________________ केवलव्यतिरेक्यनुमाननिरूपणम् * 221 कथं विशिष्टवैशिष्टयबोध इत्यर्थः / ननु सात्मकत्वाप्रसिद्धावपि यत्र नैरात्म्यं तत्र प्राणादिमत्त्वाभाव इति व्यतिरेकव्याप्तिः प्रत्यक्षेण घटादौ गृह्यत एव नैरात्म्यस्य सात्मकत्वा(त्व)प्रतियोगित्वात् इत्यत आह - नैरात्म्यं चेति मूलम् / तच्चेति। नैरात्म्यं घटादौ न प्रत्यक्षवेद्यम्, हेतुमाह - तत्रेति मूलम्। घटादौ यत्नैरात्मयं तत्र नैरात्म्ये तस्येति प्रत्यक्षस्यासामर्थ्यात् / कुतः ? यतो नैरात्म्यं बाह्येन्द्रियाप्रत्यक्षात्मादिघटितमूर्तिकं भवति, आत्मा यदि अप्रत्यक्षस्तदा आत्मघटितं नैरात्म्यं कथं प्रत्यक्षम् ? येनेन्द्रियेण यद् वस्तुगृह्यते तदभावोऽपि तेनेन्द्रियेणैव गृह्यते इति नैरात्म्यमात्माभावरूपं न प्रत्यक्षम् / न तु नैरात्म्यज्ञानम् अनुमानात् भविष्यति यथा घटादि निरात्मकम् अचेतनत्वात् इत्यनुमानगम्यमित्यत आह - नानुमानेति मूलम् / अत्रानुमाने सपक्षाभावात् दृष्टान्तेऽपि पटादौ नैरात्म्यं केन प्रमाणेनावधारितम् ? न केनापीति नान्वयित्वमित्यर्थः / नन्वत्र व्यतिरेकव्याप्तिरेव भविष्यति, नैरात्म्याभावः सात्मकत्वं तथात्र यत्र यत्र सात्मकत्वं तत्राचेतनत्वाभावः यथा जीवच्छरीर इत्यत आह - सात्मकत्वेति / तथा च सात्मकत्वप्रतीतिं विना नैरात्म्यानुमानमपि न सम्भवति / तथा च सात्मकत्वे प्रतीते नैरात्म्यस्य व्यतिरेकव्याप्तिग्रहः, नैरात्म्ये प्रतीते सात्मकत्वस्य व्यतिरेकव्याप्तिग्रह इत्यन्योन्याश्रयो दोषः / अथ साध्यप्रसिद्धिं शङ्कतें - अथेति मूलम् / इच्छेति मूलम् / असमवायिकारणजन्या कार्यत्वात् / ततः किमित्यत आह - इच्छाऽसमवायिकारणसिद्धाविति मूलम् / तथा चेच्छाऽसमवायिकारणस्यात्ममनःसंयोगादेः सिद्धौ तद्वत्त्वं सात्मकत्वं जीवच्छरीरे साध्यत इत्याशङ्कार्थः / दूषयति - यदीति मूलम् / भवतु तावदिच्छाऽसमवायिकारणसिद्धिः तथापि इच्छाऽसमवायिकारणमात्मसंयोगवत्त्वमात्रं वा सात्मकत्वं साध्यते किंवाऽन्यद् वा।आद्ये आह - तदेति मूलम् / घटादौ आत्मसंयोगवत्त्वं व्यापकत्वादात्मनस्तिष्ठति तत्र च प्राणादिमत्त्वं हेतुर्न वर्तत इति सपक्षाद् हेतुव्यावृत्तौ असाधारण्यम् / अन्यद् वेति पक्षं दूषयति - ज्ञानेति मूलम् / ज्ञानं यत्राधिकरणे वर्तते तंत्राधिकरणे [107 A] यो वर्तते स ज्ञानसमानाधिकरणस्तथा च ज्ञानसमानाधिकरणो यो ज्ञानकारणीभूतो यः संयोगस्तदाश्रयत्वे सति कार्यत्वम् एतादृशं सात्मकत्वं घटादौ नास्ति जीवच्छरीरे वर्तते इति योजयति - शरीरात्मेति / तथा च शरीरात्मसंयोगो ज्ञानसमानाधिकरणो भवति। ज्ञानाधिकरणे आत्मनि ज्ञानस्य शरीरात्मसंयोगस्यापि विद्यमानत्वात् / तथा च शरीरात्मसंयोगो ज्ञानसमानाधिकरणो भवति ज्ञानकारणं च भवतीति / कार्यपदस्य व्यावृत्तिमाह - आत्मेति / तथा च ज्ञानसमानाधिकरण-ज्ञानकारणीभूतः संयोगः आत्ममनःसंयोगस्तदाश्रयत्वमात्मन्यपि वर्तते मनस्यपि वर्तते इति कृत्वा आत्मन्यपि सात्मकत्वं स्यात् अत आह - कार्यत्वमिति आशङ्कार्थः / दूषयति - शरीरेति / तथा च एतादृशं यत् सात्मकत्वम् - ज्ञानसमानाधिकरणज्ञानकारणीभूतसंयोगाश्रयत्वेसतिकार्यत्वलक्षणं यत्सात्मकत्वम् - तत् जीवच्छरीरव्यतिरेकेणान्यत्राप्रसिद्धमिति 1. मुद्रितमूले प्रतीकं नोपलभ्यते।