________________ केवलव्यतिरेक्यनुमाननिरूपणम् 215 एतदेव व्यतिरेके(क) दृष्टान्तेन विवृणोति - एकत्रेति टीका / यथा एकत्र घटे घट इति प्रतीतिर्जायते तद्वत् एकत्र अभावे त्रयोदशाभावा इति प्रतीतिर्न जायते इत्यर्थः। जलादीनां विपक्षत्वं प्रमाणयति - अत एवेति टीका / यत एव जलादीनां विपक्षत्वम् अतएवजलेतेजसिवानत्रयोदशाभवाइति त्रयोदशत्वसङ्ख्यानियतापेक्षाबुद्धिविशेषविषयत्वेन रूपेण तावन्तोऽत्यन्ताभावा ये साध्यभूतास्ते जलादौ न सन्ति जले जलत्वाभावाभावात् अतो जलादीनां विपक्षत्वं युक्तमेवेत्यर्थः / उपसंहरति - तस्मादिति टीका / अकामेनापीति टीका / यद्यप्यभावेषु त्रयोदशत्वसङ्ख्या नास्ति तथापि त्रयोदशत्वसङ्ख्यासमनियतस्तथाविधापेक्षाबुद्धिविशेषविषयत्वरूपो धर्मोऽभ्युपेय एवेत्यर्थः / एतावता अपेक्षाबुद्धिविशेषविषयत्वेन रूपेण तावन्तोऽत्यन्ताभावा यदि व्यतिरेकिणा साध्यन्ते तदा निरधिकरणिका साध्यप्रसिद्धिः सम्भवति, जलादीनां विपक्षत्वं सिद्धम् / साध्यतेति टीका / तावच्छब्दार्थमाह - व्यासज्येति टीका। तथा च व्यासज्यवृत्तिधर्मापेक्षेत्यादिरुक्तस्तदवच्छिन्ना या साध्यता सा यावत्सु व्यासज्यवृत्तिधर्मः परिसमाप्तः तावत्स्वेव सा साध्यता परिसमाप्ता इत्यर्थः / उत्तरग्रन्थोपयोगार्थमाह - ऐकाधिकरण्येति टीका / अयमर्थः - भवतु ऐकाधिकरण्यावच्छिन्नजलत्वात्यन्ताभावादारभ्य समवायत्वात्यन्ताभावपर्यन्ते वनादिवत् एकदेशावच्छिन्ना अनेकवृक्षा एव मेलकः पदार्थः तथापि नाप्रसिद्धिरित्यर्थः / इतरेति टीका / यथाश्रुतो हेतुर्वक्ष्यमाणः व्यभिचारि(री)ति अन्यथा व्याचष्टे - इतरेति / इतरनिरूपणेनाधीनं निरूपणं यस्य एवं स इतरनिरूपणाधीननिरूपणक(कः),तेनाविशेषिता प्रतियोगिता यस्य एवंभूत इतरेत्यादिः, एवंभूतश्चासावत्यन्ताभावश्च तत्त्वादित्यर्थः / उदाहरणयोजना यथा - पक्षे जलत्वात्यन्ताभावेऽयं हेतुर्वर्तते यथा जलत्वम् इतरनिरूपणाधीननिरूपणकेन वस्तुना विशेषितं न भवति इति कृत्वा इतरनिरूपणाधीननिरूपणाविशेषितं प्रतियोगि जलत्वं भवति, तत् जलत्वं जलत्वात्यन्ताभावस्य प्रतियोगिभवत्येवेति / जलत्वात्यन्ताभावे पक्षेऽयं हेतुर्वर्तत एव / एतद्वयाख्यायां बीजमाह / [104' A'] - तेनेति टीका / अयमर्थः - यदि अत्यन्ताभावत्वात् इत्येव हेतुः क्रियते तदा यत्र यत्रात्यन्ताभावत्वं तत्र तत्र तेजस्त्वात्यन्ताभावाधिकरणवृत्तित्वमेव नास्ति, तेजोऽन्यप्रमेयत्वात्यन्ताभावस्तु तेजोमात्रवृत्तिः तस्य तेजस्त्वात्यन्ताभावाधिकरणवृत्तित्वं नास्ति तेजोभिन्नेपृथिव्यादौ तेजस्त्वात्यन्ताभावाधिकरणे तेजोऽन्यप्रमेयत्वात्यन्ताभावस्यावृत्तेरितिव्यभिचार(रः) * विवक्षितव्याख्याने चसन भवति। तथा तेजोऽन्यप्रमेयत्वात्यन्ताभावस्य प्रमेयत्वं प्रतियोगि, तत् इतरनिरूपणा धीननिरूपणं यत् तेजोऽन्यत्वं तेन विशेषितमेवेति कृत्वा इतरनिरूपणाधीननिरूपणकाविशेषितं प्रतियोगिकत्वं तेजोऽन्यप्रमेयत्वात्यन्ताभावे नास्तीति यथोक्तव्याख्याने न व्यभिचारः / अत्र व्यभिचारवारणे मतान्तराभिमतं व्याख्यानं दूषयति- यत्त्विति। तथाचतेजोऽन्यप्रमेयत्वात्यन्ताभावेऽभावाविशेषितप्रतियोगिकात्यन्ताभावत्वमेव 1. No. 104 is given to two folios.