________________ 222 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका साध्याप्रसिद्धिरेव दोषः / ननु जीवच्छरीरे एव उक्तरूपसात्मकत्वस्य प्रसिद्धिर्भविष्यति इत्यत आह - तत्रेति मूलम् / तथा च पक्ष एव चेत् साध्यप्रसिद्धिस्तदा सिद्धसाधनमेवेति मूलार्थः / अथ टीका / इच्छादीति टीका। इच्छादिकार्यं यस्य इत्युक्ते इच्छादिकार्यत्वं मनसि वर्तते सात्मकत्वं च तत्र नास्तीति व्यभिचार इत्यन्यथा व्याचष्टे - इच्छादीति। आदिशब्दाद् ज्ञानसुखादिः / तथा च इच्छाद्यवच्छेदकत्वं शरीरस्यैव, न मनसः / कथम् ? मनोऽवच्छेदेन इच्छानुपलब्धेः। मनसो मुक्तात्ममनसो घटादौ अपिवृत्तेर्न तदवच्छेदकत्वम्, शरीरावच्छेदेनैव इच्छोपलब्धेः इत्यर्थः / तत्र तस्येति पदं व्याचष्टे- तस्येतीति / तस्य कुतोऽसामर्थ्यमित्यत आह - योग्येति। अतीन्द्रिय आत्मा तद्घटिते योग्यानुपलब्धिर्नास्तीति तस्य प्रत्यक्षस्यासामर्थ्यमित्यर्थः / भावेति टीका / कार्यत्वं ध्वंसे वर्तते समवायिकारणजन्यत्वं नास्तीति व्यभिचार इत्यन्यथा व्याचष्टे - भावकार्यत्वादिति। तथा च यत्रभावकार्यत्वंतत्रसमवायिकारणजन्यत्वमस्तीतिनव्यभिचार इत्यर्थः। ज्ञानेतीति टीका। व्यावृत्तिमाह - ज्ञानेतीति / ज्ञानसमानाधिकरणपदस्य कृत्यमाह- घटादेरिति टीका। तथा च ज्ञानकारणीभूतो यः संयोग इन्द्रियार्थसन्निकर्षः तदाश्रयत्वं घटेऽपि वर्तते इत्यतो ज्ञानसमानाधिकरणेति, यतो घटेन्द्रियसन्निकर्षो ज्ञानसमानाधिकरणो न भवतीति भावः / अथ ज्ञानकारणीभूतेति पदस्य कृत्यमाह - आत्मेति टीका / तथा च आत्मघटसंयोगो ज्ञानसमानाधिकरणो भवति तदाश्रयत्वे सति कार्यत्वं घटे वर्तते परं ततः प्राणादिमत्त्वहेतुव्यावृत्तौ असाधारण्यमित्यत आह - ज्ञानकारणीभूतेति प्रथमं संयोगविशेषणम्। तादृशेति टीका / ज्ञानसमानाधिकरणा ज्ञानकारणीभूता च सत्ता भवति सत्ताया अपि सत्ताज्ञाने कारणत्वात्। आत्मनि सत्ता सत्त्वाच्चेति तद्वत्त्वं घटे वर्तते एवेति पुनरसाधारण्यमत आह - संयोगेति। [107 B] सत्ता न संयोग इति तस्या व्यावृत्तिः। अथ कार्यपदकृत्यमाह - आत्मेति टीका।आत्ममनःसंयोगःज्ञानकारणीभूतो ज्ञानसमानाधिकरणोऽपि भवति, तदाश्रयत्वमात्मन्यस्ति इति कृत्वा ततो हेतुव्यावृत्त्या(त्ता)वसाधारण्यमित्यत आह - कार्यत्वपदम् / आत्मनि नित्यत्वात् कार्यत्वं नास्तीति भावः। अत्राशङ्कते - न चेति टीका। तथा च ज्ञानसमानाधिकरणो ज्ञानकारणीभूतो यः संयोगः तदाश्रयत्वं प्राणेऽपि वर्तते / तदा सात्मकत्वलक्षणस्योक्तस्य प्राणेऽतिप्रसङ्गः इत्याशङ्कार्थः / समाधत्ते - आत्मेति टीका। तथा च प्राणात्मसंयोगस्यान्यथासिद्धतया तत्र ज्ञानकारणीभूतत्वमेव नास्तीति कथमतिप्रसङ्ग: ? शरीरप्राणसंयोगेन प्राणात्मसंयोगः प्राणमनःसन्निकर्षश्च ज्ञानं प्रति न कारणम् किन्तु अन्यथासिद्धः। तथा च प्रत्यक्षखण्डे प्राणात्मसंयोगः प्राणमनःसन्निकर्षश्च कारणमित्युक्तं तन्मतान्तराभिप्रायेण / ननु शरीरादन्यत्र शरीरावयवेषु सात्मकत्वमप्यस्ति प्राणादिमत्त्वमप्यस्तीति तत्र साध्यप्रसिद्धावन्वयित्वमेव स्यादित्यत आह - शरीरावयवस्येति / तथा च यदा शरीरावयवस्य सपक्षत्वनिश्चयो नास्ति तस्यां दशायां व्यतिरेकावतारोऽत एव दशाविशेष एव व्यतिरेकत्वमित्यर्थः /