________________ 216 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका नास्ति। तेजोऽन्यप्रमेयत्वात्यन्ताभावस्य प्रतियोगि यत् प्रमेयत्वं तेजोऽन्येन तेजोऽन्योन्याभावेन विशेषितमेव / अयं हेतुर्बलत्वात्यन्ताभावे पक्षे तु वर्तते एवेति कथं जलत्वात्यन्ताभावस्य प्रतियोगि जलत्वं तत् अभावेन न विशेषितमिति वर्णयन्ति केचित् / तन्नेति दूषयति / तथापि एतादृशज्ञानविशेष्यत्वाभावे व्यभिचारः / तत् ज्ञानं कीदृशमित्यत आह - तेजोऽन्येति टीका। तथा चतेजोऽन्यत्प्रमेयम् इत्याकारकं यद्ज्ञानंतादृशज्ञानविशेष्यत्वाभावे व्यभिचारः / कथम् ? अत्र प्रतियोगि ज्ञानविशेष्यत्वं तच्चाभावेन न विशेषितं किन्तु यथा घटाभावज्ञाने सत्येव घटाभावनिरूपणं तथा तेजोऽन्यत्वज्ञाने तेजोऽन्यप्रमेयत्वं तेन ज्ञानं विशेष्यत्वरूपं यत्प्रतियोगि तन्निरूप्यते न तु ज्ञानविशेष्यत्वरूप: प्रतियोगी अभावेन विशेषितः, तथा च तव अभावाविशेषितप्रतियोगिकाभावत्वं हेतुः तादृशज्ञानविशेष्यत्वाभावे व्यभिचार्येव। प्रतियोग्यां(ग्य)शेऽभावस्याप्रवेशेनाभावाविशेषितप्रतियोगिकात्यन्ताभावत्वरूपहेतुसत्त्वात् व्यभिचारो भवत्येव / मदीये हेतौ न व्यभिचारः / तेजोऽन्यप्रमेयमिति ज्ञानस्य यनिरूपणं तत् तेजोऽन्यत्वलक्षणीयभावनिरूपणेन विना न सम्भवतीति मदीयविवक्षायामतो न व्यभिचारः / अन्यकृतं व्याख्यान्तरं दूषयति- तेजोमात्रेति। जलत्वात्यन्ताभावस्तेजस्त्वात्यन्ताभावाधिकरणवृत्तिः अत्यन्ताभावत्वात् इत्यस्य व्याख्यानं तेजोमात्रावृत्त्यत्यन्ताभावत्वात्घटत्वात्यन्ताभाववत्।अर्थः - यथा तेजोमात्रेऽवृत्तिर्योऽत्यन्ताभावस्तत्त्वात्। तथा चपूर्वोक्ततेजोऽन्यप्रमेयत्वात्यन्ताभावेन व्यभिचारः। कथम् ? यतस्तेजोऽन्यप्रमेयत्वात्यन्ताभावस्तु तेजोमात्रवृत्तिरेवेति न व्यभिचार: जलत्वात्यन्ताभावोऽपि तेजोमात्रवृत्त्यत्यन्ताभावो [न] भवत्येव वाय्वादावपि तस्य सत्त्वात् इत्यर्थः / किञ्चेति इति टीका / ननु मूलकारेण इतरे तावत् प्रसिद्धा एव इत्यनेन साध्यप्रसिद्धिरुक्ता, तथा च यत्राधिकरणे इतरभेदः प्रसिद्धः स एव सपक्षस्तत्र पृथिवीत्वरूपहेतुसत्त्वेऽन्वयित्वम्, ततो हेतुव्यावृत्तावसाधारण्यमित्यत आह - अत्रेति टीका / तथा च जलादिभेदः प्रसिद्धो वर्तते परं निरधिकरण: प्रसिद्धः, ततो यदि जलभेदस्य यद्यधिकरणे प्रसिद्धिः स्यात् तदा सपक्षः स्यात् निरधिकरणा यतः साध्यप्रसिद्धिः, अतो हि सपक्षाभावान्नान्वयित्वासाधारण्ये इत्यर्थः / ननु निरधिकरणसमुदितभेदप्रसिद्धया यदि समुदितभेदसाधनं तदा प्रत्येकभेदस्य जलादिभेदस्यापि निरधिकरणैव प्रसिद्धिरस्तु [104' B] जलभेदप्रतियोगि अत्यन्ताभावप्रतियोगित्वादित्येतावतैव जलभेदस्य निरधिकरणस्य प्रसिद्ध्या प्रत्येकव्याप्तिभिः यथा पृथिवी जलाद् भिद्यते पृथिवी तेजसो भिद्यते इत्यादि प्रत्येकव्याप्तिभिः प्रत्येकजलादिभेदाः साधयितुं शक्यन्त एव / कुतः समुदितभेदसाधनमित्यत आह - प्रत्येकेति। तथा च यदि निरधिकरणा जलभेदप्रतियोगीत्यादिरीत्या जलादिभेदाः प्रसिद्धाः तदा प्रत्येकव्याप्तिभिरपिप्रत्येकभेदाः साधयितुं शक्यन्त एवेतिइष्टापत्त्या परिहरति - नासाधारण्यमिति टीका / एकत्राधिकरणे साध्यप्रसिद्धेरभावात् निरधिकरणैव यतः साध्यप्रसिद्धिरिति ततो यदि अधिकरणे साध्यप्रसिद्धिस्ततो हेतुव्यावृत्त्याऽसाधारण्यं स्यात्, न च तथेति भावः /