________________ 208 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका प्रमेयत्वसमानाधिकरणस्त्वत्यन्ताभावः कार्यत्वावच्छिन्नस्य तु नास्त्येव किन्तु घटपटात्यन्ताभावएव तस्य प्रतियोगितानवच्छेदकत्वं कार्यत्वं भवत्येवेति कृत्वा तत्र व्याप्तिः स्यादेव। एतदेवाह - कार्यत्वस्येति। उपसंहरतितस्मादिति।आ(अ)कामेनापीति। यद्यपिअभावमात्रवृत्तिधर्मावच्छिन्नप्रतियोगिकोऽभावो नास्तीत्यकामनार्थः / भावाभावसाधारणो धर्मः कार्यत्वम्, तच्च प्रागभावप्रतियोगित्वम्, तच्च घटध्वंसादिसाधारणम्, तदवच्छिन्नप्रतियोगिताकोऽप्यतिरिक्तोऽभावोऽङ्गीकर्तव्य एव / अन्यथा कार्यत्वसाध्यकव्यभिचारिहेतोः प्रमेयत्वस्यापि कार्यत्वेव्याप्यत्वापत्तिः। यदि च कार्यत्वावच्छिन्नप्रतियोगिताकोऽतिरिक्तोऽभावोऽङ्गीक्रियते तदा प्रमेयत्वसमानाधिकरणोऽत्यन्ताभावः कार्यत्वावच्छिन्नात्यन्ताभाव एव। तत्प्रतियोगितावच्छेदकमेव कार्यत्वं जातमिति तस्य व्यभिचारित्वम् / इदमेव प्रकृते योजयति - तथेहापीति / इह पृथिवी इतरान्योन्याभाववती पृथिवीत्वात् इत्यत्र पृथिवीतरत्वं भावाभावसाधारणो धर्मः यतो हि पृथिवीतरत्वं भावेऽप्यभावेऽप्यस्तीति / तदवच्छिन्नान्योन्याभावस्त्वतिरिक्तो भवत्येवेत्यर्थः। तथा च भावाभावप्रतियोगिताकोऽतिरिक्तोऽभावोऽङ्गीक्रियते एव। तेनैकेनानुमानेनैव इतरभेदः साधयितुं शक्यते एवेति। अनुमानं व्यर्थम्, पृथिवीतरत्वमेव भावाभावसाधारणो धर्मो न भवतीत्याशङ्कते - नन्विति टीका। पृथिवीतरत्वं [101 B] पृथिवीत्वावच्छिन्नप्रतियोगिताकोऽन्योन्याभाव एव, सच जलादावधिकरणेऽतिरिक्तो वर्तते।अभावे पृथिव्यन्योन्याभावोऽतिरिक्तो नास्ति किन्तु अभावस्वरूपात्मक एव, तथा च कथं पृथिवीतरत्वं पृथिव्यन्योन्याभावरूपंभावाभावसाधारणोधर्म इत्याशङ्कार्थः। तथा च पृथिवीतरत्वं न भावाभावसाधारणो धर्मः / समाधत्ते - जलादीति टीका / यद्यपि पृथिवीतरत्वं भावाभावसाधारणो धर्मो मास्तु तथापिजलतेजोवाय्वाकाशकालदिगात्ममनोगुणकर्मसामान्यविशेषसमवायाभावा एतादृशसमूहालम्बनप्रतीतिविशेष्यत्वस्य भावाभावसाधारणधर्मावच्छिन्नप्रतियोगिताकस्यातिरिक्तस्यान्योन्याभावस्य सम्भवात् इत्यर्थः / तथा चतादृशसमूहालम्बनरूपप्रतीतिविशेष्यकत्वावच्छिन्नजलादित्रयोदशभेदाः पृथिव्यनुमानेनसाधयितुं शक्यन्त एवेति भावः / पूर्वं जलादित्रयोदशान्योन्याभाव एव साध्यते, पश्चादभावेन सह स्वरूपभेदः साध्यते / एतस्मिन् पक्षे शङ्कते - न चेति / अभावबहिर्भावपक्ष इति टीका / यदि प्रथमं त्रयोदशान्योन्याभाव एव साध्यते पक्षे इत्यर्थः। पृथिवी जलादित्रयोदशान्योन्याभाववती पृथिवीत्वात् इत्यत्र जलादित्रयोदशान्योन्याभावोऽभावेऽपि वर्तते / ततो हेतोः पृथिवीत्वरूपस्य व्यावर्तनादसाधारण्यम् / हेतुारान्यत्र वर्तते तदान्वयित्वमेव स्यादित्याशङ्कार्थः ।समाधत्ते - तस्येति।अभावस्य[स]पक्षत्वाप्रतिसन्धानदशायांव्यतिरेकित्वसम्भवात्। यथापूर्वघटे इतरभेदस्य प्रसिद्धौ सत्यां घटे पृथिवीत्वस्य हेतोर्ज्ञानेऽन्वयित्वमेवेत्याशङ्कय सपक्षत्वाप्रतिसन्धानदशायामेव व्यतिरेकित्वमुक्तम्। तथाभावे जलादित्रयोदशान्योन्याभावस्य निश्चयोन जातः तद्दशायां व्यतिरेकित्वसम्भवात् / पक्षान्तरमाह - अभावस्येति टीका / अभावाधिकरणकोऽतिरिक्तोऽभावो नास्ति कथं तस्य सपक्षत्वमित्यर्थः /