________________ केवलव्यतिरेक्यनुमाननिरूपणम् 205 जलान्योन्याभावोऽतिरिक्तोऽस्ति, एवं पृथिवी तेजोभिन्ना इत्यत्र तेजोऽन्योन्याभावो यथा पृथिव्यामतिरिक्तोऽस्ति एवं पृथिवी आकाशाद् भिद्यते इत्यत्राकाशान्योन्याभावोऽप्यतिरिक्तः पृथिव्यामस्ति, तद्वत् पृथिवी अभावभिन्ना इत्यत्र पृथिव्यामभावभेदोऽन्योन्याभावरूपोऽतिरिक्तः पृथिवीस्वरूपाद् भिन्नो नास्ति। कुतः ? अभावप्रतियोगिकातिरिक्ताभावानभ्युपगमात् / यथा घटात्यन्ताभावस्यात्यन्ताभावो घटस्वरूपातिरिक्तो नास्ति तद्वत् अभावस्यापि अतिरिक्तोऽत्यन्ताभावो नास्ति, तद्वत् अभावमात्रस्यान्योन्याभावात् / मध्ये शङ्कते - यदि चेति मूलम् / तथाभावादतिरिक्तोऽन्योन्याभावरूपो भेदः पृथिव्यां मास्तु परं स्वरूपभेदो भविष्यति। यथा घटात्यन्ताभावे पटात्यन्ताभावभेदस्तिष्ठिति, स यथाऽतिरिक्तान्योन्याभावरूपो न भवति किन्तु घटात्यन्ताभावस्वरूपं पटात्यन्ताभावस्वरूपमिति स्वरूपात्मक एव भेदस्तद्वत् अभावादपि यो भेदः सोऽपि अभावस्वरूपं पृथिवीस्वरूपमेवाभावभेदो भविष्यतीति / अभावभेदः न शक्यानुमितिः / पाण्डुस्वरूपात्मक एव साध्यमित्याशङ्कामध्ये क्षुद्रा शङ्का / तत्र वादी दूषयति - तदेति मूलम् / अननुगमादिति मूलम् / वस्तुभेदे प्रवृत्तेऽपि शब्दसामान्यभेदतः न शक्यानुमितिः / पाण्डुद्रव्यादि बहु भासते / यथा शब्दसाम्यमात्रेणानुमानं न प्रवर्तते / अनुमानं यथा अयं पुरुषः आलोकाभावः आलोकविरोधी वा तमस्त्वात् / तमःशब्दार्थो यथान्धकारोऽपि तमस्तद्वत् / अत्र यथा तमःशब्दसाम्येऽपि तमस्त्वेन हेतुना आलोकविरोधित्वमनुमानं(तुं) न शक्यते / कुतः ? पुरुषान्धकारोभयनिष्ठस्य तमस्त्वस्यैकस्य वस्तुनोऽभावात् / अथ समुद्रो वह्निमान् पाण्डुद्रव्यात् इत्यत्र पाण्डुद्रव्यशब्दार्थः शङ्खोऽपि भवति धूमोऽपि भवति / तत्रोभयत्र शब्दसाम्येऽपि शङ्खधूमोभयनिष्ठस्य पाण्डुद्रव्यत्वस्य वस्तुनोऽप्येकस्याभावात् यथानुमितिर्न भवति तद्वत् पृथिवी इतरान्योन्याभाववतीत्यत्रापि / इतारामध्ये पृ(प्र)विष्टं जलादिकम् / अभावोऽपि चेतरभेदशब्देन जलाद्यन्योन्याभावोऽप्युच्यते अभावेन सह स्वरूपभेदोऽप्युच्यते / तथाप्यतिरिक्तजलाद्यन्योन्याभावपृथिवीस्वरूपात्मकाभावभेदोभयनिष्ठस्य [100 A] पाण्डुद्रव्यत्वस्यानुगतस्यैकस्याभावात् यथान्धकारतमःसंज्ञकपुरुषोभयनिष्ठस्यानुगतस्य तमस्त्वस्याभावात् तद्वत् इतरभिन्नत्वस्यानुगतस्याभावादनुमितिर्न स्यात्। तत्र तमस्त्वत्वं हेतुतावच्छेदकमनुगतं नास्ति अत्र तु साध्यतावच्छेदकमितरभेदत्वावच्छेदकमनुगतं नास्ति [इत्येतावान् परं विशेषः / शङ्कामध्ये कस्यचित् समाधानान्तरं दूषयति - भाव इति / यथा घटः पटो न भवति इत्यत्र घटान्योन्याभावो यथा घटेऽतिरिक्तस्तद्वदभावोऽभावो न भवतीति अबाधितप्रतीतिबलादभावोऽन्योन्याभावोऽप्यतिरिक्त एव / अभावस्याप्यभाव इति केचित्, तेषां मतं दूषयति - अप्रसिद्धान्तादिति मूलम् / न केवलमपसिद्धान्तमात्रं युक्तिमप्याह - अनतिप्रसक्तेति। यथा घटवति घटात्यन्ताभावो नास्तीति प्रतीत्युपपत्तौ अभावस्यातिरिक्तान्योन्याभावकल्पने प्रमाणाभाव इति मूलार्थः / न चेत्यारभ्य पूर्वपक्षः। समाधत्ते - इतरेति मूलम् / तथा चपृथिव्यामतिरिक्तस्य जलान्योन्याभावस्य साधने पृथिवी