________________ 225 केवलव्यतिरेक्यनुमाननिरूपणम् ___ अथ मूले सिद्धान्तमाह - इच्छेति / इच्छाया असमवायिकारणसिद्धौ यथा इच्छा असमवायिकारणजन्या भावकार्यत्वात् घटवत् इति अनुमानेन इच्छाया असमवायिकारणजन्यत्वं सिद्धम् / ततः किमित्यत आह मूलेइच्छात्वमिति। इच्छात्वं संयोगासमवायिकारणकवृत्तम्, संयोगोऽसमवायिकारणं यस्य तत् संयोगासमवायिकारणकम्, तवृत्तिहेतुमाह - नित्येन्द्रियेति। नित्येन्द्रियग्राह्यो यो विशेषगुणः तद्वृत्तिर्या गुणत्वसाक्षाद्व्याप्या जातिः तद्वत्त्वात् शब्दत्ववत्। यथा शब्दत्वे नित्येन्द्रियग्राह्यो विशेषो गुणः शब्दः तद्वृत्तिर्गुणत्वसाक्षाद्व्याप्यजातिः शब्दत्वं भवति तत्संयोगासमवायिकारणम् आद्यो यो भेरी-आकाशसंयोगः किञ्चिद्व(दव)च्छिन्नः संयोगत्वात् शाखावच्छिन्नकपिसंयोगवत् / अनेन प्रकारेण तस्य संयोगस्य किञ्चिदवच्छेदकं तु वक्तव्यमेव / तच्च किं भविष्यति ? शरीरमेव भविष्यति / तथा च इच्छाऽसमवायिकारणसंयोगावच्छेदकत्वं यत् साध्यं तत् शरीरे साध्यते, यथा वह्निरूपो धर्मः पर्वते साध्यते तथैव एतादृशः शरीरनिष्ठो धर्मः शरीरे साध्यते। _____ अथ टीका / ननु प्रथमत इच्छाऽसमवायिकारणसिद्धाविति मूलकारेण किमर्थमुक्तम्, इच्छात्वं संयोगासमवायिकारणकवृत्तीत्येव कुतो नोक्तमित्यत आह टीकाकारः - इच्छाया इति / यदा इच्छाया असमवायिकारणमेव सिद्धं नास्ति तावत्पर्यन्तं संयोगासमवायिकारणत्वशङ्काप्रसङ्ग एवनास्तीति युक्तमनुमानात् पूर्वमिच्छाया असमवायिकारणजन्यत्वानुमानमित्यर्थः / इच्छाऽसमवायिकारणसिद्धिः कुत इत्याकाङ्क्षा यां पूरयति मूले - भावकार्यत्वादितीति / तथा च प्रथमानुमानम् इच्छा असमवायिकारणजन्या भावकार्यत्वात् घटवत् इति शेषार्थः / ननु मूले इच्छात्वमिति जातिपक्षकानुमानं कथमुक्तम् ? तथा च इच्छा संयोगासमवायिकारणिका नित्येन्द्रियग्राह्यविशेषगुणत्वात् इत्येव किमिति[108 B] नोक्तमित्यत आह - व्यक्तिपक्षक इति टीका / तथा च यदि इच्छा संयोगासमवायिकारणिका नित्येन्द्रियग्राह्यविशेषगुणत्वात् इदं चेदनुमानं क्रियते तदा शब्दाज्जातो यः शब्दस्तत्र व्यभिचारः / कथम् ? तत्र नित्येन्द्रियग्राह्यविशेषगुणत्वं वर्तते परं तत्र संयोगासमवायिकारणकत्वं नास्ति तस्य शब्द एव पूर्वतनोऽसमवायिकारणमिति कृत्वा जातिः पक्षः कृतः / तथा च यत्र यत्रनित्येन्द्रियग्राह्यविशेषगुणवृत्तिगुणत्वसाक्षाद्वयाप्यजातित्वं तत्र तत्रसंयोगासमवायिकारणकवृत्तित्वम् इयं व्याप्तिः शब्दत्वे दृष्टान्ते वर्तते यतस्तत्र नित्येन्द्रियेत्यारभ्य हेतुर्वर्तते, संयोगासमवायिकारणकः प्रथमशब्दस्तद्वृत्तिरपि भवति शब्दत्वजातिः / अथ व्यावृत्तिर्यथा साध्ये संयोगपदत्यागे न प्रकृतसिद्धिः / इच्छाऽसमवायिकारणसंयोगावच्छेदकत्वं सात्मकत्वम्, न तु इच्छाऽसमवायिकारणावच्छेदकत्वमात्रम्, तथा चेच्छाऽसमवायिकारणं किञ्चिद्व्याप्यवृत्तिधर्मादिकमपि चेदायातितदा तस्यावच्छेदकस्यापेक्षैव नास्ति इच्छाऽसमवायिकारणभूतधर्मस्यव्याप्यवृत्तित्वादवच्छेदकापेक्षेवनास्ति। तथाचेच्छाऽसमवायिकारणसंयोगः सिद्धस्तदा 1 सात्मकत्वमेव / प्रतौ टिप्पणी। 2. द्वितीयात् / प्रतौ टिप्पणी।