________________ 234 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका इति कृत्वा तत्रापि सात्मकत्वं स्यादित्याशयेन शङ्कते - यद्यपीति टीका / समाधत्ते - तथापीति टीका / आत्मविशेषगुणो ज्ञानातिरिक्तो बोद्धव्यः, न हि मृतशरीरसंयोगेन ज्ञानातिरिक्तः कोऽप्यात्मविशेषगुणो जन्यते इति कृत्वा न तत्रातिव्याप्तिरित्यर्थः / अत्र विवक्षान्तरमप्याह - जन्येति टीका। जन्यो य आत्मविशेषगुणस्तत्त्वावच्छिन्नं प्रति कारणत्वं विवक्षितम्। तथा च मृतशरीरसंयोगो जन्यात्मविशेषगुणत्वावच्छिन्नं सर्वं प्रति न कारणम् आत्मगुणेच्छादीनां तेनाजननान्न तत्रातिव्याप्तिरिति भावः / अथ भोगानधिकरणावृत्तीति पदकृत्यमाह - मनस इति टीका / तथा चात्ममनःसंयोग आत्मविशेषगुणा ज्ञानादयस्तत्कारणं भवति अथ चात्मविशेषगुणकारणसंयोगवत्त्वमपि तत्रास्तिआत्मभिन्नत्वमपिअस्ति इति कृत्वा मनसि अतिव्याप्तिवारणाय भोगानधिकरणावृत्तीति पदमात्ममनःसंयोगस्तु भोगानधिकरणावृत्तिर्न भवति भोगानधिकरणे मनस्यपि तस्य वृत्तेरित्यर्थः / नन्वत्र भोगाधिकरणवृत्तीति कुतो नोक्तम् ?, नद्वयं किमर्थमित्यत आह- नद्वयस्येति / तथा चात्मविशेषगुणकारणमात्ममनःसंयोग एव तद्वत्त्वं वर्तते [114 A] आत्ममनसोरपि आत्ममनःसंयोगो भोगाधिकरणमात्मा तद्वृत्त्यपि, तथाचतादृशात्ममनःसंयोगवत्त्वं वर्तते मनसि, तथा चतत्रातिप्रसङ्गवारणाय भोगानधिकरणावृत्तीति / तथा चात्ममनःसंयोगो यद्यपि भोगाधिकरणवृत्तिर्भवति आत्मनि तस्य वर्तमानत्वात्, तथापि स भोगा[नाधिकरणावृत्तिर्न भवति भोगानधिकरणे मनस्यपि तस्य वर्तमानत्वात् / भोगानधिकरणवृत्तित्वमेवेत्यर्थः / इति मिश्रव्याख्यानं दूषयति - तच्चिन्त्यमिति टीका / नब्वयाघटितं सात्मकत्वं साध्यं मनसि वर्तते तत्र चेष्टावत्त्वं नास्तीति ततो हेतुव्यावृत्तावसाधारण्यं स्यादित्युच्यते / तत् किंहेतुमादाय ? यतो मनसि चेष्टावत्त्वं हेतुर्न वर्तते इति तस्य सपक्षान्मनसो व्यावृत्तावसाधारण्यं किमर्थमुच्यते ? तथा च प्राणान्यत्वे सतीत्यादिहेतुव्यावृत्त्याऽप्यसाधारण्यसम्भवात् / तथा च कथम् ? यतः प्राणान्यत्वे सति ज्ञानकारणीभूतप्राणसंयोगवत्त्वं मनसि नास्ति / कथं नास्ति ? प्राणमनःसंयोगस्य ज्ञानकारणत्वाभावात्, शरीरप्राणसंयोगस्य ज्ञानकारणत्वेऽपि मनसि विद्यमानत्वाभावात्। तथा चप्राणान्यत्वे सति ज्ञानकारणीभूतप्राणसंयोगवत्त्वं हेतुर्मनसो व्यावृत्त इत्यसाधारण्यसम्भवे चेष्टावत्त्वं हेतुंपूर्वोक्तमनुकृष्यासाधारण्यवर्णना कृता सा किमर्थमिति मिश्रव्याख्यादूषणार्थम् / एतदेवाह - अत्रेति टीका / प्रकृतमुपसंहरति - तस्मादिति / तथा च जीवच्छरीरं तदवयवो [वा] आत्मभिन्नत्वे सति आत्मविशेषगुणकारणभोगानधिकरण(णा)वृत्तिसंयोगवत् प्राणान्यत्वे सति ज्ञानकारणीभूतसंयोगवत्त्वादित्यत्र प्राणान्यत्वे सति इत्यादिर्यो हेतुस्तस्य मनसो मृतशरीरात् व्यावर्तनात् तदसाधारण्यं तद्व्यावर्तनायैव भोगानधिकरणेत्यादिपदानि न तु चेष्टावत्त्वहेतुव्यावृत्त्या मनसि मृतशरीरे वा यदसाधारण्यं तव्यावतेनायेति। उत्तरग्रन्थयोजनार्थमाशङ्कते- नन्वितिटीका।तथा चात्ममनसोःप्राणान्यत्वेसतीत्यादिको हेतुरस्ति, तथाच प्राणमनःसंयोगः प्राणात्मसंयोगश्चेति द्वावपि ज्ञानकारणे, तथा च प्राणान्यत्वे सति ज्ञानकारणीभूतप्राणसंयोगवत्त्वं मनस्यपि वर्तते