________________ केवलव्यतिरेक्यनुमाननिरूपणम् 223 इच्छाया असमवायिकारणसंयोगावच्छेदकत्वस्याभावो घटादौ दृष्टः तद्वयतिरेकः शरीरे साध्यते इति चेत्।न। इच्छाया असमवायिकारणसंयोगावच्छेदकत्वस्य शरीर एव प्रसिद्धेः सिद्धसाधनात्, अन्यथा असिद्धिर्व्यतिरेकाद्यनिरूपणात्।अप्रसिद्धसाध्यसंसर्गमिवसाध्यमप्रसिद्धंसाधयतिव्यतिरेकीति चेत्।न।व्यतिरेकाद्यनिरूपणात् असाधारणधर्मेणाप्रतीतपदार्थानुमाने घटत्वादिनापि स्वेच्छाकल्पितडित्थाद्यनुमानप्रसङ्ग इति। अथ मूलम् / इच्छेति मूलम्। इच्छाया असमवायिकारणं संयोगः, तदवच्छेदकत्वस्याभावो घटादौ नैरात्म्य प्रसिद्धं तदभावो जीवच्छरीरे साध्यते इत्याशङ्कार्थः / दषयति- इच्छेति मूलम् / इच्छाऽसमवायिकारणसंयोगावच्छेदकत्वं प्रसिद्धमप्रसिद्धं वा? आये तस्य शरीरे एव प्रसिद्धेः सिद्धसाधनता स्यात्। द्वितीये आह - अन्यथेति मूलम् / यदि अप्रसिद्ध साध्यं तदा प्रतियोग्यप्रसिद्धेर्व्यतिरेकानिरूपणात्' अनुमानं न स्यादित्यर्थः / ननु नैरात्म्यं भावरूपमेव किञ्चिद् भविष्यति, तथा च तद्रूपव्यतिरेकव्याप्तिज्ञानात् यथाऽयं रसाभाववान् रूपाभाववत्त्वात् इत्यत्रयथा यत्ररसस्तत्ररूपमितिभावरूपव्यतिरेकव्याप्तिज्ञानादप्रसिद्धस्यापि साध्यस्य व्यतिरेक्यनुमितिः अथवा पर्वतो वह्निमान् इत्यत्र पर्वतवह्रिसंसर्गोऽप्रसिद्ध एव सिद्धयति पूर्वं पर्वतवह्रिसंसर्गज्ञानाभावात् / तथा च यथा पर्वतवह्रिसंसर्गोऽप्रसिद्धः पक्षे सिद्धयति तद्वत् अप्रसिद्ध साध्यमपिव्यतिरेक्यनुमानात् सेत्स्यतीत्याशयेनाशङ्कतेअप्रसिद्धेति। दूषयति - व्यतिरेकेति। यद्यपि अप्रसिद्धोऽपि साध्यसंसर्गः सिद्धयतीत्युचितं तस्य साध्यज्ञानाधीनत्वात् / ननु साध्यसंसर्गज्ञाने साध्यसंसर्गज्ञानं नापेक्षितं साध्यज्ञानस्यैव साध्यसंसर्गज्ञानेऽपेक्षणात् / तथा च प्रकृते साध्यज्ञाने तु अन्वयव्याप्तिज्ञानं वा व्यतिरेकव्याप्तिज्ञानं [वा] कारणम् / तथा च यत्र प्राणादिमत्त्वं तत्र सात्मकत्वमित्यन्वयव्याप्तिज्ञानं नास्ति प्रतियोगिज्ञानाभावे व्यतिरेकव्याप्तिज्ञानमपि नास्ति / तथा च [108 A] साध्यप्रसिद्धयभावेव्यतिरेकाद्यनिरूपणात् व्यतिरेकव्याप्त्यनिरूपणात्साध्यविशिष्टज्ञानरूपा यथाइदं सात्मकम् इत्यनुमितिरपिनभवतीतिएतदेवाह - व्यतिरेकाद्यनिरूपणादितिमूलम्। दूषणान्तरमाह - असाधारणेति / यदि प्राणादिमत्त्वरूपो जीवच्छरीरस्यासाधारणो धर्मः तेन धर्मेणाप्रसिद्धसात्मकत्वानुमाने स्वेच्छाकल्पितमप्रसिद्धपदार्थानुमानं घटत्वादिनापिस्यात् यथाघटत्वात् इदम्--इत्यप्रसिद्धडित्थानुमानमपि स्यादितिमूले पूर्वपक्षार्थः / अथ टीका / यद्यपीति टीका। मूलकारेणोक्तम् इच्छाऽसमवायिकारणसंयोगावच्छेदकत्वं शरीरे एव प्रसिद्धं शरीरादन्यत्राप्रसिद्धत्वादिति तदयुक्तम् / सात्मकत्वं तु शरीरावयवेऽपि प्रसिद्धमस्ति ततः कथमुक्तं शरीरादन्यत्राप्रसिद्धमिति / समाधत्ते - तथापीति टीका / सात्मकत्वस्य शरीरावयवे प्रसिद्धौ तत्र च हेतुवृत्तौ अन्वयित्वं हेतोरवृत्तौ असाधारण्यमित्याह - तदिति। 1. व्यतिरेकव्याप्त्यनिरूपणात् / प्रतौ टिप्पणी।