________________ केवलव्यतिरेक्यनुमाननिरूपणम् 209 यदि च तथाप्रतीतिस्तदा स्वरूपमेव तत् नाभाव इति भावः / यद्यपीति टीका / पृथिवी अभावाद् भिद्यते पृथिवीत्वात् इत्यत्राभावभेदेऽनुगतं साध्यतावच्छेदकं नास्ति, अभावभेदस्तु पृथिव्यादिस्वरूपमेव / तथा चाननुगमः। पृथिवीत्वजलत्वादिकंसाध्यतावच्छेदकं तदाऽभावभेदतावच्छेदकम्, तच्चाननुगतमेव, अभावभेदो हि साध्यम्, तच्च पृथिवीजलादिस्वरूपमेव / तथा च पृथिवीत्वं यदि साध्यतावच्छेदकं तदाऽभावभेदरूपे जले साध्ये तन्नास्तीति, यदि च जलत्वं तदाऽभावभेदलक्षणपृथिवीस्वरूपे साध्ये जलत्वं नास्ति। तथा च साध्यतावच्छेदकानामननुगतत्वात् साध्याननुगमः / अननुगम इत्युपलक्षणम्।अभावभेदो हिपृथिवीजलादिस्वरूपमेव / यदि च पृथिवीस्वरूपं साध्यते तदा तस्य सिद्धत्वात् सिद्धसाधनम् / यदि च जलस्वरूपं साध्यते तदा तस्य बाधितत्वात् तत्साधनं न सम्भवति इति बोध्यम् / समाधत्ते - तथापीति / अभावभिन्नत्वबुद्धिजननयोग्यत्वं पृथिवीजलादिसाधारणमनुगतं साध्यतावच्छेदकमस्ति इत्यभावभेदस्य (102 A) पृथिवीजलादिस्वरूपकृतं स्वरूपमेवाभावभेदः पृथिव्यां साध्यते इत्यर्थः / अत्राभावभिन्नत्वबुद्धिजननयोग्यत्वलक्षणेन साध्यतावच्छेदकस्याननुगतत्वेऽपि अभावभिन्नबुद्धिजननयोग्यत्वमनुगतमस्तीति नोक्तदोषः, तथा चाभावभिन्नबुद्धिजननयोग्यत्वलक्षणेन साध्यतावच्छेदकेनानुगतीकृतं पृथिव्यादिस्वरूपमभावभेदः पृथिव्यांसाध्यते इत्यर्थः / अत्राभावभिन्नत्वबुद्धिजननयोग्यत्वलक्षणेन साध्यतावच्छेदकेन यदि पृथिव्यां पृथिवीस्वरूपं साध्यते तदा इदं . साध्यम् अन्त्यावयविघटादिभिन्नं यत् परमाण्वाद्याकपालपर्यन्तं तत्र घटते, अन्त्यावयविनि घटादौ न घटते / कथम् ? यथा वह्नित्वेन रूपेण साध्यतावच्छेदकेन पर्वते यथा वह्निः साध्यते तथात्रापि अभावभिन्नबुद्धिजननयोग्यत्वलक्षणेन साध्यतावच्छेदकेन पृथिव्यामेवाभावभेदः साध्यते, तदाऽभावभेदो हिपृथिवीस्वरूपमेव / तथा च पृथिव्यां पृथिवीस्वरूपं पृथिव्यन्तरमन्यदस्तीति साध्यते इति पर्यवसन्नम् / तथा च यदि पृथिव्यामधिकरणे पृथिवीस्वरूपं चेत् साध्यते तदा परमाण्वारभ्य कपालपर्यन्तं घटते तत्र पृथिवीस्वरूपसत्त्वावयवः, परमाणुरूपपृथिव्या द्वयणुकरूपम् एवमग्रे कपालपर्यन्तं तिष्ठतीति / तत्र पृथिवीस्वरूपं साधयितुं शक्यते, घटे तु अन्त्यावयविनि तत् साधयितुं न शक्यते घटे पृथिव्या(व्य)न्तरस्वरूपात् इत्याशङ्कार्थः / समाधत्ते - घटादीति / घटोऽभावभिन्न इत्यबाधिता प्रतीतिस्तिष्ठति तत्र घटेऽभावभेदः / पृथिवीत्वमतिरिक्तं यद्यपि नास्ति तथापि घटस्वरूपमेव घटे वर्तते, न चैवमात्माश्रय इति वाच्यम् / घटत्वेन रूपेण घटे घटस्य वृत्तौ आधारतावच्छेदकाऽऽधेयतावच्छेदकयोर्भेदाभावेनात्माश्रयदोषः तथा च यदि घटे घटत्वेन रूपेण वर्तते तदा आत्माश्रयदोषप्रसङ्गः / घटत्वेन रूपेण घटेऽभावभेदत्वेन रूपेण घटे घटवृत्तौ नात्माश्रय इत्यर्थः / विपक्षे बाधकमाह - प्रतीतीति / यदि घटेऽभावभेदो न स्यात् तदा घटोऽभावभिन्न इति प्रतीतिर्न स्यात् इत्यर्थः। अन्ये तु पृथिवीत्वभिन्नधर्मात्यन्ताभाव एव साध्य: जलत्वादिप्रतियोगिकास्ता