________________ 202 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका भवत(त्ये)व, एतावतापृथिवी तेजःप्रभृतिद्वादशभिन्ना सिद्धा, जलभेदोऽपियदि पृथिव्यांसिद्धस्तदात्रयोदशानामपि भेदानां सामान्यतः सिद्धिर्जातैवेति नाप्रसिद्धः।समाधानान्तरं दूषयति - अन्ये त्विति। तेजःप्रभृतियद्वादशभिन्नं तत् पक्षः तज्जलभेदवत् इति साध्यं जलनिष्ठभेदप्रतियोगित्वात् / यज्जलनिष्ठभेदप्रतियोगि तज्जलभेदवत् / एतावताऽयमर्थः - द्वादशभेदवद्वस्तुनि यदि जलभेदस्तदा त्रयोदशभेदसिद्धिरेवेति सामान्यतः / एवं च यथा घटभेदवति यदिघटभेदः सिद्धः तदा घटापटोभयभेदएवेतिभावः / पुनरपिइतरभेदाः त्रयोदशभेदाः तत्प्रसिद्धयर्थं मतान्तरमाह - यत्त्विति / अनुमानं(ने) जलं पक्षः तेजःप्रभृति यद् द्वादशभिन्नं वस्तु पृथिवीस्वरूपं तत्प्रतियोगिकान्योन्याभाववत् इदं साध्यं द्रव्यत्वात् तेजोवत् एतस्मिन् अनुमाने तेज:प्रभृतिद्वादशभिन्नं पृथिवीस्वरूपं जातं तस्य भेदो यदि जले तदा जलभेदोऽपिपृथिव्यामिति द्वादशभेदा जलभेदश्चेति त्रयोदशभेदाः सामान्यतः। पृथिवीविशेष्यकत्रयोदशभेदसाध्यकस्तु व्यतिरेकीति सार्थकः / दूषयति - तत् तुच्छमिति। विशेषणेति। तथा च यत्र विशेषणविशेष्यभावो भिन्नस्तत्र समानसंवित्संवेद्यत्वं नास्त्येव।यथाभूतलवद्घटाभाव इत्यत्रभूतले घटात्यन्ताभावे भासमाने घटे अत्यन्ताभावप्रतियोगित्वं समानसंविद्वेद्यतया भासते एव, परं घटे भतलवृत्तित्वाभावो न भासते, कथम्?, विशेषणविशेष्यभावभेदात् यथाभूतलंघटाभाववत् इत्यत्रभूतलं विशष्यं घटाभावो विशेषणम् / नतु अनघटो विशेष्यो भूतलवृत्तित्वाभावो विशेषणम् अनयोर्विशेषणविशेष्यभावाभावात्। भूतलंघटाभाववत् इत्यत्रभूतलविशेष्यकघटाभावविशेषणकविशेषणविशेष्यभावोऽनुभूयते, [98B] न तुघटविशेष्यकभूतलवृत्तित्वाभावविशेषणकविशेषणविशेष्यभावः। तथा च यथा घटविशेष्यकभूतलवृत्तित्वाभावविशेषणको विशेषणविशेष्यभावो नानुभूयते इति कृत्वा घटे न भूतलवृत्तित्वाभावज्ञानं जायते / तद्वत् जले द्वादशभिन्नप्रतियोगिकान्योन्याभावे भासमानेऽपि द्वादशभिन्ने जलान्योन्याभावो न भासते यतो द्वादशभिन्नविशेष्यकजलभेदविशेषणाकात्वासम्भवात् / तथा च न द्वादशभिन्ने जलभेदो भासते, तथा च पृथिव्यां जलभेदस्य भानाभावात् न सामान्यतोऽपि त्रयोदशभेदप्रसिद्धिः / तत्प्रतियोगिकेति टीका। द्वादशभिन्नप्रतियोगिकेति अर्थः। तन्निष्ठेति / जलनिष्ठभेदप्रतियोगित्वं द्वादशभिन्ने भासते, यदा घटे पटभेदो भासते [तदा] पटनिष्ठभेदप्रतियोगित्वमपि घटे भासते / ननु घटेऽपि पटभेदस्तद्वज्जले द्वादशभिन्नप्रतियोगिके भेदे भासमानेऽपि जलनिष्ठभेदप्रतियोगित्वं द्वादशभिन्नेभासते इत्युचितम्, ननु(? नतु) द्वादशभिन्नेऽपिजलभेदवत्त्वं भासते इत्यर्थः।अत्रैवानुरूपं दृष्टान्तमाह - अतएवेति। गवये अनुयोगिनि गोसादृश्ये गोसदृशो गवय इति वाक्याभासमाने गवयनिष्ठसादृश्यप्रतियोगित्वं गवि भासते। ननु (न तु) गवयप्रतियोगिसादृश्यमपि गवि भासते यथा गवयसदृशो गौरिति प्रतीतेरभावात् गवयसादृश्यं न भासते।समानेतिटीका। गोप्रतियोगिकं सादृश्यं चैद्गवये भातं तदा गवयनिष्ठसादृश्यप्रतियोगित्वमपि 1. पृथिव्याम् इति प्रतौ टिप्पणी।