________________ 204 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका यद्यन्योन्याभावस्तदाभावाद्भेदोन सिद्धयेत अभावस्याभावान्तराभावात्, यदिचतेन समं स्वरूपभेद एव साध्यः तदाननुगमादनुमानाप्रवृत्तिः, भावोऽभावो न भवतीत्यबाधितप्रतीतिबलादभावस्यापिअन्योन्याभावोऽस्तीति केचित्, तन्न, अपसिद्धान्तात्। अनतिप्रसक्ताधिकरणस्वरूपमात्रेणैवाभावप्रतीत्युपपत्तौ चाधिकाभावे मानाभावाच्च इति चेत्।न।इतरभावान्योन्याभावस्य साध्यत्वात्।नचैवमभावादविवेकतादवस्थ्यम्, तेन समं स्वरूपभेदस्यान्वयिना व्यतिरेकिणा वा साध्यत्वात् / नन्विति मूलम् / पृथिवी जलादित्रयोदशभिन्नं यद् वस्तु अर्थात् पृथिव्येव तत्प्रतियोगिकान्योन्याभाववती द्रव्यत्वादिति) हेतुः / यत्र यत्र जलादित्रयोदशभिन्नप्रतियोगिकान्योन्याभावस्तत्र तत्र द्रव्यत्वाभावो यथा जले इति' व्यतिरेकिणा जलादित्रयोदशभिन्नं यद् वस्तु पृथिवी तद्भेदोऽपि व्यतिरेकिणा पृथिव्यां सिद्धयेत व्यतिरेकव्याप्तेस्तुल्यत्वात् / एवं च यदि पृथिवीभेदोऽपि जलादित्रयोदशभिन्ना या पृथिवी तद्भोऽपि सिद्धस्तदा पृथिवीभिन्नवस्तुभदोऽपिव्यतिरेक्यनुमानपरम्परया कुतो न सिद्धयतीतिमूलशङ्कार्थः।समाधत्ते - अप्रयोजकत्वादिति मूलम् / तथा च पर्वतो वह्निमान् व्यञ्जनवांश्च धूमात् इत्यत्र वह्निव्यञ्जनोभयसहचारस्य धूमे महानसे तुल्यत्वेऽपि धूमवन्योः कार्यकारणभावमूलकः, वह्नयभावे धूमो न स्यात् इत्यनुकूलतर्कवत् व्यञ्जनाभावे धूमो न स्यात् इत्यनुकूलतर्काभावः, तथा चानुकूलतर्कशून्यत्वमेवाप्रयोजकत्वम्, तद्वत् अत्रापि पृथिवी जलादित्रयोदशप्रतियोगिकान्योन्याभाववती पृथिवीत्वादिति]वत् जलादित्रयोदशभिन्नप्रतियोगिकान्योन्याभाववतीत्यत्रापि व्यतिरेकसहचारस्य तुल्यत्वे यथा जलादित्रयोदशभेदवतीत्यत्रानुकूलतर्कोऽस्ति तद्वत् जलादित्रयोदशभिन्नप्रतियोगिकान्योन्याभाववतीत्यत्र अनुकूलतर्को नास्त्येव / तत्र अनुकूलतर्कोऽस्त्येव यथा पृथिवी यदि जलादित्रयोदशभिन्ना न भवेत् तदा जलादिष्वपि गन्धः प्रसज्येत / प्रकृते पृथिवी जलादित्रयोदशभिन्नं यद् वस्तु तद्भिन्ना इत्यत्र किञ्चिद्(कश्चिद्) विपक्षबाधकरूपोऽनुकूलतर्को नास्तीति [99 B] अप्रयोजकता / एतदेवाह - प्रकृते चेति मूलम् / अनुभूयमानं जलादिवैधयं पृथिवीत्वरूपमित्युपलक्षणम्, गन्धोऽपि ग्राह्यः / शब्दाश्रयत्वं वाऽऽकाशे इतरभेदसाधने, विपक्षबाधकस्तों यथा यद्याकाशस्त्रयोदशभिन्नो न स्यात् तदा शब्दाश्रयत्वमाकाशे नस्यात्। अतिरिक्तमिति मूलम् / जलादिभिन्नवस्तुव्यतिरेकेणेत्यर्थः / शङ्कते - नन्विति। इतरभेदो यद्यन्योन्याभावरूपस्तदाभावात्पृथिव्याभेदोन सिद्धयेत्। कुतः? यथाघटभेदः पटेपटस्वरूपातिरिक्तो घटान्योन्याभावरूपो भेदातिरिक्तः स्वीक्रियते तद्वत् पृथिव्यामभावस्यापि चतुर्दशस्य भेदोऽन्योन्याभावरूपो जलादित्रयोदशान्योन्याभाववत् अधिकरणातिरिक्तो नास्ति। अयंभावः - यथा पृथिवीजलाभिद्यते अत्र यथा जलभेदः पृथिव्यां