________________ केवलव्यतिरेक्यनुमाननिरूपणम् 231 ननु जीवच्छरीरे आत्मविशेषगुणकारणं भोगानधिकरणेऽवृत्तियः संयोगः शरीरात्मसंयोगः तद्वत्त्वं सात्मकत्वं जीवच्छरीरे साध्यते / शरीरात्मसंयोगस्तु भोगानधिकरणं यच्छरीरं तद्वृत्ति एव तथा च भोगानधिकरणावृत्ति न भवतीति कथंशरीरात्मसंयोगमादाय सात्मकत्वं शरीरे साध्यते इत्यत आह - भोगाधारत्वमिति मूलम्।आत्मातिरिक्तस्थले शरीरेऽपि भोगो वर्तत इत्याह - भोगाधारत्वं पक्षः, भोगसमवायिकारणम् आत्मा तदतिरिक्तवृत्ति [इति साध्यम्], सकलेति हेतुः / यत्र सकलभोगाधिकरणवृत्तित्वं तत्र भोगसमवायिकारणातिरिक्तवृत्तित्वं यथा प्रमेयत्वे / शरीरं तु भोग प्रति निमित्तकारणम् आत्मैव समवायिकारणम् इति भोगसमवायिकारणातिरिक्तेऽपि भोगस्तिष्ठत्येव, तथा च शरीरमपि भोगाधिकरणं भवत्येवेति सिद्धं शरीरात्मसंयोगस्य भोगाधिकरणवृत्तित्वम्। ___ अथ टीका।ननुअसमवायिसंयोगस्य किञ्चिदवच्छिन्नत्वे सिद्धेऽपिइच्छाऽसमवायिसंयोगावच्छेदकत्वलक्षणं [112 A] यत् सात्मकत्वं तत् न प्रसिद्धम्, संयोगस्यावच्छेद्यत्वज्ञाने जातेऽपि संयोगावच्छेदकत्वं यत् तत् प्रसिद्ध नास्ति / अथ चेच्छाधारता महत्संयोगावच्छेद्या इत्यत्रानुमानेऽपि इच्छाधारताया महत्संयोगावच्छेद्यत्वं यद्यपि सिद्धं तथापि इच्छाधारतावच्छेदकेच्छाऽसमवायिकारणसंयोगवत्त्वं न प्रसिद्ध संयोगे इच्छाधारताया अवच्छेद्यत्वभानेऽपि संयोगेऽवच्छेदकत्वाभानात् इत्यत आह - अत्रेति टीका / तथा चेच्छाधारतायां महत्संयोगावच्छेद्यत्वज्ञाने जाते महत्संयोगेऽपि इच्छाधारतावच्छेदकत्वज्ञानं जायते। कुत इत्यत आह - समानेति टीका। यथाइदं संयोगावच्छिन्नमितिज्ञाने संयोगेऽप्यवच्छेदकत्वज्ञानंजायते यथाएकंयद्यवच्छिन्नंतदा एकमन्यदवच्छेदकमेवेति समानसंवित्संवेद्यतेति भावः / एवम् असमवायिकारणसंयोगेऽपि किञ्चिद्रव्यावच्छिन्नत्वज्ञाने विद्यमाने किञ्चित्पदार्थेऽपि संयोगावच्छेदकत्वज्ञानं भविष्यत्येवेच्छा[5]समवायिकारणसंयोगावच्छेदकत्वलक्षणसात्मकत्वप्रसिद्धिर्जातैवेत्यर्थः / ननु मूलकारेणोक्तम्इच्छाधारताघटकेच्छाऽसमवायिकारणसंयोगाधारत्वंसात्मकत्वं सामान्यतः सिद्धमिति अयुक्तम् / साध्यसिद्धौ व्यतिरेक्यनुमानेन किं कर्तव्यमित्यतो व्याचष्टे - सिद्धसाधनेति टीका।सामान्यत इति टीका। तथा च सामान्यरूपेण निरधिकरणतया सिद्धेऽपि विशेषरूपेण यथा शरीरविशेष्यकेच्छाधारताघटकेच्छाऽसमवायिकारणसंयोगावच्छेदकत्वप्रकारकसाध्यसिद्धिर्व्यतिरेक्यनुमानस्य फलत्वमित्यर्थः सामान्यत इति टीका / अत्र यत एवेति पूरणीयम् / यत एव [सामान्यतः] साध्यसिद्धिर्जाता विशेषाधिकरणरूपेण साध्यसिद्धिर्न जाता अतः सिद्धसाधनावकाशो नास्तीत्यर्थः / ननु शरीरं सात्मकं सात्मकत्वे बाधाभावात् / यत्र यद्वत्त्वे बाधकं नास्ति तत्र तद्वत्त्वं यथा घटे घटत्ववत्त्वे बाधकं नास्तीति घटत्ववत्त्वम् इत्यन्वयिनैव शरीरविशेष्यकबुद्धेरपि सम्भवात् इत्याभासार्थः / उपायेति / तथा चानुमितिजनकमन्वयव्याप्तिज्ञानं व्यतिरेकव्याप्तिज्ञानं चेत्युपायद्वयमस्ति। तेनान्वयव्याप्त्यस्फुरणदशायांव्यतिरेकव्याप्तिस्फुरणं व्यतिरेकव्याप्त्यस्फुरणदशायामन्वयव्याप्तिज्ञानं कारणम् / तथा चान्वयव्याप्त्यस्फुरणदशायां व्यतिरेकव्याप्तिस्फुरणं यद्वर्तते तन्न पर्यनुयोज्यम् तन्न