________________ 206 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका जलान्योन्याभाववती, पश्चादभावाभिद्यते पृथिवी इत्यभावेन सह रूपभेदः साधनीयः, ततः प्रथमतो जलादीनां त्रयोदशानामन्योन्याभावसाधनम् पश्चादनुमानानन्तरंपृथिवी अभावाद्भिद्यते इत्यभावेन सह स्वरूपभेदानुमानम्, तथा चाभावस्यातिरिक्तान्योन्याभावः इति / पृथिवी अभावाद् भिद्यते इति पाश्चात्यमभावभेदानुमानं भवत्येव। तथा चानुमानद्वयम्। पृथिवी जलादिभिन्ना इत्यनुमाने जलादिभेदः जलाद्यन्योन्याभावः साध्यः, पृथिवी अभावाद् . भिद्यते इत्यत्राभावेन सह पृथिव्यां स्वरूपभेदः साध्यः / कोऽर्थः ? अभावस्वरूपमिति / स्वरूपद्वयमेवाभासते इत्यर्थः / एतदेव शङ्कोत्तराभ्यां विवृणोति। न चैवमिति मूलम् / एवमिति मूलम् / एवं शब्दार्थस्तु इतरभावो जलादिकम्, तथा जलादीनामन्योन्याभाव एव चेत् त्वया साध्यते इत्यर्थः / अभावादिति मूलम् / अभावप्रतियोगिकस्यातिरिक्तस्यान्योन्याभावस्याभावात्अभावादविवेको भेदज्ञानं तदवस्थमेव व्यतिरेक्यनुमानात् . प्रागवस्थावदेवेत्याशङ्कार्थः / उत्तरयति - तेनेति मूलम् / न केवलं पृथिवी जलादित्रयोदशान्योन्याभाववती पृथिवीत्वात् इत्यनुमानमात्रेणैव सर्वेतरभेदसाधनं किन्तु भावानामयमितरभेदसाधनप्रकारः / स्वरूपभेदस्येति मूलम्।अभावेन सहेत्यर्थः। पृथिवीअभावाद् भिद्यते भावत्वात् जलवत् इतिअन्वयिनाअथवा पृथिवी अभावाद् भिद्यते पृथिवीत्वात् यत्र यत्र अभावभेदाभावस्तत्र पृथिवीत्वाभावो यथा अभावे इति व्यतिरेक्यनुमानान्तरात] अभावेन सह पृथिव्यां स्वरूपभेदसाधनं सिद्धमिति मूलार्थः / इतरभावेति टीका। वक्ष्यमाणोपपत्त्या व्याचष्टे - इतरेति।इतरभावप्रतियोगिकतावदन्योन्याभावत्वेन जलादित्रयोदशान्योन्याभावत्वेनेत्यर्थः / तथा च पृथिवीत्वात् इत्यत्र जलादित्रयोदशान्योन्याभाववतीपृथिवीत्वेन साध्यतायांत्रयोदशान्योन्याभावत्वावच्छिन्न इतरभेदः अभावेन सह स्वरूपभेदो न भवति। कुतः ? तस्याभावस्वरूपपृथिवीस्वरूपात्मकत्वात् / [100 B] तथा चानेनाभावाद् भेदः पृथिव्यां साधयितुं न शक्यते इति कृत्वा पुनरनुमानान्तरापेक्षा नास्तीत्यर्थः / पूर्वोक्तां यथाश्रुतेऽनुपपत्तिं प्रकाशयन्ति - यदि चेत / मूलकारेण यदुक्तं प्रथमतोऽतिरिक्ताभावान्योन्याभावसाधनं पश्चादभावेन सहोक्तप्रकारेणानुमानान्तरेणभेदः साध्यतेइति। यदिचेतिमूलकारेण यदुक्तंप्रथमतोऽतिरिक्ताभावान्योन्याभावसाधनमिति तत्राप्यनुपपत्तिर्यथा एकेनाप्यनुमानेनोभयभेदः साधयितुं न शक्यते एव / तथाहि - पृथिवी पृथिवीतरभेदवती पृथिवीत्वात् इत्यत्र पृथिवी[तरात्वरूपो यो धर्मः सजलादिषु वर्तते सोऽभावेऽपि वर्तते पृथिवीतरत्वात् तस्यापि / अतः पृथिवीतरत्वं भावाभावसाधारणो धर्मः / तथा च भावाभावसाधारणधर्मावच्छिन्नप्रतियोगिताकयोः] अभावयोः भेदः / प्रतियोगि तु जलादिकम् अभावश्च / अधिकरणं पृथिवी / तथा च पृथिव्यां वर्तमानो यो जलादिकम् अभावश्च तदुभयप्रतियोगिकातिरिक्तोऽधिकरणप्रतियोगिस्वरूपातिरिक्तोऽस्त्येकेनाप्यनुमानेन सिद्धयति। अथवा पृथिवी जलाद्यन्योन्याभावोऽभावभेदश्चेत्येतदुभयवती। यथा पर्वतो वह्निधूमोभयवान् धूमव्याप्यत्वात् / धूमव्याप्यस्य धूमसंयोगो महानसात् इत्यत्र यथा एकदैव समूहालम्बनरूपा वहिधूमोभयानुमितिः