________________ 218 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका मूलशङ्कार्थः / दूषयति - अन्यतरत्वस्येति मूलम् / यथा पर्वतो [105 A] वह्निमान् धूमालोकान्यान्यत्वात्, अत्र धूमालोकान्यान्यत्वं न लिङ्गं न वा लिङ्गतावच्छेदकं गौरवात्, लाघवात् धूमत्वमेव व्याप्यतावच्छेदकम्, तदा(था) प्रकृते तदधिकरणेत्यत्रपृथिवीत्वमेव हेतुतावच्छेदकं लाघवात्।नतु विशिष्टं हेतुतावच्छेदकं गौरवात्। अत एवाह - अलिङ्गत्वमिति मूले। विशिष्टं न लिङ्गं किन्तु पृथिवीत्वमात्रमेव लिङ्गमितिभावः / ननु गुरुभूतमपि भवतु लिङ्गं यथा गौरितरेभ्यो भिद्यते सास्नावत्त्वात् इत्यत्र गोत्वापेक्षया सास्नावत्त्वस्य गुरुत्वात् (विशिष्टेन इति अस्य हेतुत्वं वर्तत एवेति। न च यदि गुरुभूतधर्मावच्छेदेनापि व्याप्तिस्तदा पर्वतो वह्निमान् नीलधूमात् इत्यत्रापि नीलहेतुकमप्यनुमानं स्यादिति वाच्यम् स्वार्थानुमाने इष्टापत्तेः, नीलधूमस्यापि स्वार्थानुमाने व्याप्यत्वमेव, यत्र नीलधूमस्तत्र वह्निरिति परार्थानुमाने तु नीलपदमधिकमिति वादिना निगृह्यते इत्यस्वरसादाह - लिङ्गत्वे वेति मूलम् / तथा चैतादृशमनुमानमनुकूलतर्कशून्यं न संभवति, यथा पृथिव्यामितरभेदाभावे पृथिवीत्वं न स्यात् पृथिवीत्वस्य जलादिवैधर्म्यरूपत्वात् एवमनुकूलतर्कोऽस्ति। प्रकृते तु पक्षसपक्षान्यतरत्वादितिवदनुकूलतर्को नास्ति / यथा इतरभेदाभावे साध्याधिकरणपृथिव्यन्यतरत्वं न स्यादिति वक्तुं न शक्यते, यथा वह्नयभावे धूमो नस्यादिति वक्तुं शक्यते तत्प्रयोजककार्यकारणभावस्य विद्यमानत्वात्, परं वन्यभावे पाषाणवत्त्वं न स्यादिति वक्तुं न शक्यते तत्प्रयोजककार्यकारणभावादीनां विरहात् / प्रकृते च यथा इतरभेदाभावे हेतुर्न स्यात् इति वक्तुं [न] शक्यतेप्रयोजकाभावादित्यर्थः। पुनःसत्प्रतिपक्षान्तरंशङ्कते - एवमितिमूलम्।यदि पृथिवीत्वेनेतरभेदानुमान तदा पृथिवी जलं पृथिवीत्वात् इति पृथिवीत्वेन जलत्वानुमानमपि स्यात् यथा यत्र जलत्वाभावस्तत्रपृथिवीत्वाभावः, तथा [पृथिवी] तेजः / तथा च पृथिवीत्वेन यथा प्रत्येकमितरभेदानुमानं तथा प्रत्येकमितरत्वानुमानमपि स्यात्।यथा पृथिवी तेजः पृथिवीत्वात् इत्यादिकमपिस्यात्, व्यतिरेकसहचारेण तुल्योपस्थितिकत्वादित्याशङ्कार्थः / समाधत्ते - अजलस्येति मूलम्। तथा चाजलस्य घटादेः प्रत्यक्षप्रमाणेन पृथिवीत्वनिश्चये जलत्वादीनांचव्यतिरेकनिर्णये व्यभिचारस्य स्फुटत्वेन दुर्बलत्वेन सत्प्रतिपक्षत्वाभावात्। एतदेवाह - पृथिवीत्वेति। तथा चव्यभिचारात् न्यूनत्वमिति तुल्योपस्थितिकत्वाभावान्नसत्प्रतिपक्षत्वम्। ननु व्यभिचारास्फुरणदशायां सत्प्रतिपक्षोऽस्तु इत्यत आह - तदनवतारे चेति / यदा व्यभिचारो न स्फुरितस्तदा सत्प्रतिपक्षत्वमिष्टमेवेत्यत एव [105 B] सत्प्रतिपक्षस्य दशाविशेषे व्यभिचारास्फुरणदशायामेव दोषत्वमित्यर्थः। अथ टीका। उत्तरग्रन्थयोजनार्थमाभासमाह - नन्विति टीका।यथा मूलकारेणोक्तं पृथिवी पक्षो जलाद्यभिन्ना गुरुत्वात्इत्यत्रपृथिव्यांजलाद्यभेदः साधनीयः, सचाभेदः साधयितुंन शक्यते, तथापिगुरुत्वेन प्रत्येका[भेदसाध्ये) कुतो दृष्टान्तः जलम् / तत्र जलतेजःप्रभृतीनामभेदाभावादिति मूलकारेण सत्प्रतिपक्षो दूषितः / तच्चायुक्तम् / कुतः ? यद्यपि गुरुत्वेनजलतेजःप्रभृत्यभेदः साधयितुं न शक्यते तथापिगुरुत्वेन प्रत्येकाभेदस्तु साधयितुं शक्यत