________________ 230 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका इत्याशङ्कार्थः / समाधत्ते - शरीरमिति। यद्यपि सात्मकत्वविशेष्यिका शरीरवृत्तित्वप्रकारिका बुद्धिरुक्तान्वयिनी भवति तथापिशरीरविशेष्यकसात्मकत्वप्रकारकबुद्ध (द्धेः)व्यतिरेकिसाध्यत्वात्।अयमर्थः - पक्षस्तुविशेष्यत्वेनैव भासते तस्य ज्ञानस्यानुमितावकारणत्वात्। पर्वतो वह्निमान् इति विशिष्टज्ञानरूपानुमितौ साध्यज्ञानस्य विशेषणज्ञानत्वेन कारणत्वमस्ति न तु पर्वतरूपविशेष्यज्ञानस्य कारणतेति भावः / समाधानान्तरमाह - उपायेति मूलम् / सात्मकत्वसाधने व्यतिरेक्यनुमानमपि भवतु इत्यर्थः / यद्वेति मूलम्। चेष्टा पक्षः, संयोगोऽसमवायिकारणं यस्या इति साध्यम्, संस्काराणजन्यक्रियात्वादिति] हेतुः। दृष्टान्तमाह - आद्यक्रिया यथा नोदनादाद्यमिषोः कर्मेति वैशेषिकसूत्रे। नोदनं मूर्तद्रव्यसंयोगः तस्मादाद्यक्रिया जायते, सोऽसमवायिकारणमेव / तथा च सा आद्यक्रिया यथा संयोगासमवायिकारणिका संस्काराजन्यक्रियापि भवति तद्वत् चेष्टापि संस्काराजन्यक्रिया भवति संयोगासमवायिकारणिकाऽपि भवति / ततः किमित्यत आह - चेष्टाया इति। असमवायिकारणं यः संयोगस्तत्सिद्धौ स संयोगः प्रयत्नवदात्मसंयोग एव / अत एव शरीरे क्रिया प्रयत्नवदात्मसंयोगासमवायिकारणिका।कुतः? प्रयत्नान्वयव्यतिरेकानुविधायित्वात्। ननुप्रयत्नान्वयव्यतिरेकानुविधायित्वमपि चेष्टाऽसमवायिकारणस्यसंयोगस्यासिद्धमिति चेत्, न, धावतः प्रयत्नोत्कर्षेण श्वासक्रियाशरीरक्रियोत्कर्षदर्शनात्। अतएवश्वासादिक्रियायाः प्रयत्नोत्कर्षेणोत्कर्षस्तद्वत् शरीरक्रियायाअपि प्रयत्नोत्कर्षेणोत्कर्षदर्शनात्प्रयत्नवदात्मसंयोगासमवायिकारणत्वमिति।अतएवप्राणपञ्चकसंसाररूपश्वासादिक्रियायाः जीवनादृष्टजन्यत्वमेवास्तु किं प्रयत्नजन्यत्वेनेत्यपि परास्तम्। धावतः प्रयत्नोत्कर्षेण श्वासोत्कर्षदर्शनात् प्रयत्नजन्यत्वमेव न तु जीवनादृष्टजन्यत्वमिति / ततः किमित्यत [111 B] आह - एवं चेति मूलम् / तथा च चेष्टाऽसमवायिकारणसंयोगाश्रयत्वे सति कार्यत्वं शरीरत्वं सात्मकत्वं जीवच्छरीरे साध्यं मृतशरीरे चातिव्याप्तिवारणाय सत्यन्तम् / हेतुस्तु चेष्टावत्त्वात् / तथा चेष्टाविरहो घटादौ प्रसिद्धः, ततः चेष्टाविरहांत् चेष्टाऽसमवायिकारणसंयोगविरहानुमानं घटेऽस्त्येव, चेष्टाऽसमवायिकारणसंयोगविरहे सिद्धे यत्र यत्र चेष्टाऽसमवायिकारणसंयोगाश्रयत्वे सति शरीरत्वरूपसात्मकत्वाभावस्तत्र तत्र प्राणादिमत्त्वाभावो यथा घटे इति व्यतिरेकव्याप्तिज्ञानात् व्यतिरेक्यनुमानं सिद्धमेव / व्यतिरेक्यनुमाने पक्षान्तरमाह - यद्वेति मूलम् / जीवच्छरीरं तदवयवो वा पक्षः, साध्यं यथा आत्मभिन्नत्वे सति आत्मविशेषगुणकारणं भोगानधिकरणावृत्तिर्यः संयोगस्तद्वान्, प्राणान्यत्वे सति ज्ञानकारणीभूतो यः प्राणसंयोगस्तद्वत्त्वात्, यन्नैवं तन्नैवं यथा घटः / ननु प्राणान्यत्वे सति ज्ञानकारणीभूतप्राणसंयोगत्वम् आत्म-प्राणसंयोगमादाय प्राणेऽपिवर्तते मनस्यपि वर्तते तत्रभोगानधिकरणावृत्तिसंयोगवत्त्वं नास्ति भोगस्य शरीरात्मोभयमात्रवृत्तित्वात् इत्यत आह - आत्मप्राणेति मूलम्। तथा चात्मप्राणसंयोगः प्राणमनःसंयोगोवाशरीरप्राणसंयोगेनैवासिद्ध इति आत्मविशेषगुणा ज्ञानेच्छादयस्तेषां कारणं न भवति इति नदोषः /