________________ केवलव्यतिरेक्यनुमाननिरूपणम् 201 वह्रिसिद्धिर्न भवति तथा प्रत्येकं त्रयोदशभेदाभावाः साधितास्तदा कथं त्रयोदशभेदरूपसाध्यसिद्धिः ?, त्रयोदशभेदाभावज्ञानस्य प्रतिबन्धाकात्वात् / ननु मेलक(क)रूपसाध्यसिद्धौ किं दूषणमित्यत आह - मू(मे)लकेति। तथा च मेलको हि न त्रयोदशभेदातिरिक्तः किन्तु त्रयोदशभेदस्वरूपात्मक एव / तथा च यदि प्रत्येकं त्रयोदशभेदाभावाः साधितास्तदा त्रयोदशभेदरूपसाध्यस्य सिद्धिः कथं स्यात् ? तुष्यतु [दुर्जनः] इति न्यायेन भवतु वा मेलकः, तथापि मेलकीभूतसाध्याप्रसिद्धौ कथमनुमानं पृथिवी इतरेभ्यो भिद्यते इति रूपं स्यादिति न किञ्चित्, तद्वत् / असाधारण इति टीका। यदा असाधारणो न ज्ञातस्तदा प्रत्येकव्यतिरेकव्याप्तिभिः प्रत्येकं त्रयोदशभेदाः साधयितुंशक्यन्ते एव।ननु तथापिअसाधारण्यज्ञानकाले तादृशप्रकारकव्यतिरेक्यनुमानासम्भवात् कथमयं पक्ष इत्यत आह - क्वचिदिति / तथा च यदा असाधारण्यज्ञानं नास्ति तदा पृथिवी इतरेभ्यो भिद्यते इत्यनुमानं भवत्येवेत्यर्थः। सर्वेति टीका।घटाद्येकदेशप्रकार आकाशादिषुन सम्भवतीति। तथाप्रकारमाह - तस्यापि सङ्ग्रहो यथा स्यादित्यर्थः / . यद्वा जलं तेज:प्रभृतिद्वादशभिन्नप्रतियोगिकान्योन्याभाववत् द्रव्यत्वात् तेजोवत् इत्यनुमानात् त्रयोदशभिन्नस्य सामान्यतः सिद्धौ पृथिव्यां त्रयोदशभिन्नत्वं साध्यम् / न चान्वयित्वमसाधारण्यं वा, पक्षादन्यत्र साध्याप्रसिद्धेः / वस्तुगत्या पृथिव्यामेव साध्यसिद्धेः किं व्यतिरेकिणेति चेत्।न। पृथिवी त्रयोदशभिन्नेति व्यतिरेकिणं विनाअप्रतीतेः / / यद्वेति मूलम् / यथा जलं पक्षः तेजःप्रभृतयो ये द्वादश तद्भिन्नं यद्वस्तु तदन्योन्याभाववत् / एतावत् त्रयोदशभेदो जले सामान्यप्रकारेण सिद्धो न तु त्रयोदशत्वेन रूपेण / अत एव नासाधारण्यम्, त्रयोदशत्वेन रूपेण साध्याप्रसिद्धेरिति।अन्वयित्वमपि नास्ति [98 A] सपक्षाभावात् इत्यत आह - नचेति। तथा चपक्षात् पृथिवीरूपादन्यत्र त्रयोदशरूपसाध्याप्रसिद्धेः / किन्तु साध्यप्रसिद्धिः पक्षे पृथिव्यामेव / अत्राशङ्कते - वस्तुगत्येति मूलम् / यदि पृथिव्यामेव त्रयोदशभेदरूपसाध्यस्य सिद्धिस्तदा व्यतिरेक्यनुमानेन किम् ? व्यर्थं तदित्याशङ्कार्थः / समाधत्ते - पृथिवीति / पृथिवीविशेष्यकत्रयोदशप्रकारकबुद्धेरसम्भवात् पृथिवी त्रयोदशभिन्ना इति पृथिवीविशेष्यकबुद्धिर्न जाता किन्तु सामान्यत इतरभिन्ना इति जाता। तथा च इदमेव प्रयोजनं यत् पृथिवीविशेष्यकेतरभेदानुमितिस्तेन क्रियते इति। अत्र टीका शङ्कते - यद्यपीति। त्वयोक्तं जलं तेज:प्रभृतिद्वादशभिन्नं तद्वस्तु तद्भेदवदिति। तच्चायुक्तम् / कथम् ? द्वादशभिन्नं यद्वस्तु तत्सद्धावपि द्वादशभेदस्य जलेऽसिद्धिरेव। जलभिन्नं यद्वस्तु तस्य भेदो जले यद्यपि सिद्धस्तथापि तेजःप्रभृति यद् द्वादश तद्भेदस्तु जले न सिद्धः / अयमर्थः - जलभेदः पृथिव्यां सिद्धोऽनेनानुमानेन परं पृथिव्यां तेजःप्रभृतिद्वादशभेदो न सिद्ध इत्याशङ्कार्थः / समाधत्ते - तथापीति। अनुमानार्थस्त्वयम् - जलं पक्षः तेज:प्रभृति यद्वादशकं तद्भिन्नं यद्वस्तु तन्निष्ठो यो भेदोऽर्थाजलस्य