________________ 210 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका वन्तोऽत्यन्ताभावा वा तत्तदसाधारणतत्तद्धर्मात्यन्ताभावयोगो वा एते चाभावा जलत्वं न घटादौ घटादिजलात्यन्ताभाववदिति प्रत्यक्षादेः क्वचित् तत्तद्वैधादेव प्रसिद्धा इति नाप्रसिद्धिः / तावतामभावानां वैशिष्टयं न प्रसिद्धमिति चेत्, किमेतावता, न हि तावद्वैशिष्टयमत्रसाध्यते, किन्तु जलत्वादीनां यावन्तोऽभावा इह साध्यास्ते चतत्रतत्र प्रसिद्धा एव तावद्वैशिष्टयधीस्तु फलम् अन्यथा सिद्धसाधनात्, मिलितानामपि साध्यत्वे नाप्रसिद्धिः किञ्चिदेकधर्मावच्छेदो हि बलादिवन्मेलकार्थः, स च नासिद्धः / मतान्तरमाह - अन्ये त्विति मूलं संलग्नम् / तथा चैतन्मते इतरभेदो न साध्यः किन्तु पृथिव्यां पृथिवीत्वभिन्नधर्मात्यन्ताभाव एव साध्यः।अयमेकः पक्षः। पक्षान्तरमाह - जलत्वादीति।प्रथमे पक्षे पृथिवीत्वभिन्नधर्मात्यन्ताभावः एवैकंसाध्यम्, अत्र जलत्वादयो ये येनानाधर्मास्तदत्यन्ताभावाः साध्यास्तथा चजलत्वादिचतुर्दशधर्मात्यन्ताभावानां योगो ह्येक एव साध्य इति तृतीयः पक्षः / साध्यप्रसिद्धिमाह - एते चेति। पृथिवी पृथिवीत्वभिन्नधर्मात्यन्ताभाववती पृथिवीत्वात् इत्यत्र पृथिवीत्वभिन्नधर्मात्यन्ताभावप्रसिद्धिः घटादौ पृथिव्येकदेशे वर्तते यतो हि पृथिवीत्वभिन्ना धर्मा जलत्वादयस्तदत्यन्ताभावो घटे वर्तते / इति तत्र साध्यप्रसिद्धिरस्ति / एतदेव विवृणोति - जलत्वमिति मूलम्। जलत्वं न घटादौ घटादिकंवा[102B] जलत्वात्यन्ताभाववत् इतिप्रतीति:लक्षण्यात्। पृथिवीत्वभिन्नधर्मात्यन्ताभावोघटएवप्रसिद्ध इति साध्यप्रसिद्धिरित्यर्थः / इतिप्रथमसाध्यप्रसिद्धिरुक्ता। द्वितीयसाध्याभिप्रायेण साध्यप्रसिद्धिमाह - क्वचिदिति मूलम् / तत्तद्वैधादिति / जलत्वाद्यत्यन्ताभावो जलवैधादेव तेजसि प्रसिद्धः, एवं तेजस्त्वात्यन्ताभावोऽपि तेजोवैधात् जले प्रसिद्धः, इत्येवं त्रयोदशानामपि जलत्वादीनां धर्माणामत्यन्ताभावास्तेषु तेषु प्रसिद्धाः इति द्वितीयसाध्यप्रसिद्धिः। द्वितीयसाध्याभिप्रायेण मूले शङ्कते - तावतामिति मूलम् / तथा च तावतामभावानां वैशिष्ट्यं यद्यपि तत्र तत्र प्रसिद्धं तथाप्येकं [तात्र न सिद्धं यतो जलत्वात्यन्ताभाववैशिष्ट्यं तेजसि विद्यते तेजस्त्वात्यन्ताभाववैशिष्ट्यं तेजसि नास्तीत्यादि बोध्यम् / तथा च समुदितात्यन्ताभाववैशिष्ट्यमप्रसिद्धमित्याशङ्का / समाधत्ते - किमिति मूलम् / नहि तावदत्यन्ताभावानां वैशिष्ट्यमत्र साध्यते सम्बन्धस्तावतामत्र न साध्यते किन्तु यावन्तोऽत्यन्ताभावाः साध्याः तावन्तोऽत्यन्ताभावाः अप्रसिद्धा एव यतो जले तेजोऽत्यन्ताभाव एवमन्यत्रापि / परमेकत्र सर्वे न साध्यन्ते, ते तु तत्र तत्र प्रसिद्धा एवेति भावः। अथ टीका / पृथिवीत्वासमानाधिकरणेति टीका / पृथिवी पृथिवीत्वभिन्नधर्मात्यन्ताभाववती इत्यत्र पृथिवीत्वभिन्ना धर्मा जलत्वादयः तेषां यदि जलत्वत्वेन रूपेणात्यन्ताभावः साध्यते तदा प्रथमपक्षस्य द्वितीयेन