________________ केवलव्यतिरेक्यनुमाननिरूपणम् 207 तद्वत् प्रकृतेऽपि पृथिवी अभावप्रतियोगिकस्वरूपभेदो जलाद्यन्योन्याभावश्चेति उभयवतीत्येकदैव उभयभेदयोः समूहालम्बनरूपाएकैवानुमितिर्भविष्यति, किमर्थं मूलकारेणानुमानद्वयम् [उक्तमित्यनुपपत्तिः। एतत्समाधानं तु वक्ष्यमाणानुपपत्तीत्यादिनोक्तमेव / एतदेव टीकाकारः शङ्कोत्तराभ्यां विवृणोति - नन्विति। द्वितीये पक्षे पृथिवी इतरेभ्य इत्यत्र पृथिवीतरभेदत्वमनुगतम् अन्योन्याभावेजलान्योन्यभावेऽथवाऽभावेन सहस्वरूपभेदे एकमनुगतं नास्ति। तथा चाभावेन सहस्वरूपभेदो जलाद्यन्योन्याभावश्चेत्येतत्साधारणानुगतधर्माभावात् कथमभावभेदस्य जलादिभेदस्य चैकेनानुमानेनानुमितिः ? यथाऽयं तमोवान् प्रदेशविशेषवत्त्वात् इत्यत्रान्धकारपुरुषयोस्तमस्त्वेन रूपेणानु(ण नानु)मितिरुभयसाधारण्य(ण)तमस्त्वस्यानुगतस्याभावात् तद्वत् प्रकृतेऽपि पृथिवीतरभेदत्वं जलान्योन्याभावेऽथवाऽभावेन सह स्वरूपभेदेऽनुगतमेकं नास्ति अतः कथमेकानुमितिः ? तस्मात् सुलूक्तम् एकानुमानं मूले तथा चानुपपत्तिः मूले नास्त्येव इति / नन्वित्यारभ्य चेत्पर्यन्तं शङ्कार्थः / समाधत्ते - भावाभावेति / यथा नीलघटपीतघटादिषु घटत्वमेकोऽनुगतो धर्मोऽस्ति इति कृत्वा नीलपीतनानाघटप्रतियोगिकघटत्वावच्छिन्नप्रतियोगितावच्छेदकमेक एवाभावः तद्वत् पृथिवीतरत्वं यो धर्मोऽस्ति स जलादिषु त्रयोदशसु भावेष्वपि वर्ततेऽथवाऽभावेष्वपि वर्तते, तथा च भावाभावसाधारणो धर्मः पृथिवीतरत्वं तदवच्छिन्नप्रतियोगिताकोऽप्येक एवाभावोऽतिरिक्तः साध्यते, तथा च भेदो भिन्नो जलादिभेदो भिन्न इत्येवं न * साध्यते किन्तु उभयप्रतियोगिक एक एव भेदः, एकमेव चानुमानमिति नानुमानद्वयापेक्षा इत्युक्ता [101 A] अनुपपत्तिः समीचीनैवेति। एतदेवाह - अतिरिक्तेति। तथा च प्रतियोगितावच्छेदकभेदेनाभावभेदस्वीकारात्। यथा घटत्वावच्छिन्नप्रतियोगिताकोऽभाव एक एव तद्वत् भावाभाववतीपृथिवीतरत्वं यो धर्मस्तदवच्छिन्नप्रतियोगिताकोऽप्येक एवेति संक्षेपः / अन्यथेति टीका / यदि भावाभावसाधारणधर्मावच्छिन्नप्रतियोगिताकोऽतिरिक्तोऽ]भावो धर्मो यदि नाङ्गीक्रियते तदेत्यर्थः / इदं कार्यं प्रमेयत्वात् इत्यत्र कार्यं घटादिकमपि भवति ध्वंसोऽपि भवति, तथा चकार्यत्वं भावाभावसाधारणो धर्मः, यदिभावाभावसाधारणधर्मावच्छिन्नप्रतियोगिताकोऽभावोऽतिरिक्तश्चेन्न स्वीक्रियते तदा इदं कार्यं प्रमेयत्वात् इत्यनुमानं व्यभिचारि न स्यात् / कुंतः ? यतो हि हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकत्वं हि व्याप्तिर्यथा धूमसमानाधिकरणोऽत्यन्ताभावो घटात्यन्ताभावः, तस्य प्रतियोगितावच्छेदकं घटत्वमेव न तु वह्नित्वम्, पर्वतो धूमवान् वह्नः इत्यत्र तु तन्नास्ति, वहिसमानाधिकरणोऽत्यन्ताभावो धूमस्य, तत्प्रतियोगितावच्छेदकमेव धूमत्वम्, अतो न वह्नः धूमव्याप्तिः घटते / प्रमेयत्वसमानाधिकरणो योऽत्यन्ताभावो घटादीनामेव / ननु कार्यत्वावच्छिन्नस्य कार्यत्वं हि भावाभावसाधारणो धर्मः, भावाभावसाधारणधर्मावच्छिन्नप्रतियोगिताकस्तु अतिरिक्तोऽभावो नस्वीक्रियते, कार्यत्वं तु भावाभावसाधारणो धर्म इति कृत्वा कार्यत्वावच्छिन्नप्रतियोगिताकोऽप्यतिरिक्तोऽभावो नास्ति, तथा च