकत्वं च रूपव्यञ्जकत्वेसतिरूपान्याव्यञ्जकत्वम्, सत्यन्तं चाव्यञ्जके परमाणुपरिमाणादौ व्यभिचारवारणाय।तस्य कस्याप्यव्यञ्जकत्वात् रूपान्याव्यञ्जकत्वमप्यस्तीतिरूपव्यञ्जकत्वाभावान्न तत्र व्यभिचारः।अथरूपव्यञ्जकत्वादित्येवास्तु रूपान्याव्यञ्जकेति पदं किमर्थम् ? मनसि व्यभिचारवारणाय रूपान्याव्यञ्जकत्वं पदम् / अथ रूपव्यञ्जकत्वे सति रूपान्याव्यञ्जकत्वादित्येवास्तु रूपादिपञ्चस्विति हेतौ विशेषणं किमर्थम् ? तथा च तद्वयतिरेकेण स्वरूपासिद्धिर्भवति। कथम्? चक्षुषोरूपान्याव्यञ्जकत्वं नास्तिरूपान्यघटादीनामपि तेन व्यञ्जनात्। तदर्थरूपादिपञ्चस्विति उक्तम् / तथा च स्वरूपासिद्धिवारकमिदं विशेषणं व्यर्थम् / तैजसत्वावच्छिन्नं यत् साध्यं तन्निरूपिता रूपादिषु पञ्चसु मध्ये रूपमात्रव्यञ्जकत्वावच्छिन्ना प्रकृतहेतुनिष्ठा या व्याप्तिः सारूपादिषु पञ्चस्विति विशेषणव्यतिरेकेणापि ग्रहीतुं शक्यत एव। कथम् ? यत्र यत्र रूपच्यञ्जकत्वेसतिरूपान्याव्यञ्जकत्वं तत्र तत्र तैजसत्वमिति व्याप्तौ व्यभिचारः कुत्रापि नास्ति तथा चरूपादीति विशेषणं व्यर्थम्। ननु तथाप्यप्रसिद्धिरेवयतो रूपव्यञ्जकत्वेसतिरूपान्याव्यञ्जकत्वमप्रसिद्धम्, यत् रूपव्यञ्जकंतत्रूपत्वस्यापिव्यञ्जकंभवत्येवेतिअप्रसिद्धिरेवेति, तथा च व्यभिचारवारकविशेषणवत् अप्रसिद्धिवारकमपि विशेषणं सार्थकम्, पूर्वोक्तयदवच्छिन्नेत्यादिव्याप्तिः अप्रसिद्धिवारकविशेषणं विनाऽप्रसिद्धैवातोऽप्रसिद्धिवारकमपि विशेषणं सार्थकमेवेति चेत्, न, तथापि अप्रसिद्धिवारकविशेषणस्य सार्थकत्वेऽपि स्वरूपासिद्धिवारकविशेषणस्य निरर्थकत्वमेव / यथा प्रत्यक्षखण्डे इन्द्रियलक्षणे शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वमिन्द्रियत्वमिति, [115 B] अत्र प्राणमनःसंयोगाश्रयत्वं प्राणेऽपिवर्तते तदर्थं ज्ञानकारणेतिपदम्। ज्ञानकारणमनःसंयोगाश्रयत्वंशरीरात्मादावप्यस्तीतिविशेषगुणानाश्रयत्वे सतीत्युक्तम्, तयोर्विशेषगुणाश्रयत्वात् / तथापि स्वरूपासिद्धिर्यथा चक्षुरादौ विशेषगुणानाश्रयत्वं नास्तीति उद्भूतपदम्, चक्षुष्षु उद्भूतविशेषगुणो नास्त्येवरूपादीनां चक्षुर्निष्ठानामनुद्भूतत्वात्। तथा श्रोत्रेन्द्रियेऽव्याप्तिः, तत्र शब्दः श्रोत्रे उद्भूतविशेषगुण एव भवति। तद्वारणायशब्देति पदम्। तथा चलक्षणे यदि[आव्याप्तिवारकं विशेषणम् लक्षणं नामकेवलव्यतिरेकी हेतुस्तेन यदाअनुमानं क्रियते तदाऽव्याप्तिर्भागासिद्धिर्भवति। यथा प्रकृते चक्षुरादिकं पक्षः, इन्द्रियत्वं साध्यम्, शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वात् [इति हेतुः] / अनहेतौ शब्देतरपदानुपादानेश्रोत्रेभागासिद्धिर्भवतितद्वारणायशब्देतरपदम्। तथा च यत्र यत्र उद्भूतविशेषगुणानाश्रयत्वेज्ञानकारणमनःसंयोगाश्रयत्वंतत्र तत्र इन्द्रियत्वं यथा चक्षुरादावित्यत्राप्रसिद्धिर्नास्ति व्याप्तिस्तु वर्तते एव, तथा चशब्देतरपदं व्यर्थमेव। शब्देतरपदस्यभागासिद्धिवारकत्वेऽपियनिष्ठेत्यादिरुक्ता व्याप्तिः शब्देतरपदाभावेऽपि