________________ 214 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका वच्छिन्नतादृशापेक्षाबुद्धिविशेषविषयत्वविशिष्टाभावाः सिद्धाः। तथा चजलत्वात्यन्ताभावमारभ्य समवायात्यन्ताभावपर्यन्तं यावन्तोऽत्यन्ताभावास्तावन्त एकत्राधिकरणे न प्रसिद्धा ज(य)तो जलत्वे जलत्वात्यन्ताभावो नास्ति। एवं ते पृथिवीव्यतिरेकेणान्यत्रन प्रसिद्धाइति साध्याप्रसिद्धिर्दोषोभवति इतिदूषणमेतेन निरस्तमित्यन्वयः / कथमित्यत आह - व्यासज्येति / अव्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकाभावानां साध्यानां साध्यतावच्छेदकं तुव्यासज्यवृत्तिधर्मोऽपेक्षाबुद्धिविशेषविषयत्वमेव यथाऽयं पर्वतो घटत्वावच्छिन्नप्रतियोगिताकाभावघ(प)टत्वावच्छिन्नप्रतियोगिताकाभावोभयवान्।अयमभावो नव्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकः किन्तु व्यासज्यवृत्तिधर्मः उभयत्वरूपः साध्यतावच्छेदक एव, तथा च पटत्वाभाववत्यपि घटे पटत्वाभावसत्त्वेऽपि घटत्वाभाव-पटत्वाभावोभयं नास्तीतिप्रतीत्या घटत्वावच्छिन्नप्रतियोगिताकाभाव-पटत्वावच्छिन्नप्रतियोगिताकाभावोभयवान् इत्यनुमाने घटस्य यथा विपक्षत्वं तथा प्रकृतेऽपिप्रतियोगितायां व्यासज्यवृत्तिधर्मोऽनवच्छेदकः / तथा च जलादौ तेजस्त्वात्यन्ताभावसत्त्वेऽपि त्रयोदशत्वसङ्ख्यानियततादृशापेक्षाबुद्धिविषयत्वेन रूपेण तादृशास्तावन्तोऽभावा न सन्तीति पूवोक्तदृष्टान्तप्रतीत्या जलस्य विपक्षत्वमुपपद्यत एवेत्यर्थः / एतदेवाह - साध्यतावच्छेदकेति टीका / तथा च व्यासज्यवृत्तिधर्मः पूर्वोक्तोऽपेक्षाबुद्धिविशेषविषयि(य)त्वं तेन रूपेण तावदत्यन्ताभावानांसाध्यानांजलादिष्वसत्त्वेन जलादीनां विपक्षत्वमुपपद्यत एवेत्यर्थः। एतदेवाह - तदेकदेशेति टीका। जले एकस्य तेजस्त्वात्यन्ताभावसत्त्वेऽपि पूर्वोक्तेन रूपेण तेजस्त्वात्यन्ताभावो नास्तीति विपक्षत्वं तस्य युक्तमेवेत्यर्थः।अभावेषु व्यासज्यवृत्तिर्धर्मः साध्यतावच्छेदक एव नभवतीत्याशङ्कते -नचेति टीका।समाधत्तेअभावेति।यदि त्रयोदशत्वसङ्ख्याव्याप्यः कश्चिद्धर्मश्चेदभावे नास्तितदाऽभावेसङ्ख्या नास्तीति विशेषदर्शनवतो भावः / त्रयोदशेति तत्र सङ्ख्याभ्रमोऽपि न सम्भवति, अभावे सङ्ख्या नास्तीति विशेषदर्शनस्य प्रतिबन्धकस्य विद्यमानत्वात्। तथा चाभावास्त्रयोदशेतिनसम्भवति, प्रतीतिर्निर्विषयिणीस्यात्, इयं प्रतीर्तिस्तु सर्वानुभवसिद्धा। तथा चयद्यपिअभावेषु त्रयोदशत्वसङ्ख्या नास्तितथापि[104B] त्रयोदशत्वसङ्ख्यासमानशीलस्तादृशापेक्षाबुद्धिविशेषविषयत्वं प्रतीत्यालम्बनमवश्यं स्वीकार्यमेव।अत्राशङ्कते-नचेतिटीका। तथा चेयंप्रतीतिरव्यासज्यधर्मविषयिण्येवन त्व(तु) व्यासज्यवृत्तिधर्मविषयिणी यतोऽभावास्त्रयोदशइति बुद्धौअव्यासज्यवृत्तिः प्रमेयत्वादिः कश्चिद्धर्मो भासते न तु व्यासज्यवृत्तिस्त्रयोदशत्वादिरित्याशङ्कार्थः। समाधत्ते - अव्यासज्येति। यदि अभावास्त्रयोदश इतीयं प्रतीतिरव्यासज्यवृत्तिधर्ममात्रविषयिणी तदाऽव्याज्यवृत्तिधर्मस्य प्रमेयत्वादेः प्रत्येकाधिकरणे एकस्मिन्नप्यभावे सत्त्वेन तत्रापि त्रयोदशत्वव्यवहारो भवेत् तथा च यथा एकत्र घटे द्वाविति प्रतीतिर्न भवति तद्वत् एकस्मिन्नभावे त्रयोदशेति बुद्धिर्न भवत्येव, यतस्त्रयोदशत्वसङ्ख्या तत्र नास्ति / तथा च [आभावास्त्रयोदशेति प्रतीतेः किञ्चिदालम्बनमवश्यं वाच्यम्। तत्तु पूर्वोक्तापेक्षाबुद्धिविशेषविषयत्वं व्यासज्यवृत्तिधर्म एव स्वीकार्यः /