________________ केवलव्यतिरेक्यनुमाननिरूपणम् 203 गवि भासते ननु (न तु) गवयसादृश्यं गवि भासते। अन्यथेति टीका।शबरस्वामिभाष्यकृतो मानसस्य प्रत्यक्षे एवान्तर्भावसम्भवात् ।यथागोसदृशोगवय इति उपमानस्थले गोप्रतियोगिकसादृश्यंगवयनिष्ठंप्रत्यक्षप्रमाणविषयः यतः प्रत्यक्षेण गोप्रतियोगिकसादृश्यं गवये गृह्यते / गवयप्रतियोगिकसादृश्यं गवि उपमानेन गृह्यते इति मीमांसकमतम्। तच्च नैयायिकैर्दूष्यते।कथम् ? गवयप्रतियोगिकसादृश्यंगविअनुमानेन गृह्यते।अनुमानं यथा गौर्गवयसदृशः गवयनिष्ठसादृश्यप्रतियोगिकत्वात् यथा हस्तो हस्तान्तरेण इत्यत्रानुमाने तस्य शाबरोपमानस्यान्तर्भावः क्रियते किमर्थं प्रत्यक्ष एवोपमानस्यान्तर्भावोऽस्तु इत्यर्थः / गोसदृशो गवय इति गोसादृश्यविशिष्टप्रत्यक्षे गवये गोप्रतियोगिकसादृश्ये भासमाने गव्यपि गवयप्रतियोगिकसादृश्यं भासते / किंवत् ? यथा तेजःप्रभृतिद्वादशभिन्न प्रतियोगिकभेदे जले भासमाने जलप्रतियोगिको भेदोऽपि तेजःप्रभृतिद्वादशभिन्ने वस्तुनि भासते इति त्वयाऽपि स्वीक्रियते। तथा च गवि गवयप्रतियोगिकसादृश्यभानार्थं नैयायिकैर्यदनुमानं क्रियते तत् किमर्थम्, पूर्वोक्तरीत्या प्रत्यक्षेणैव तस्य गृहीतत्वात्। अयमनिष्कर्षः - नैयायिकमतेवाच्यवाचकसम्बन्धग्रहे एवोपमानस्य फलं तदेवोपमितिरूपं फलम् / यथा प्रथमतो नागरिकेण वनेचरं प्रति कीदृग् गवय इति प्रश्नः कृतः, तदनन्तरमारण्यकेनोक्तम् ‘गोसदृशो गवयः' इति, [99 A] तस्य वै गोसदृशो हि कश्चिदर्थो गवयशब्दवाच्य इति अतिदेशवाक्यार्थज्ञानं नागरिकस्य जातम्, तदनन्तरं स नागरिको वनं गतः, तत्र तस्य गोसादृश्यविशिष्टप्रत्यक्षं . जातम्, तदनन्तरंगोसदृशः पदार्थो गवयशब्दस्यार्थइत्यतिदेशवाक्यार्थस्मरणं जातम्, तदनन्तरंगवयशब्दवाच्योऽयं पिण्ड इतिज्ञानं जायते। अत्र गवयशब्दवाच्यताग्रहो यः सचोपमितिव्यतिरेकेणन सम्भवतिइतिगवयत्वावच्छेदेन गवयशब्दवाच्यतां गवयपिण्डे गृह्णाति इति ज्ञानमुपमितिरूपम्। तथा चगवयत्वावच्छेदेन गवयशब्दवाच्यताग्रहो यः स चोपमितिव्यतिरेकेण न सम्भवति इति गवयत्वावच्छेदेन गवयशब्दवाच्यताग्रह एवोपमानस्य फलमिति न्यायमतम्। शबरस्वामिनात्वेवमुच्यते - 'गोसदृशो गवयः' इतिवाक्यश्रवणानन्तरमरण्यगतमात्रस्य नागरिकस्य गोसादृश्यविशिष्टपिण्डप्रत्यक्षानन्तरम् एतद्वयसदृशी मदीया गौः' इति गवि गवयप्रतियोगिकसादृश्यज्ञानम'वोपमारूपमिति तदेवोपमानफलमिति शबरस्वामिकृतम्, तच्च शाबरमुपमितिरूपं यद् ज्ञानं तत्र नैयायिकैरनुमितिरूपमेवोच्यते, अनुमानंतुपूवोक्तरीत्या इति।अत्रैतद्ज्ञानंनैयायिकैरनुमितिरूपंकिमर्थमुच्यते, प्रत्यक्षरूपमेव कुतो न भवति यतो गोसदृशो गवय इति गोसादृश्यविशिष्टपिण्डं प्रत्यक्षं यदि गवये गोप्रतियोगिकं सादृश्यं भातमेवेति प्रत्यक्षेणानुमितेरन्यथासिद्धत्वादित्यर्थः।। - नन्वेवं पृथिवी जलादित्रयोदशभिन्नप्रतियोगिकान्योन्याभाववती द्रव्यत्वादिति पृथिवीभिन्नतद्भिन्नादिसिद्धिः स्यादिति चेत्।न।अप्रयोजकत्वात् प्रकृते चानुभूयमानजलादिवैधर्म्यस्य पृथिवीत्वशब्दाश्रयत्वादेः अतिरिक्तं विनानुपपत्तेः / नन्वितरभेदो