________________ 200 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका व्यतिरेकव्याप्तिग्रहः इत्याशङ्कते - न चेति / साध्यतेति। त्रयोदशभेदत्वेन इत्यर्थः / समाधत्ते - भिन्नेति / यथा चैत्राङ्गने घटो मैत्राङ्गने च पटस्तत्रोभयेन्द्रियसन्निकर्षे सति कस्याङ्गनस्य घटपटोभयाभावानधिकरणत्वेऽपि भिन्नाभिन्नानधिकरणे विद्यमानानां तेषां भिन्नाधिकरणकघटपटयोाविति बुद्धिवत् त्रयोदशभेदाभाव इति निरधिकरणकबुद्धिसम्भवात् / अतः सपक्षव्यतिरेकिणाऽपि साध्यप्रसिद्धिः यथा घटत्वपटत्वद्वयोरेकाधिकरणकत्वासम्भवेऽपिघटत्वपटत्वे द्वे इति बुद्धिः सम्भवति। तद्वत् अत्रापि इति समुदायार्थः। अन्येनोक्तां साध्यप्रसिद्धिं खण्डयति - यत्त्विति। प्रत्येक इति। यथा चपृथिवी पक्षस्तत्र जलादित्रयोदशभेदाः साध्यन्ते तेषां च न त्रयोदशभेदत्वेन साध्यता किन्तु प्रत्येकभेदत्वेन तेजोभेदत्वेनेति यावत्। तथा च जलभेदस्तेजसि प्रसिद्धस्तेजोभेदो जले प्रसिद्ध इति न साध्याप्रसिद्धिर्नापि व्यतिरेकव्याप्तिग्रहदुर्भिक्षं तत्र जलभेदा[भा]वस्तत्रेतरभेदाभावः यथा जले इति व्यतिरेकव्याप्तिग्रहः सम्भवति। तथा च व्यतिरेकव्याप्तिग्रहः सुकरः / ननु प्रत्येकव्यतिरेकव्याप्तिभिः प्रत्येकभेदस्य साध्यत्वे प्रत्येकभेदस्य तेजोवाय्वादावधिकरणे विद्यमानत्वात् ततः पृथिवीत्वस्य हेतोया॑वृत्तात्वात् असाधारण्यं स्यादित्यत आह - अनुमितीति। तथा च यादृशं साध्यमनुमितिविषयो भवति।प्रकृते अनुमितिविषयीभूतं साध्यं मिलितत्रयोदशभेदरूपं तथाव्या]वृत्त्या हि असाधारण्यं भवति।साध्यवव्यावृत्तौ (तो) हेतुरसाधारणः इत्यर्थः / मिलिते त्रयोदशभेदरूपसाध्यस्य कुत्रापि प्रसिद्धिर्नास्ति, ततो न साधारण्यमिति भावः / न च साधारणस्य व्याप्तिग्रहप्रतिबन्धकत्वेन दूषकत्वं प्रत्येकसाध्यवद्वयावृत्तत्वज्ञानेन प्रत्येकसाध्यव्यतिरेकव्याप्तिग्रहप्रतिबन्धनात् / प्रत्येकव्याप्त्यग्रहे कथं प्रत्येकव्याप्तिर्मिलितत्रयोदशभेदानुमितिरित्यत आह - सत्प्रतिपक्षेति। तथा चासाधारणस्य न व्याप्तिग्रहप्रतिबन्धाकत्वेन दूषकत्वम्, सत्प्रतिपक्षोत्थापकत्वेन / ततः प्रत्येकसाध्यव्यावृत्तत्वज्ञानेऽपि न व्यभिचारकव्याप्तिग्रहप्रतिबन्धः [97 B] सत्प्रतिपक्षोत्थापकत्वं च प्रकृते नास्ति / सत्प्रतिपक्षश्चैवं पृथिवी त्रयोदशभेदाभाववती पृथिवीत्वादिति सत्प्रतिपक्षः कर्तुं न शक्यते। कुतः ? त्रयोदशभेदरूपसाध्यस्यानुमितिव्यतिरेकेण ज्ञानाभावात् / तथा च सत्प्रतिपक्षः कर्तुं न शक्यते / अयमत्र सङ्ग्रहः - असाधारणस्य व्याप्तिग्रहप्रतिबन्धकत्वे[ना नदूषकत्वं किन्तु सत्प्रतिपक्षत्वेन।तथाचजलभेदव्यावृत्तत्वज्ञानेन जलभेदाभाववती इत्येव सत्प्रतिपक्षः कर्तव्यः, स च त्रयोदशभेदरूपसाध्यस्य न सम्भवति किन्तु जलादिप्रत्येकभेदस्यैवेति कृत्वा तादृशसाधारण्येन सत्प्रतिपक्षोत्थापनमकिञ्चित्करमेव, ततस्तु त्रयोदशभेदरूपसाध्यस्य [त्रयोदशभेदाभाववती इत्ययं सत्प्रतिपक्षः कर्तव्यः स च न सम्भवति, किन्तु(कथम् ?), जलमिलितसाध्यवघ्यावृत्तरूपासाधारण्यज्ञानाभावात् साध्याप्रसिद्धेरिति। एतदेव मनसिधृत्वाऽऽह - अनुमितिविषयेति। दूषयति-चिन्त्यमिति। तथा चेति / पृथिवी जलभेदाभाववती तेजोभेदाभाववती इत्यादि प्रत्येकं तद्भेदाभावसाधने इति प्रत्येकं त्रयोदश[भेदा]भावसाधितेसति त्रयोदशभेदरूपसाध्यस्य सिद्धिः कथंभविष्यति।सर्वे प्रत्येकभेदाभावायदि साधितास्तदा त्रयोदशभेदरूपं साध्यं न सिद्धयति / यथा पर्वतः पर्वतीयवह्नयभावावांश्चेति सत्प्रतिपक्षेण यथा पर्वते