________________ 232 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका कारणमिति वक्तुं न शक्यत इत्यर्थः / संस्कारेति टीका / ननु वेगजन्यक्रियायां व्यभिचारः / कुतः ? तत्र वेग एवासमवायिकारणं संयोगासमवायिकारणत्वरूपं [112B] साध्यं नास्तीति व्यभिचार इत्यत आह - संस्कारेति टीका / ननु वेगजन्यक्रियाव्यभिचारः, वेगोऽपि संस्कारस्तदजन्यक्रियात्वादित्यर्थः / ननु संस्काराजन्यक्रियात्वं गुरुत्वासमवायिकारणकायपतक्रियायाम् द्रव्य(व)त्वात् यत्राद्यस्पन्दनं जायते सा द्रवत्वासमवायिकारणिका क्रिया भवति न तु संयोगासमवायिकारणिकेत्यत आह - गुरुत्वेति टीका / तेनेति आद्यपतनादावित्यर्थः / प्रयत्नेतीति टीका / ननु प्रयत्नवदात्मसंयोग एव कुतः पर्यवस्यतीत्यत आह - प्रयत्नेति टीका। तथा च यदवच्छेदेन चेष्टा तदवच्छेदेन प्रयत्नस्यानुभवसिद्धत्वात् / चेष्टाप्रयत्नयोरपि व्याप्तिस्ततो यः चेष्टाऽसमवायिकारणसंयोगः प्रयत्नवदात्मसंयोगः / प्रयत्नव्याप्या चेष्टा तदसमवायिकारणसंयोगत्वात् / यत्र यत्र चेष्टा तत्र तत्र प्रयत्न इति चेष्टा व्याप्या। ननु शरीरत्वपदं व्यर्थम् इत्यत आह - सत्यन्तमात्रस्येति / चेष्टाऽसमवायिकारणसंयोगः प्रयत्नवदात्मसंयोगः, सचात्मन्यप्यस्ति तत्रात्मनि प्राणादिमत्त्वाभावात् ततो हेतुव्यावृत्तावसाधारणमित्यत उक्तं शरीरत्वपदम् / तथा चात्मनि शरीरत्वं नास्तीति नासाधारणमिति भावः / ननु चेष्टावत्त्वं शरीरावयवे व्यभिचारि इदम्। चेष्टावर्तते परंसत्यन्तविशिष्टं शरीरत्वंतत्रनास्तीतिव्यभिचारः इत्यतआह टीकाकार: - चेष्टावच्छरीरत्वादित्यर्थः इति / तथा च हेतुरपि तत्र नास्तीति न व्यभिचार इत्यर्थः / तेनेति टीका / शरीरावयवेत्युपलक्षणं शरीरावयवावयवेऽङ्गुल्यादौ चेष्टा वर्ततेसाध्यं च तत्रनास्तीतिप्राप्तो व्यभिचारस्तवन भवतीत्यर्थः / असमवायिपदं संपातायातं यथा मृतशरीरे चेष्टाकारणसंयोगाश्रयत्वमपि नास्ति।नाडीषु चचेष्टाकारणसंयोगाश्रयत्वं यद्यपि वर्तते तथापि तत्र शरीरत्वं नास्ति इति कृत्वा कुत्रापि नातिव्याप्तिरिति निरर्थकम् असमवायिपदम् / मृतशरीरसंयोगात् घटादौ या क्रिया उत्पद्यते तादृशक्रियाऽसमवायिकारणसंयोगाश्रयत्वे सति शरीरत्वं मृतशरीरेऽपि वर्तते, तत्रापि सात्मकत्वं स्यादित्यतिप्रसङ्गवारणाय साध्ये चेष्टापदम् / केचित् तु मृतशरीराभिघातात् नोदनात् वा यदा जीवच्छरीरे चेष्टा उत्पद्यते मृतशरीरत्यागार्थं तत्र जीवच्छरीरे या चेष्टा उत्पद्यते तत्र तस्याः क्रियायाः प्रयत्नवदात्मसंयोगोऽसमवायिकारणं मृतशरीरसंयोगो निमित्तकारणम् / ननु तत्र नोदनमभिधातो वा असमवायिकारणम् / कुतः ? तस्याः क्रियायाः प्रयत्नवदात्मसंयोगोऽसमवायिकारणं मृतशरीरसंयोगो निमित्तकारणम् अभिघातो(ते) वाऽसमवायिकारणकत्वे च जातिसङ्करप्रसङ्गात् / [113 A] यतस्तस्यां क्रियायामभिघातरूपाऽसमवायिकारणजन्यतावच्छेदिकाएका जातिरस्तिएका चप्रयत्नवदात्मसंयोगासमवायिकारणजन्यतावच्छेदिकाऽपिजातिरस्तीति जातिसङ्करप्रसङ्गात् / किन्तु अभिघातस्य तच्चेष्टां प्रति निमित्तकारणत्वम् / तथा चाभिघातरूपनिमित्तकारणजन्यतावच्छेदिका प्रयत्नवदात्मसंयोगासमवायिकारणजन्यतावच्छेदिका चैकैव जातिरितिन जातिसङ्करप्रसङ्गः / तथा चचेष्टानिमित्तकारणं यो मृतशरीरसंयोगो जीवच्छरीरे तदाश्रयत्वंजीवच्छरीरे वर्तते इति कृत्वा जीवच्छरीरनिष्ठा