________________ 226 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका संयोगस्याव्याप्यवृत्तित्वादवश्यमवच्छेदकापेक्षेति संयोगपदं सार्थकं साध्ये, असमवायिपदं संयोगकारणकवृत्तीत्युक्तौ यद्यपीच्छायाः संयोगः कोऽपि निमित्तकारणं शरीरात्माद्यवृत्तिः सिद्धस्तदवच्छेदकत्वस्य शरीरेऽसम्भवादसमवायिकारणावच्छेदकरूपं साध्यं वक्तुं न शक्यते इत्यसमवायीति / अथ हेतौ पदकृत्यं यथा नित्यपदं स्नेहत्वे व्यभिचारवारणाय / यथा स्नेहत्वं त्वगिन्द्रियग्राह्यविशेषगुणवृत्तिगुणत्वसाक्षाद्व्याप्या जातिर्भवति / तस्या जातेः स्नेहासमवायिकारणकवृत्तित्वमेव, न तु संयोगासमवायिकारणकवृत्तित्वम्, अतो नित्यपदम् / स्नेहत्वं तु नित्येन्द्रियग्राह्यं न भवति किन्तु त्वाभ्यामेव ग्राह्यं भवति / ननु तथापि स्नेहत्वे व्यभिचारो यथा नित्येन्द्रियं मनस्तद्ग्राह्यत्वात्।अतोव्याचष्टे - तच्चेति। तच्चयन्नित्येन्द्रियग्राह्यत्वंतन्नित्यमानेन्द्रियग्राह्यत्वमेतत्परं कर्तव्यम्।अन्यथोक्तदोषः स्यात्। ननु नित्येन्द्रियग्राह्या वाविशेषगुणवृत्तिगुणत्वसाक्षाद्वयाप्या जातिरित्यन्वयस्तदा विशेषपदं व्यर्थं यत आत्मैकत्वत्वे व्यभिचार एव नास्ति यत आत्मैकत्वत्वस्य नित्यमानेन्द्रियग्राह्यत्वेऽपि गुणत्वसाक्षाद्व्याप्यजातित्वमेव नास्ति, यदि च नित्येन्द्रियग्राह्येति विशेषगुणस्य विशेषणं क्रियते तदा विशेषपदानुपादाने सङ्ख्यात्वजातौ व्यभिचारः [109 A] यथा नित्यमात्रेन्द्रियग्राह्यो गुणः आत्मैकत्वं तच्च मनोमात्रग्राह्यं तद्वृत्तिगुणत्वसाक्षाद्व्याप्याजातिः सङ्ख्यात्वंतत्रसंयोगासमवायिकारणकवृत्तित्वं नास्ति सङ्ख्याया एव सङ्ख्यायामसमवायिकारणत्वात् इति कृत्वा विशेषपदं सार्थकंभवतिअन्यथा तु निरर्थकम्। पूर्वोक्तरीत्येति / तस्माद् युक्तं नित्येन्द्रियग्राह्येति विशेषगुणस्यैव विशेषणम्। एतदेवाह - एतच्चेति टीका। अन्यथेति टीका। यदि गुणविशेषणं न भवति तदा इत्यर्थः / दोषस्तु पूर्वमुक्तः / ननु आत्मैकत्वं प्रत्यक्षं न भवति। तथा च नित्यमात्रेन्द्रियग्राह्यो गुण आत्मैकत्वं न भवत्येव। कथं गुणविशेषणेऽपि विशेषपदं सार्थकमित्यत आह - आत्मैकत्वेति टीका / तथा च येषां मते आत्मैकत्वं प्रत्यक्षं तन्मते सार्थकमित्यर्थः / साक्षात्पदस्य कृत्यमाह - नित्ये शब्दजशब्देति / शब्दजन्यतावच्छेदिका शब्दजशब्दमात्रनिष्ठा एका शब्दत्वावान्तरजातिस्तिष्ठति, तस्यां जातौ व्यभिचारो यतो नित्येन्द्रियग्राह्यविशेषगुणः शब्दः तद्वृत्तिर्गुणत्वावान्तरजातिः शब्दजशब्दमात्रनिष्ठा भवत्येव परं संयोगासमवायिकारणकत्वं नास्त्येव तस्य शब्दासमवायिकारणकत्वात् अत उक्तम् - साक्षादिति / सा शब्दाज]शब्दमात्रवृत्तिर्या जातिः शब्दत्वस्य साक्षाद् व्याप्या न तु गुणत्वस्य साक्षाद् व्याप्या / गुणत्वस्य च शब्दत्वं साक्षाद् व्याप्या जातिः शब्दत्वस्य च या व्याप्या सा गुणत्वस्य परम्परया व्याप्येत्यर्थः / ननु नित्येन्द्रियग्राह्यविशेषगुणवृत्तिगुणत्वसाक्षाद्धर्मत्वात् इत्येवास्तु किं जातिपदेनेत्यत आह - जातिपदमिति टीका / तथा च जातित्वेन रूपेण जातेः प्रवेशो नास्ति किन्तु विशेषणांशं जातित्वं परित्यज्य विशेष्या जातिरेव गृह्यते। यदि चजाते॥तित्वेन रूपेण प्रवेशः स्यात् तदा नित्यत्वे सति समवायसम्बन्धेनानेकधर्मत्वं जातित्वंतत्र चधर्मत्वांशमात्रं ग्राह्यं स्यादितरभागो नित्यादि: व्यर्थः स्यात् धर्ममात्रपरिग्रहात्, यदि च जातिस्वरूपमात्रं गृह्यते