________________ केवलव्यतिरेक्यनुमाननिरूपणम् 213 किञ्चेति मूलम् / इतरे जलादयः प्रसिद्धा एव ते च किञ्चिदधिकरणनिष्ठभेदप्रतियोगिनः प्रमेयत्वात् अनेनानुमानेन सामान्यतः कुत्रापि अधिकरणे तावत्प्रतियोगिकभेदस्य सिद्धौ पृथिवीत्वेन रूपेण पृथिवीविशेष्यकेथ(त)रभेदसिद्धिरनुमितिरनेनानुमानेन भविष्यत्येवेति / अथ टीका। उत्तरग्रन्थयोजनार्थं मूले आभासं ददाति। न त्विति टीका / यदि जलत्वाद्यत्यन्ताभावः प्रत्येक साध्यते तथा च पृथिवी जलत्वात्यन्ताभाववती पृथिवीत्वात् इत्यादि तथा च जलत्वात्यन्ताभावस्तेजसि सिद्धोऽस्ति ततः पृथिवीत्वं हेतुावृत्तोऽस्ति इति कृत्वाऽसाधारण्यम्। साध्यता प्रत्येकपरिसमाप्ता। अनुमितिस्तु समूहालम्बनरूपा। यथा वह्नित्वेन रूपेण वह्नः साध्यता, आलोकत्वेनालोकस्य साध्यता, धूमत्वेन रूपेणधूमस्य साध्यता; तेन रूपेण च.व्याप्तिग्रहे वह्निधूमालोकवांश्चेति समूहालम्बनरूपाऽनुमितिर्जायते तथा प्रकृतेऽपि प्रत्येकाभावसाध्यता प्रत्येकाभावस्यैव परिसमाप्ता अनुमितिस्तु समूहालम्बनरूपा यथा पृथिवी जलत्वात्यन्ताभावेत्यारभ्य समवायत्वात्यन्ताभाववती इत्येवं समूहालम्बनरूपानुमितिसम्भवात्। तथा चप्रत्येकं चेत् साध्यता जलत्वात्यन्ताभावरूपा साध्यवतस्तेजसः सकाशात् पृथिवीत्वस्य हेतोः व्यावृत्त्याऽसाधारण्यं भवति / अथ मिलितत्रयोदशात्यन्ताभावकूटरूपं यद्येकत्र साध्यते तदा दूषणमाह - अप्रसिद्धिरिति टीका / एकत्राधिकरणे जलत्वादित्रयोदशात्यन्ताभावा न प्रसिद्धा जले जलत्वात्यन्ताभावाभावात् इत्यर्थः / अव्यासज्येति टीका। पूर्व व्यासज्यवृत्तिप्रतियोगिताकवा(काभा)ववादिमतमवलम्ब्यसाध्यप्रसिद्धिरुक्ताअधुना अव्यासज्यवृत्तिप्रतियोगिताकाभाववादिमतमवलम्ब्योच्यते इत्यर्थः / त्रयोदशत्वेति / अभावेषु जलत्वात्यन्ताभावपर्यन्तं तावत्सु अभावेषु त्रयोदशत्वसङ्ख्या नास्ति अभावे गुणानङ्गीकारात् इति कृत्वा व्याचष्टे - त्रयोदशत्वेति टीका। त्रयोदशत्वसङ्ख्यया समानशीलः त्रयोदशसङ्ख्यासमानशीलः।त्रयोदशत्वसङ्ख्ययासहनियतः अपेक्षाबुद्धिविषयत्वं धर्मस्तिष्ठत्येव / अयमेकोऽयमेक इत्यपेक्षाबुद्धिविषयत्वमभावेष्वपि वर्तते एवेति भावः / एतेनेति टीका। यतोऽव्यासज्यवृत्तिप्रतियोगिताकाभाववादिमतम्। पूर्वं त्रयोदशत्वरूपोव्यासज्यवृत्तिधर्मस्तदवच्छिन्नप्रतियोगिताकोऽभाव इत्युक्तम्, अत्र तु जलत्वात्यन्ताभावस्तु जलत्वावच्छिन्नप्रतियोगिताक एवमन्येष्वपि। अयं व्यासज्यवृत्तिः / [104 A] तथा चाव्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताक एवायमभावः परं तु साध्यतावच्छेदको योऽपेक्षाबुद्धिविशेषविषयि(य)त्वं तदवच्छिन्ना(नो) अव्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकाभाव एव साध्यते। अत्रानुपपत्तिं प्रकाशयन्ति केचन / अपेक्षाबुद्धिविशेषं विहाय विशिष्टास्ते तेऽत्यन्ताभावास्तेषु तेषु अधिकरणेषु प्रसिद्धास्तथा च तेषां जलादीनां विपक्षत्वंनस्यात्, सपक्षत्वं स्यात्। तथा चपृथिवी इतरेभ्यो भिद्यते पृथिवीत्वात् इत्यत्र जलादीनां विपक्षत्वं न स्यात्। ततो जलादीनां विपक्षत्वसिद्धये एतादृशंसाध्यं कर्तव्यं यथा ऐकाधिकरण्यावच्छिन्नतादृशापेक्षाबुद्धिविषयत्वविशिष्टाभावानां साध्यता वक्तव्या / तथा च न जलादिषु ऐकाधिकरण्या