SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ केवलव्यतिरेक्यनुमाननिरूपणम् 235 सात्मकत्वम् आत्मविशेषेत्यादिरूपं नास्तीति प्रकृतानुमानेऽपि व्यभिचार इत्याशङ्कार्थः / तथा च व्यभिचारनिराकरणात् ममात्मेत्यादि मूलं तत्रोक्तम् / आत्मप्राणसंयोगः प्राणमनःसंयोगो वा एतौ शरीरप्राणसंयोगेनैवान्यथासिद्धौ प्राणमनःसंयोगस्य प्राणात्मसंयोगस्य च कारणत्वे प्रमाणाभावादित्युक्तम्, तत्र शरीरप्राणसंयोगेनैव [114 B] कथमन्यथासिद्धिरित्यत आह - अतिप्रसङ्गभियेति। शरीरात्ममनोभ्यां प्राणस्य संयोगो हेतुर्वाच्यः / तथा च शरीरावच्छेदेनात्ममनोभ्यां प्राणसंयोगो हेतुर्वाच्यः / तथा च यदवच्छेदेन शरीरावच्छेदेन आत्ममनोभ्यां प्राणस्य संयोगोहेतुः। तथा चलाघवाच्छरीरप्राणसंयोगएवहेतुरस्तु।आत्मविशेषगुणरूपकार्येषुशरीरप्राणसंयोगेन प्राणात्मसंयोगः प्राणमनःसंयोगश्चान्यथासिद्धः यतः प्राणात्मसंयोगःप्राणमनःसंयोगश्च घटाद्यवच्छेदेनन हेतुः किन्तु शरीरावच्छेदेनैव हेतुः / तथा च शरीरप्राणसंयोगेनैवाान्यथासिद्धौ प्राणमनःसंयोगप्राणात्मसंयोगौ कारणे न भवतः। तथा चप्रकृते आत्मविशेषगुणकारणभोगानधिकरणावृत्तिसंयोगः शरीरात्मसंयोग एव कारणं न तौ। तथा च शरीरात्मसंयोगः शरीरे आत्मनि च वर्तते, आत्मा चात्मभिन्नत्वविशेषणेनैव वारितः, उद्वरितं शरीरं तन्मात्रवृत्तित्वंसात्मकत्वंसाध्यम्। इदंचजीवच्छरीरमात्रपक्षवृत्ति, अतोऽन्वयसहचाराभावात् व्यतिरेकव्याप्तिरेव / अथभोगाधारत्वमितिग्रन्थयोजनार्थमाभासमाह - नन्वितिटीका।तथा चभोगो नामसुखदुःखान्यतरसाक्षात्कारः, स चात्ममात्रवृत्तिः, ततः शरीरस्यानात्मतया कथं शरीरस्य भोगाधारत्वमित्याशङ्कार्थ / एतदेवाह - शरीरस्येति टीका। तथा च शरीरस्य भोगानधिकरणत्वेन भोगानधिकरणावृत्तिसंयोगवत्त्वं नास्ति किन्तु भोगानधिकरणवृत्तिसंयोगवत्त्वमेव वर्तते इति कथं सात्मकत्वं तत्र तादृशं साध्यत इति भावः / नन्वित्यारभ्य बाधितमिति पर्यन्तं शङ्कार्थः / समाधानग्रन्थं योजयति - अनात्मनोऽपीति टीका।भोगाधारत्वमिति मूलेऽनुमानम्, हेतौ सकलाधिकरणवृत्तित्वादित्युक्ते स्वरूपासिद्धिः भोगाधिकरणत्वस्य सकलाधिकरणवृत्तित्वं नास्तिघटादाववृत्तेरिति। तथा ‘च स्वरूपासिद्धिवारणार्थं भोगपदम् / एवं च स्वरूपासिद्धिवारणं विशेषणं व्यर्थं व्यभिचारवारकं विशेषणमेव सार्थकम् / अत्र बीजं यथा यत्साध्यतावच्छेदकावच्छिन्ननिरूपिता यदवच्छिन्ना यनिष्ठा व्याप्तिर्येन विशेषणेन विना ग्रहीतुं न शक्यते तद्विशेषणं तत्र सार्थकं यथा इदं पक्षः द्रव्यमिति साध्यं गुणकर्मान्यत्वे सति सत्त्वात् इत्यत्र सत्त्वादित्येवोच्यमाने गुणे व्यभिचारः इत्यतो गुणान्यत्वे सतीति तथापि कर्मणि व्यभिचारः तद्वारणाय कर्मान्यत्वे सतीति, अत्र यद्यपि सत्तात्वेन रूपेण सत्ताया जातित्वेन रूपेण द्रव्यत्वस्य [115 A] गुणकर्मान्यत्वरूपविशेषणाभावेऽपि व्याप्तिर्ग्रहीतुं शक्यत एव यथा [यत्र] सत्ता तत्र जातिरेवं व्याप्तिरस्ति तथा च गुणकर्मान्यत्वविशेषणाभावेऽपिजातित्वेन रूपेण द्रव्यत्वनिरूपितासत्तात्वेनरूपेणगुणकर्मान्यत्वविशिष्टसत्तानिष्ठा व्याप्तिर्ग्रहीतुं शक्यत एव तथापि द्रव्यत्वत्वेन रूपेण द्रव्यत्वनिरूपिता गुणकर्मान(न्य)त्वविशिष्टसत्तात्वावच्छिन्ना या व्याप्तिः 1. यद्धेतु इति प्रतौ टिप्पणी।
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy