________________ केवलव्यतिरेक्यनुमाननिरूपणम् 219 एव यथा पृथिवी जलाभिन्ना गुरुत्वात् इत्यनेन जलाभेदमात्रं सिद्धम्, एवं लिङ्गान्तरेण तेजसोऽप्यभेदः साधनीयः यथा पृथिवी तेजसोऽभिन्ना जलान्यत्वे सति शुक्लरूपत्वात् इत्यनेन तेजसोऽप्यभेदः साधनीय एवेत्यर्थः / एतदेवाह - गुरुत्वेनेति टीका। लिङ्गान्तरैरिति टीका / पृथिवी तेजसोऽभिन्ना जलान्यत्वे सति शुक्लरूपत्वात्, एवं पृथिवी वाय्वभिन्नाशीतोष्णस्पर्शान्यस्पर्शवत्त्वात् इत्यादिना तावन्तोऽभेदाः प्रत्येकं साधनीयाः। दूषणान्तरमप्याहं - किञ्चेति / मूलकृतोक्तम् इतराभेदसङ्गतम् / कुतः ? यत इतरभेदनिषेधो हि इतराभेदः / किमिति। स चजलत्वतेजस्त्वाद्यात्मकः / ततो जलत्वतेजस्त्वादीनि तु एकत्राधिकरणे साधयितुं न शक्यन्ते परस्परं विरुद्धत्वात् इयु(त्यु)क्तं तदप्यसङ्गतम् / कुतः ? यत इतरभेदनिषेधो न इतराभेदः किन्तु भिन्न एव, स चान्यतराभावेऽपि सम्भवत्येव / यथा घटवति भूतले पटव्यतिरेकेण घटपटोभयत्वावच्छिन्नाभावः तद्वत् जलादिषु यद्यपि जलभेदो नास्ति तथापि जलभेदतेजोभेदत्वावच्छिन्नाभावो भविष्यत्येव / तथा चेतरभेदस्य निषेधो व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताको जलेऽपि जलतेजोवाय्वादिभेदत्वावच्छिन्नभेदाभावो जले वर्तत एव हेतुरपि तत्र वर्तत एवेत्यन्वयव्याप्त्या चतुर्दशभेदाभावः पृथिव्यां साधयितुं शक्यत एवेत्येतदेवाह - अन्यतरेति।जले यद्यपि जलभेदो नास्ति तथापि जलभेदतेजोभेदादीनां व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताको जले वर्तत एवेति / अत्रैव दृष्टान्तमाह - एकसत्त्वेऽपीति। यथा एकस्मिन् घटे सत्यपि पटाभावात् द्वयमिह नास्तीति प्रतीत्या द्वित्वावच्छिन्नोऽभावोऽस्ति तद्वत् प्रकृतेऽपि स जलादिसमुदितचतुर्दशभेदत्वावच्छिन्नोऽभावोऽस्त्येवेत्यर्थः / ननु व्यासज्यवृत्तिधर्मावच्छिन्नाभावो नव्यैर्न स्वीक्रियते एवेत्यत आह - अन्यथेति। यदि व्यासज्यवृत्तिधर्मावच्छिन्नाभावो न स्वीक्रियते तदा पूर्वं पृथिवी इतरेभ्यो भिद्यते [106 A] इत्यत्र चतुर्दशभेदत्वावच्छिन्नभेदाभावमादाय जले यत् विपक्षमुपपादितं तत् न स्यादित्यर्थः / प्रत्यक्षेति टीका। घटपटादिरूपापृथिवी न जलं नापि तेज इत्यादि प्रत्येकं भेदस्य पक्षे घटपटादिरूपपृथिव्यां निश्चयेन चतुर्दशाभेदसाधकं यदनुमानम् इदं चतुर्दशाभिन्नं पृथिवीत्वात् इत्यनुमानस्य बाधितत्वान्न सत्प्रतिपक्षत्वमिति भावः / ननु जलेत्यारभ्य समवायपर्यन्तं त्रयोदश पदार्थाः, कथं मूलकारेणोच्यते चतुर्दशेत्यत आह - अभावेऽपीति टीका / यद्यपि जलेत्यारभ्य समवायपर्यन्तं त्रयोदशैव तथाप्यभावमादाय चतुर्दशत्वं बोध्यम् / एतावता चतुर्दशभेदसाधकानुमानस्य किमनुकूलमुक्तमित्यत आह - प्रमाणसिद्धेति टीका / तथा च प्रमाणसिद्धो यः प्रत्येकं चतुर्दशभेदो घटपटादिरूपा पृथिवी न जलं न तेज इत्यादिरूपस्तथा चायमभेदोऽनुकूलं बलं चतुर्दशभेदसाधकानुमानस्य ज्ञेयमित्यर्थः / लिङ्गत्वे वेतीति टीका। जलं जलाद् भिद्यते जलभेदाधिकरणान्यतरत्वात्, यत्र यत्र जलभेदाधिकरणान्यतरत्वं तत्र तत्र जलभेदो जलभेदाधिकरणवत् / तथा च अनुकूलतर्कशून्यमनुमानमात्रं चेत् साधकं तदा इदमप्यनुमान जले जलसाधकं स्यादिति भावः / अत्राशङ्कते - यद्यपीति टीका / तथा च जलं पृथिवीतरजलादिभेदवत् पृथिवीतरजलभेदाधिकरणजलान्यतरत्वात् जलभेदाधिकरणवत् / जलान्यतरत्वादित्युच्यमाने दृष्टान्तासङ्गतिः / केन