________________ केवलव्यतिरेक्यनुमाननिरूपणम् 229 च मूले उद्देश्यविधेयभावो विपरीतः कर्तव्यः यथा किञ्चिदवच्छिन्नसंयोगमुद्दिश्यासमवायिकारणत्वं विधीयते। एतदेवाह - उद्देश्येति टीका। नन्वत्र किंसाधकमित्यत आह - एवेति। यत(त)देवोद्देश्यविधेयभावव्यत्यासोऽत एव मूलकारेणाग्रे आत्ममनःसंयोगमात्रस्येच्छाजनकत्वे घटादावतिप्रसङ्ग उक्त इत्यर्थः / आशङ्कते - न चेति टीका / तथा चायमर्थः - संयोगः पक्षः, किञ्चिदवच्छिन्नः सन्नसमवायिकारणमिति साध्यम्, संयोगत्वादिति हेतु: कृतः सन सम्भवति संयोगत्वस्य व्यभिचारित्वात् / कथम्? यतः संयोगोऽसमवायिकारणं नास्ति। यथा कारणकारणसंयोगः सोऽसमवायिकारणं न भवति / यथा दण्डचक्रसंयोगः तत्रासमवायिकारणत्वं नास्ति परं संयोगत्वं वर्तते परं किञ्चिदवच्छिन्नासमवायिकारणत्वं नास्तीत्याशङ्कार्थः / अथ समाधानं यथा तथा चैवं हेतुः कर्तव्योऽसमवायिकारणसंयोगत्वात्यथा यत्रासमवायिकारणसंयोगत्वंतत्रतत्र किञ्चिदवच्छिन्नासमवायिकारणत्वं यथा तन्तुसंयोगः तन्त्ववच्छेदेनैवासमवायिकारणंन तु तुर्याद्यवच्छेदेनेतिएतदेवाह - असमवायिकारणसंयोगत्वादिति टीका। अथ पक्षान्तरमाह मूले - यद्वेति / महदिति मूलम् / महतो यः संयोगस्तेनावच्छेद्या / हेतुमाह - जन्येति मूलम् / जन्यो यो विभुविशेषगुणस्तदाधारतात्वात्। दृष्टान्तमाह - वाग्वितिमूलम्।वायुसंयोगेनावच्छेद्या तद्वत्। अथ आकाशो व्यापकः ततः आकाशत्वावच्छेदेन शब्दाधारता नास्ति, इह शब्दो नेह शब्द इति प्रतीतेः / अत आकाशे शब्दाधारता किञ्चिदवच्छेदेन वर्तते इति वाच्यम्। तथा चतदवच्छेदेको वायुसंयोगो यत्रानुकूलस्तत्राकाशे शब्दोऽतएव दूरदेशेऽनुकूलवातावच्छिन्नाकाशाभावानशब्दः श्रूयते तद्वत्आत्मादिव्यापकः ततो घटाद्यवच्छिन्ने आत्मनि इच्छाधारता नास्ति इति कृत्वा इच्छाधारता किञ्चिदवच्छिन्ना वक्तव्या, स चावच्छेदकोऽसमवायिकारणसंयोगः, ततः प्रकृते किमाया]ता(त)मित्यत आह - इच्छाधारतेति मूलम् / इच्छाधारताया घटकीभूता इच्छाधारतामध्ये प्रविष्टा इच्छा, तस्या असमवायिकारणं यो द्रव्यसंयोगः तद्वत्त्वंसात्मकत्वम् / तथा चायमर्थःजीवच्छरीरं पक्षः, इच्छाधारताघटकेच्छाऽसमवायिकारणद्रव्यसंयोगवत् इति साध्यम्, प्राणादिमत्त्वात् हेतुः। तत्र च साध्यप्रसिद्धयर्थं पूर्वानुमानम् यथा इच्छाधारता महत्संयोगावच्छेद्या इत्यादि / आत्मनि इच्छाधारताया महत्संयोगः, शरीरसंयोगविरहाच्च[111 A] सात्मकत्वरूपेच्छाऽसमवायिकारणसंयोगविरहानुमानम् यथा घटो न प्राणादिमान् चेष्टाविरहात्, इत्यनेन प्राणादिमत्त्वविरहानुमानम्, तेन च प्राणादिमत्त्वविरहेण इच्छादिप्रयोजकेच्छाधारताघटकेच्छाऽसमवायिकारणसंयोगविरहानुमानम्, तथा चघटेसात्मकत्वप्राणादिमत्त्वोभयाभावज्ञाने जाते सति व्यभिचारज्ञानाभावसहकृतव्यतिरेकसहचारज्ञानात् व्यतिरेकव्याप्तिग्रहः सुग्रह एवेत्यर्थः / निरधिकरणकसाध्यप्रसिद्ध्या व्यतिरेकी किमर्थं कर्तव्यः ?, अन्वयिनैववक्ष्यमाणेन शरीरे सात्मकत्वसिद्धिर्भविष्यतीत्याशङ्कते - न चेति मूलम्। तथा च सात्मकत्वं पक्षः शरीरवृत्तीति साध्यम् शरीरवृत्तित्वे बाधकाभावात् शरीरत्ववत्