________________ 212 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका भावसंसर्गधीः पृथिव्यामस्ति इति तत्फलम् / जलत्वाद्यत्यन्ताभावानां तेषु तेजोवाय्वा]द्यधिकरणेषु ज्ञातत्वेन सिद्धसाधनता स्यात् / तस्मात् तावदत्यन्ताभावा एव साध्याः / तावदत्यन्ताभावसंसर्गधीस्तु फलम् / अत्यन्ताभावत्वेन रूपेणात्यन्ताभावा जलत्वादीनां सिद्धा एव परं तेषां संसर्गधीः पृथिव्यां साध्यत इति न सिद्धसाधनमिति भावः / मिलितानामिति मूलम्। मिलितानां त्रयोदशसंख्येत्यादिकं टीकायां व्यक्तम्, तथा च न साध्याप्रसिद्धिः / एतदेवाह - किञ्चिदिति मूलम् / यथा वनं वृक्षमेलकः स च देशविशेषावच्छिन्ना यावन्तो वृक्षास्तावतां वनत्वम्, तद्वत् किञ्चिद्धर्मान्तरावच्छिन्नास्तावन्तोऽत्यन्ताभावा एवात्यन्ताभावमेलकः / यथा किञ्चिद्धर्मान्तरावच्छिन्नघटत्वपटत्वंजातय एव जातिमेलकः तद्वत् प्रकृतेऽपि तावदत्यन्ताभावा एव किञ्चिद्धमन्तिरावच्छिन्नास्तावन्तोऽत्यन्ताभावा एवात्यन्तभावमेलापकः / स च नाप्रसिद्ध इति मूलम् / कुतः ? भिन्नभिन्नाधिकरणस्थघटपटौ द्वौ इति बुद्धया द्वित्वावच्छिन्नघटपटवत् भिन्नाधिकरणस्थानामत्यन्ताभावानामपेक्षाबुद्धिविशेषविषयत्वावच्छिन्नत्वसम्भवेन न मिलितसाध्याप्रसिद्धिः / नचहेतोरसाधारण्यम्, तावदभावयोगी ह्यत्र सपक्षोभवति न तु तदेकदेशकतिपयाभाववान् साध्यतायास्तावत्यपर्याप्तेः / यद्वा जलत्वात्यन्ताभावस्तेजस्त्वात्यन्ताभावाधिकरणवृत्तिः अत्यन्ताभावत्वात् घटत्वात्यन्ताभाववत्, एवमत्यन्ताभावान्तरसामानाधिकरण्यमपि तत्र साध्यमिति क्वाप्रसिद्धिः / किञ्चेतरे तावत् प्रसिद्धा एव ते च भेदप्रतियोगिनो मेयत्वादितीतरभेदोऽपि सुग्रह एव। अत्राशङ्कते - न चेति मूलम् / निश्चितसाध्यवघ्यावृत्त्याऽसाधारण्यं स्यात् इत्यर्थः / समाधत्ते - तावदिति मूलम्।तदभावयोगी अत्रसपक्षः।न चतावदभावाः कस्मिंश्चिदप्यधिकरणे प्रसिद्धा येन ततः संपक्षात् पृथिवीत्वस्य हेतोर्व्यवृत्ता(त्या)ऽसाधारण्यं स्यात्। प्रसिद्धिस्तु भिन्नभिन्नाधिकरणस्थानामपि घटपटादीनामेते दशघटपटा इति यथा प्रसिद्धिः तद्वत् भिन्नभिन्नाधिकरणानामपि त्रयोदश एते अत्यन्ताभावा इति बुद्धिसम्भवात् साध्यप्रसिद्धिः। एतदेव विवृणोति - न त्विति मूलम् / तथा च [103 B] त्रयोदशत्वसङ्ख्यासमानशीलो यो धर्मस्तद्विशिष्टात्यन्ताभाववान् हि सपक्षो न तु कतिपयतदेकदेशाभाववान् सपक्षः / तथा च [अयामर्थः - मिलिततावदत्यन्ताभाववान् हि सपक्षो न तु किञ्चिदभाववान्, मिलितत्वरूपा या साध्यता तस्यास्तावत्सु अत्यन्ताभावेषु विश्रान्तिः / एतदेवाह - साध्यताया इति मूलम् / मिलितास्तावदत्यन्ताभावास्तत्सिद्धयर्थं प्रकारान्तरमाह - यद्वेति मूलम् / एवं हि जलत्वात्यन्ताभावतेजस्त्वात्यन्ताभावानामेकाधिकरणे वृत्तित्वं साधनीयम् / तथा चानेनानुमानेनएकाधिकरणेऽपि तावतामत्यन्ताभावानांप्रसिद्धिरागता, पुनरपि साध्यप्रसिद्धयर्थं प्रकारान्तरमाह