________________ केवलव्यतिरेक्यनुमाननिरूपणम् 233 या चेष्टा तस्या निमित्तकारणं यो जीवच्छरीरेण सह मृतशरीरसंयोगस्तदाश्रयत्वे सति शरीरत्वं मृतशरीरे वर्तते तत्रापि सात्मकत्वस्य लक्षणं चेष्टाकारणसंयोगाश्रयत्वे सति शरीरत्वमतिप्रसक्तमिति तद्वारणाय असमवायिपदमित्याहुः / जीवच्छरीरं तदवयवो वेत्यत्रात्मभिन्नत्वे इत्यस्य प्रयोजनमाह - एतच्चेति टीका। तथा चात्मनोऽपि आत्मविशेषगुणकारणभोगानधिकरणावृत्तिसंयोगवत्त्वं विद्यते। अयमाशयः - आत्मविशेषगुणा ज्ञानादयस्तेषां कारणम् अथ च भोगानधिकरणे घटादाववृत्तिः एतादृशो यः संयोगः शरीरात्मसंयोगः तदाश्रयत्वं वर्तते आत्मनि इति कृत्वा ततो हेतुव्यावृत्तावसाधारणो हेतुः स्यादतो हि साध्ये आत्मभिन्नत्वे सति इति विशेषणमित्यर्थः / विशेषगुणपदकृत्यमाह - भोगानधिकरणावृत्तीत्यत्र तन्मृतशरीरे इति टीका। यदि आत्मभिन्नत्वे सति गुणकारणभोगानधिकरणावृत्तिसंयोगवत्त्वंसाध्यं क्रियते तदा मृतशरीरे आत्मभिन्नत्वंवर्तते, गुणो मृतशरीरघटविभागस्तं प्रति कारणं भोगोनधिकरणावृत्तिसंयोगः शरीरघटसंयोगः तद्वत्त्वं मृतशरीरेऽपि वर्तते, तत्र हेतुर्नास्ति इत्यसाधारण्यवारणायात्मविशेषगुणकारणेति।अत्रशङ्कते-नचेति टीका। तत्र मृतशरीरे चेष्टावत्त्वं हेतुर्यदिव्यावृत्तः तदामृतशरीरघटसंयोगेभोगानधिकरणावृत्तित्वंनास्ति।यदिचभोगाधिकरणवृत्तित्वलक्षणंभोगानधिकरणावृत्तित्वं मृतशरीरे वर्तते तदा'चेष्टावत्त्वमपि हेतुरस्त्येव यतो जीवद्दशायां भोगाधिकरणत्वचेष्टावत्त्वयोः सत्त्वात् / कादाचित्कं तदुभयमस्तीत्युक्तासाधारण्यं न भवतीत्याशङ्कार्थः / समाधत्ते - मृतेति टीका। तथा च मृतशरीरव्यावृत्तमेव चेष्टावत्त्वं हेतुः कर्तव्यः / अयमर्थः - मृतशरीरावृत्तिचेष्टावत्त्वात् अथवा वर्तमानचेष्टावत्त्वात् वेति न दोषः / अन्यथाप्राचीनचेष्टावत्त्वमात्रेण मृतशरीरे साध्या(ध्य)सत्त्वे व्यभिचार: स्यात् साध्यसत्त्वे मृतशरीरेऽपि सात्मकत्वानुमानप्रसङ्ग इत्यर्थः / तथा च मृतशरीरे [113 B] आत्मविशेषगुणकारणपदव्यतिरिक्तं साध्यं तिष्ठति / तत्र वर्तमानचेष्टावत्त्वं नास्तीति असाधारण्यवारणायात्मविशेषगुणकारणेति पदम् / अथ विशेषपदकृत्यमाह - मृतशरीरेति टीका / मृतशरीरेण सह य आत्मसंयोगस्तस्य जनको यो मृतशरीरावयवात्मसंयोगस्तद्वत्त्वं वर्तते मृतशरीरावयवे, तत्र वर्तमानचेष्टावत्त्वं हेतुर्नास्ति इति असाधारण्यवारणाय विशेषपदम्, मृतशरीरात्मसंयोगस्तु विशेषगुणो न भवति इति तद्व्यावृत्तिः / अथ आत्मपदप्रयोजनमाह - भेरीति टीका। भेरीदण्डसंयोगात् यथा शब्दोत्पत्तिः तथा मृतशरीरेण सह मृतशरीरस्य यः संयोगस्तस्मात् यदाशब्दोत्पत्तिर्जायते तत्र मृतशरीरे विशेषगुणो यः शब्दस्तस्य कारणं यो मृतशरीरसंयोगस्तद्वत्त्वं मृतशरीरेऽपि वर्तते आत्मभिन्नत्वमपि अस्ति इति ततो हेतुव्यावृत्तावसाधारण्यं स्यादत आत्मपदम् / तथा च शब्द आकाशस्यैव विशेषगुणो न त्वात्मन इति तद्व्यावृत्तिः / यद्यपि आत्मपदं दत्तं तथापि तस्मिन् दत्तेऽपि मृतशरीरसंयोगात् मृतशरीरगोचरः साक्षात्कारः कस्यापि जायते / तथा चात्मविशेषगुणो मृतशरीरविषयकः साक्षात्कारस्तजनको भवति मृतशरीरसंयोगः स च भोगानधिकरणावृत्तिर्भवति मृतशरीरस्यापि पूर्वकालीनभोगाधिकरणत्वात्। तथा च तादृशसंयोगवत्त्वं मृतशरीरे वर्तते