SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 211 केवलव्यंतिरेक्यनुमाननिरूपणम् सहाभेदः। द्वितीयपक्षेऽपि जलत्वत्वेन रूपेणात्यन्ताभावः, अत्रापि जलत्वत्वेन रूपेणात्यन्ताभावः इत्यभेदः / यदि किञ्च पृथिवीत्वभिन्नधर्मत्वावच्छिन्नात्यन्ताभावः साध्यः तदा पृथिव्यां पृथिवीत्वभिन्नधर्मत्वावच्छिन्नो गन्ध एव तिष्ठतीति बाधः, इति मूले यथाश्रुतमेवानुपपत्त्याऽन्यथा व्याचष्टे - पृथिवीत्वेति। तथा च पृथिवीत्वेन सहासमानाधिकरणो यो धर्मः तस्य भावः पृथिवीत्वासमानाधिकरणधर्मत्वम्, तेन रूपेण पृथिवीत्वासमानाधिकरणधर्मत्वेन रूपेण पृथिवीत्वासमानाधिकरणधर्मात्यन्ताभावः साध्यः, गन्धस्तु पृथिवीत्वसमानाधिकरण इति न बाध इत्यर्थः / द्वितीयपक्षयोजनार्थं प्रथमकल्पे आभासं ददाति / आकाशेति टीका / तथा च आकाशः आकाशत्वासमानाधिकरणधर्मत्वावच्छिन्नात्यन्ताभाववान् शब्दवत्त्वात् इत्यत्र आकाशत्वासमानाधिकरणधर्मत्वावच्छिन्नात्यन्ताभावस्य आकाशैकदेशाभावेनाप्रसिद्धया प्रथमकल्पो न घटते इत्यस्वरसः तत्तदिति। यदि योगो वा इति अस्मिन् साध्ये तृतीयं साध्यं भिन्नं क्रियते तदा तावद्वैशिष्टयम् इत्यनेन ग्रन्थेन सह विरोधः / तृतीये मूले उक्तं योगो वा साध्य इति प्रथमत उक्तं न हि तावत् इत्यनेन ग्रन्थेन वैशिष्ट्यं योगरूपं न साध्यत इति पूर्वापरविरोध इत्यत आह - पक्षतेति टीका / तथा च मूलकारस्यायमेवाशयः यथा पर्वतीयवह्नित्वेन न साध्यता किन्तु वह्नित्वेन पर्वतीयवह्रिसिद्धिस्तु फलम् तद्वत् प्रकृतेऽत्यन्ताभावयोगत्वेन न साध्यता किन्तु तत्तदत्यन्ताभावत्वेनैव सिद्धिस्तु पक्षधर्मताबलात् अत्यन्ताभावयोगस्यैवेति स्पष्टम् / मतान्तरमाह - अत्रेति टीका। जलत्वादिति टीका। तथा [103 A] च मध्यमे कल्पे जलत्वात्यन्ताभावा एव साध्याः / तृतीये तु यथा पृथिव्यांजलत्वात्यन्ताभावःसाध्यते तद्वत्जलत्वनियतोधर्मःस्नेहस्तदत्यन्ताभावोऽपिसाध्यतेइति द्वितीयकल्पाद् भेदः / न चाग्रिमग्रन्थविरोध इति वाच्यम् / योग इति टीका / तथा च कल्पे न हीत्यादिम(मे)लग्रन्थः / वैशिघ्यवीस्तु फलमिति ग्रन्थ(न्थे) वैशिष्ट्यं सम्बन्धरूपमुक्तम् / तथा च वैशिष्टयं भिन्नं सम्बन्धमात्रम् / योगशब्दार्थस्तु मेलकः / अयं निष्कर्षः - प्रथमपक्षे पृथिवीत्वासमानाधिकरणधर्मत्वेन रूपेण पूथिवीत्वासमानाधिकरणधर्मात्यन्ताभाव एवसाध्यः इत्येकः साध्यः, द्वितीये पक्षे जलत्वात्यन्ताभावस्तेजस्त्वात्यन्ताभाव एव साध्यइत्यादयो भिन्नाः साध्याः इतिद्वितीयः पक्षः, तृतीयेपक्षेजलत्वव्याप्यस्नेहादीनामपियेऽत्यन्ताभावास्तेषां योगो मेलकः पदार्थान्तरं तदेव साध्यमिति त्रयाणां पक्षाणां भेदः। द्वितीयपक्षाभिप्रायेण मूलकृतोच्यते तावदत्यन्ताभावानां वैशिष्टयधीस्तु फलमिति / यथा वह्नित्वेन रूपेण वह्नः साध्यता वह्निसंसर्गधीस्तु फलं तद्वत् अत्र पूर्व तावदत्यन्ताभावा एव साध्याः इति द्वितीयः, अत्यन्ताभावसंसर्गधीस्तु फलमित्यभिप्रायेण तावद्वैशिष्ट्यमिति मूलकारेणोक्तम्। अन्यथेतिमूलम्।यदि तावदत्यन्ताभावसंसर्गधीर्नफलमित्यन्यथाशब्दार्थः तदा सिद्धसाधनम्, यथावह्नित्वेन रूपेण वह्रिसिद्धिर्न फलंकिन्तुपर्वतवह्निसंसर्गधीः फलम्।वह्निमात्रज्ञानं यदिफलं तदा वह्निमात्रस्य महानसे सिद्धत्वेन सिद्धसाधनं स्यात्, तद्वत् प्रकृते जलत्वादीनामत्यन्ताभावज्ञानं न फलं किन्तु अत्यन्ता
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy