________________ केवलव्यतिरेक्यनुमाननिरूपणम् 199 मूले एतदर्थे द्रव्यकिरणावलीसम्मतिमाह - आस्तामिति नियूंढमिति / अन्वयव्याप्त्यप्रतिसन्धानदशायां व्यतिरेकव्याप्तिज्ञानस्यानुमितिजनकत्वात् व्यतिरेकी नियूंढ इत्यर्थः / ननु आकाश इतरेभ्यो भिद्यते शब्दवत्त्वात् इत्यत्र आकाशस्यैकदेशाभावात् साध्याप्रसिद्धौ कथं व्यतिरेकित्वमित्यभिप्रायेण अथवेति मूले योजयति / उक्तप्रकारेति टीका / एकदेशे साध्यप्रसिद्धिप्रकारस्येत्यर्थः / जलादीति मूलम् / जलभेदस्तेजसि प्रसिद्धः प्रत्यक्षेण / एवंप्रकारेण प्रात्यक्षिकास्ते ते भेदास्तेषु तेषु प्रसिद्धा इति ते भेदाः अपेक्षाबुद्धया यथा अयमेक इति रूपोयोऽपेक्षाबुद्धिरूपो विशेषस्तयोपगृहीतास्ते ते समुदिताः भेदाः पृथिव्यां पृथिवीतरप्रतियोगिकाःआकाशेऽपि आकाशेतरप्रतियोगिकाः साध्यन्ते इत्यर्थः। पूर्वकल्पे एकदेशे साध्यप्रसिद्धिरूपे स्वरसमाह - अतएवेतिमूलम् / यत एव आकाशस्यैकदेशे साध्यप्रसिद्धिर्नास्तीत्यत एवेत्यर्थः / तथा चाकाशपक्षकेऽपि ते ते भेदा जलादिभेदास्तैजसादौ प्रसिद्धा इति न साध्याप्रसिद्धिरिति व्यतिरेकिणा समुदिता आकाशे साध्येतेत्यर्थः / ननु त्रयोदशान्योन्याभावाः त्रयोदशसु जलादिषु कथं प्रसिद्धाजले वाय्वादिभेदसत्त्वेऽपिजलभेदाभावात् इत्यत आह - एतच्चेति टीका / तथा यथा घटत्वे सत्त्वेऽपि घटपटौ न स्त इति व्यासज्यवृत्त्यत्यन्ताभावः स्वीक्रियते एकसत्त्वेऽपि द्वित्वावच्छिन्नाभावः तद्वत् प्रकृते पृथिवी इतरभिन्ना पृथिवीत्वात् इत्यत्र जलं वाय्वाकाशादिकं न इति प्रतीत्या द्वादशान्योन्याभावस्य जले सत्त्वेऽपि जलादित्रयोदशभेदाभावो व्यासज्यवृत्तिप्रतियोगिताको जलादित्रयोदशभेदाभावरूपः साध्याभावो जले वर्तते एवेति जलादीनां विपक्षत्वम् / कथम् ? अन्यथा जलादिषु त्रयोदशान्योन्याभावसत्त्वे पक्षत्वेन विपक्षत्वानुपपत्तिः / तस्मादिति टीका / व्यासज्यवृत्तिधर्मस्त्रयोदशत्वं तदवच्छिन्नोभेदःप्रतियोगीतदभावोजलेद्वादशतेजोवाय्वादिभेदसत्त्वेजलादिप्रतियोगिका ये त्रयोदशत्वावच्छिन्ना भेदास्ते तु न सन्ति, द्वादशभेदसत्त्वे जलभेदस्यासत्त्वात्। ननु यदि जलादौ त्रयोदशान्योन्याभावाः प्रसिद्धास्तदा जलादीनां सपक्षत्वेनान्वयित्वमसाधारण्यं वा स्यादित्यत आह - अत एवेति। तथा च एकस्मिन् अधिकरणस्य अलादेनिश्चितसाध्यवत्त्वाभावात् सपक्षत्वं नास्ति। यत एकमधिकरणं त्रयोदशभेदवत् न भवति। कुत इत्यत आह - प्रत्येकेति / तथा च जले निश्चितं साध्यं त्रयोदशत्वरूपं साध्यतावच्छेदकं तदवच्छिन्नो भेदः स चैकस्मिन् कुत्रापि[97AJजलादौनास्ति, जलादौजलभेदाभावात्।प्रत्येकंभेदस्तिष्ठति, सतुन व्यासज्यवृत्तिधर्मावच्छिन्नः / कुत इत्यत आह - अन्यथेति। यदि प्रत्येकसत्त्वेऽपि द्वित्वावच्छिन्नं चेत् तदा एकस्मिन् द्वाविति बुद्ध्यापत्तिः / अत्रैव ग्रन्थस्वरसमाह - अतएवेति। तावदिति। त्रयोदशत्वावच्छिन्नभेदयोगीत्यर्थः। ननु (न तु) प्रत्येकभेदवान् जयोदशत्वावच्छिन्नभेदवान् इत्यत आह - नन्विति (न त्विति) / कुत इत्यत आह - साध्यताया इति / तथा च त्रयोदशत्वरूपो यो व्यासज्यवृत्तिधर्मस्तदवच्छिन्ना साध्यता न प्रत्येकं परिसमाप्ता किंातु] तावत्येव त्रयोदशस्वेव, यथा द्वित्वं यद्यपि एकस्मिन्नपि वर्तते तथापि द्वित्वं न एकस्मिन्नेव पर्याप्तं किन्तु द्वयोरेव पर्याप्तम् / ननु तथापि एकत्र कस्मिन्नप्यधिकरणे जले तेजसि वेत्यादौ त्रयोदशभेदरूपसाध्यस्याभावात् साध्याप्रसिद्धेः कथं