________________ 228 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका संयोग: असमवायिकारणं भवतीति / न तु असमवायिकारणस्य संयोगस्य किञ्चिदवच्छिन्नत्वम् / कथम् ? घटे आत्ममनःसंयोगो वर्तते स चात्ममनःसंयोग इच्छादिकं प्रति नासमवायिकारणमिति कृत्वा किञ्चिदवच्छिन्न आत्ममनःसंयोगोऽसमवायिकारणम् तथा च शरीरावच्छिन्न एवावच्छेदकः सिद्धः [110 A] / अनेनानामानेन] सामान्यतः प्रसिद्धंसात्मकत्वं व्यतिरेकिणासाध्यते, न च सिद्धस्य कथं साधनमिति वाच्यम् / पूर्वं निरधिकरणिका साध्यसिद्धिरनेन तु जीवच्छरीर एवाधिकरणे व्यतिरेकिणा साध्यते इति हृदयम्। ____ एवं साध्यान्तरमप्याह - अतएवेति मूलम्। ज्ञानेति मूलम्।नन्वत्रापि साध्याप्रसिद्धिरिति चेन्न। पूर्वोक्तरीत्या इच्छाधारतावत् ज्ञानाधारता महत्संयोगावच्छेद्या / जन्यविभुविशेषगुणेत्यादिहातु]ः, अनेनानुमानेन सामान्यतः प्रसिद्ध साध्यं जीवच्छरीरे व्यतिरेकिणा साध्यते / अत्र व्याप्तिग्रहप्रकारमाह- स्वेति / स्वपदेनं व्याप्तिग्राहकः पुरुषस्तेन स्वशरीरे प्राणादिमत्त्वस्य इच्छादिमत्त्वस्य च चेष्टावयवोपचयादिव्याप्यत्वग्रहात् कथं ग्रह इत्यत आहस्वेति / स्वशरीरे चेष्टापि तिष्ठति अवयवोपचयोऽपि तिष्ठति, सा चेष्टा स चावयवोपचयः इच्छादिमत्त्वस्य प्राणादिमत्त्वस्य च व्यापको यतो मृतशरीरे चेष्टावयवोपचयाभावात् / तथा च चेष्टावयवोपचयेऽवच्छेदकं प्राणादिमत्त्वमिच्छावत्त्वं च / यदवच्छेदेन यत्तिष्ठति तत्तद्व्याप्यम् / यथा धूमवत्त्वावच्छेदेन वह्निस्तिष्ठति अतो धूमो वहिव्याप्यः तद्वत्प्राणादिमत्त्वेच्छावत्त्वावच्छेदेन चेत् चेष्टावयवोपचयस्तिष्ठतितदा इच्छादिमत्त्वंप्राणादिमत्त्वं च चेष्टावयवोपचयस्य व्याप्यं तथा च यत्र यत्र प्राणादिमत्त्वं तत्र तत्र चेष्टावयवोपचयः इति व्याप्तिग्रहः / ततः किमित्यत आह - घटादाविति मूलम्। तथा चव्यापकाभावे व्याप्याभाव इत्याशयेनाह - चेष्टेति मूलम्। घटादौ चेष्टाविरहोऽवयवोपचयविरहश्च प्रत्यसिद्धः / ततो घटचेष्टाविरहेण प्राणादिमत्त्वेच्छादिमत्त्वविरहानुमानं यथा घटो न प्राणादिमान् नेच्छादिमान् च अवयवोपचयाभावात् / अत्र व्यतिरेकव्याप्तिर्यथा यत्र प्राणादिमत्त्वं तत्र तत्र अवयवोपचयः यथा स्वशरीरम् इत्येवं व्यतिरेकव्याप्त्याऽवयवोपचयाभावेन घटादौ प्राणादिमत्त्वेच्छादिमत्त्वविरहानुमानम्। ततः किमित्यत आह - इच्छादिविरहादितिमूलम्।घटादौइच्छादिमत्त्वविरहात्इच्छादिप्रयोजकेच्छाधारताघटकेच्छाऽसमवायिकारणसंयोगविरहानुमानं सिद्धम् / ननु अनुकूलतर्कविरहात् कथं यथोक्तसंयोगविरहानुमानम् इत्यतः अनुकूलतर्कमाह - कार्येति मूलम्। तथा च चेष्टावयवोपचयादिकं कार्यम्, तत् चेत् कार्यं यत्र नास्तितत्रप्राणादिमत्त्वमिच्छादिमत्त्वं कारणमपि नास्तीत्यर्थः। तथाच कार्याभाव एव कारणाभावज्ञापकः यथा शिलाशकले बीजाभावे अङ्कुराभाव(वः) ज्ञापकः / तथा च चेष्टाकारणं चप्राणादिमत्त्वम्। तथा च यत्र कार्य नास्ति तत्र कारणमपि नास्ति। यत्र चेष्टारूपं कार्यं नास्ति तत्र प्राणादिमत्त्वरूपं कारणमपि नास्ति यथा घटे तथा च घटे [110 B] प्राणादिमत्त्वेच्छादिमत्त्व (त्त्वा)त्मामानःसंयोगोऽसमवायिकारणम् / तथा च कथं मूलकृता असमवायिकारणसंयोगमुद्दिश्य किञ्चिदवच्छिन्नत्वं विधीयते इत्यत आह - किञ्चिदवच्छिन्न इति टीका / तथा