________________ केवलव्यतिरेक्यनुमाननिरूपणम् 227 तदा जातेरखण्डत्वात् वैयर्थ्यं न स्यादित्यर्थः / ननु स्वरूपनिर्वचनपरं जातिपदमपि किमर्थमिति चेत् अत आहयदि चेति टीका / यदि च साक्षाद्व्याप्यत्वस्येदं निर्वचनं तद्व्याप्यत्वे सति तदितराव्याप्यत्वं यथा द्रव्यत्वस्य साक्षाद्व्याप्यं पृथिवीत्वम्, कथम् ?, द्रव्यत्वस्य व्याप्यं पृथिवीत्वं भवति, द्रव्यत्वव्याप्यं यत् जलत्वं तस्याव्याप्यं पृथिवीत्वं भवति, इदं साक्षाद्व्याप्यत्वस्य लक्षणं क्रियते तदा जातिपदं निरर्थकम् / कुत इति शब्दत्वशब्दसङ्ख्यान्यतरादौ व्यभिचारो न भवति / शब्दशब्दसङ्ख्यान्यतरत्वस्य गुणत्वसाक्षाद्व्याप्यत्वाभावात् / तद्व्याप्यत्वे सति तद्व्याप्याव्याप्यत्वं नास्ति। तच्छब्देन गुणत्वं गुणत्वस्य व्याप्यं यत् शब्दसङ्ख्यान्यतरत्वं तस्य व्याप्यंशब्दजशब्दसङ्ख्यान्यतरत्वमितिकृत्वा तत्गुणत्वसाक्षाद्व्याप्यत्वंशब्दजशब्दसङ्ख्यान्यतरत्वादाविति / तदा जातिपदं न देयमित्यर्थः / यदि च [109 B] तद्व्याप्यत्वे सति तद्व्याप्यजात्यव्याप्यत्वं तदा शब्दजशब्दसङ्ख्यान्यतरत्वे व्यभिचारः / कथम् ? शब्दजशब्दसङ्ख्यान्यतरत्वं गुणत्वव्याप्यं भवति परं गुणत्वव्याप्याया अन्यस्याः कस्या अपि जातेप्प्यं न भवति / गुणत्वसाक्षाद्व्याप्या जातिः शब्दत्वमथ च सङ्ख्यात्वम् इति कृत्वाशब्दत्वस्यापिसङ्ख्यात्वस्यापिशब्दजशब्दसङ्ख्यान्यतरत्वं व्याप्यं नभवति इति जातिपदं शब्दजशब्दसङ्ख्यान्यतरत्वे व्यभिचारवारणायसार्थकम्।तथा चतत्र नित्येन्द्रियग्राह्यविशेषगुणवद्वृत्तिगुणत्वसाक्षाद्वयाप्यत्वं वर्तते संयोगासमवायिकारणकवृत्तित्वं नास्तीति स्वमतमाह - इन्द्रियत्वेनेतीति टीका / नित्येन्द्रियग्राह्यत्वमिन्द्रियत्वेन रूपेण विवक्षितम् / ननु नित्यमात्रग्राह्यत्वमेव कुतो न विवक्षितमित्यत आह - नन्विति टीका। ततः किमित्य आह - एवं चेति टीका / नित्येन्द्रियग्राह्यत्वं जातेर्विशेषणं तथा चेन्द्रियत्वेन रूपेण नित्येन्द्रियग्राह्या विशेषगुणवृत्तिगुणत्वसाक्षाद्व्याप्या या जातिः / पक्षे इच्छात्वम्, दृष्टान्ते च शब्दत्वमस्त्येवेति / एवं सति विशेषपदमपि सार्थकं जातिपदमपि सार्थकम् / कथम् ? सङ्ख्यात्वे व्यभिचारवारणाय विशेषपदं यथा एकत्वं जातिरिन्द्रियत्वेन रूपेण नित्येन्द्रियग्राह्या भवति यत आत्मवृत्तिगुण आत्मैकत्वं तन्मनसा इन्द्रियत्वेन रूपेण ग्रहणयोग्यं भवति, अथ च गुणत्वव्याप्यजातिरपि सङ्ख्यात्वं भवति तत्र सङ्ख्यात्वे संयोगासमवायिकारणकवृत्तित्वं नास्ति इति व्यभिचार: सङ्ख्यायाः संयोगोऽसमवायिकारणं न भवति घटादौ या एकत्वसङ्ख्या तस्याः कपालैकत्वमसमवायिकारणम् अत उक्तं विशेषपदं सङ्ख्यात्वं तु न विशेषगुणवृत्तीति भावः / जातिपदं च नित्येन्द्रियग्राह्यं यद्विशेषगुणवृत्तिगुणत्वसाक्षाद्व्याप्यं शब्दसङ्ख्यान्यतरत्वम् इन्द्रियत्वेन रूपेण नित्येन्द्रियं श्रोत्रं तद्ग्राह्यं भवति गुणत्वसाक्षाद्व्याप्यं भवति विशेषगुणवृत्त्यपि भवति शब्दस्य विशेषगुणत्वात् / तत्र व्यभिचारवारणाय जातिपदं शब्दसङ्ख्यान्यतरत्वस्य जातित्वाभावात् / जातीति टीका / नित्येन्द्रियग्राह्यत्वस्य जातिविशेषणत्वे न दोषः / सचेतीति टीका। ननु असमवायिकारणं संयोगः किञ्चिदवच्छिन्नः इत्यनुपपन्नम्। कुतः ? किञ्चिदवच्छिन्नस्य संयोगस्यासमवायिकारणत्वं यतः संयोगमात्रस्यातिप्रसक्तत्वात्, किञ्चिदवच्छिन्नः स च