SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ केवलव्यतिरेक्यनुमाननिरूपणम् 197 - विशिष्येति मूलम् / तथा च परमाणुत्वं व्यणुके नास्ति व्यणुकत्वं च परमाणौ नास्ति इत्येकेन रूपेण पक्षत्वाभावादनुमानमेव न स्यात् किन्तु पृथिवीत्वेन रूपेण घटादिकं परित्यज्य यावदेव विप्रतिपत्तिविषयस्तावत एव पक्षत्वम् / ननु पृथिवीत्वेन पक्षतायां घटादावितरभेदस्य सिद्धत्वात् सिद्धसाधनं स्यादिति मूलमसङ्गतमित्यन्यथा व्यचष्टे - घटादावितीति टर्टीका / तथा च न सिद्धसाधनमित्यर्थः। घटादिभिन्नपृथिवीत्वेन पक्षतेत्यत्र साधकमाह - अत एवेति / कार्यं सकर्तृकं कार्यत्वादित्यत्र कार्यत्वं पक्षतावच्छेदकं परित्यज्यादृष्टद्वारिका या जन्यकृतिः, तदजन्यं यजन्यम्, सत्त्वेन रूपेण पक्षता न तु कार्यत्वेन पक्षता, कार्यत्वस्य घटादौ वृत्तित्वेन कुलालादिसिद्धेः सिद्धसाधनं स्यादित्यर्थः / यदि च घटादिकं परित्यज्य पृथिवीत्वेन पक्षता तदेश्वरानुमानेऽपि घटादिकं परित्यज्य कार्यत्वेन रूपेण विप्रतिपत्तिविषयाणामेव क्षित्यादीनामेव पक्षताऽस्तु किमर्थमदृष्टद्वारिकेति पक्षतावच्छेदकनिर्वचने निर्बन्ध इत्याह - अन्यथेति टीका / तावतामिति क्षित्यादीनामित्यर्थः / तथा च क्षित्यादिकं सकर्तृकमित्यत्र आदिशब्देन जलतेजःप्रमुखं यदि गृह्यते तदा पुरुषायुषपर्यवसानं स्यात्, तथा च क्षितिरेव पक्षः कार्यः, तदा क्षितित्वं पक्षतावच्छेदकं समुद्रे क्षितावनुगतं नास्तीति कृत्वा कार्यत्वं परित्यज्यादृष्टद्वारिकेत्यनुगतं पक्षतावच्छेदकं कृतं तदंशतः सिद्धसाधनभियैव / न च पक्षतावच्छेदकैक्ये कथमंशतः सिद्धसाधनमित्यतआह-तथाचेति।पक्षतावच्छेदकैक्येऽपिसिद्धसाधनं भवत्येव। तथा चांशतः सिद्धसाधनभियैव कार्यत्वांशंपरित्यज्यादृष्टद्वारिकेत्यादिनारूपेण पक्षतावच्छेदकनिर्वचनं कृतम्।नचेत्यारभ्यवाच्यमित्यन्तार्थः / अत्र अंशतः सिद्धसाधनभीत्या कार्यत्वं पक्षतावच्छेदकं परित्यज्यादृष्टाद्वारिकेत्यादिपक्षतावच्छेदकनिर्वचनं कृतमितिनकिन्तुसम्पूर्णसिद्धसाधनभीत्यैवकृतंपक्षतावच्छेदकसामानाधिकरण्येनसाध्यसिद्धरेव सिद्धसाधनत्वात् यतः पक्षतावच्छेदकं कार्यत्वं तेन सामानाधिकरण्यं सकर्तृकत्वं घटे प्रसिद्धमिति कृत्वा सिद्धसाधनमेव नांशतः सिद्धसाधनमिति / समाधत्ते - एतन्मत इति टीका / अंशतः सिद्धसाधने बाधकमाह - अन्यथेति / यद्यंशतः सिद्धसाधनभियैव पक्षतावच्छेदकनिर्वचनं तव [96 A] ते(त)दा [निग्रहः स्यादित्यर्थः / तथा च कार्य सकर्तृकमित्यत्र परेण यदि अंशतः सिद्धसाधनमुद्भाव्यते तदा अन्यो वादी वदति - मया कार्यत्वेन रूपेण घटादिकं पक्ष एव न क्रियते किन्तु क्षित्यादिकमेव। अंशतः सिद्धसाधनाभावात् स्थापनावादिन एव विजयः स्यात् न तु अंशतः सिद्धसाधनवादिनः / एतदेवाह - विजयेनेति / स्थापनावादी अनुमानवादी जयी भवति इत्यर्थः / व्यतिरेकिवैयर्थ्यमाशङ्कते.- नहीति मूलम्। तथा पृथिवी इतरभिन्ना पृथिवीत्वात् इत्यत्रघटे पृथिवीत्वमितरभेदोऽप्यस्तीति अन्वयी भवतु। तथा चघटेतरा पृथिवी पक्षः, पक्षभिन्नो घटः सपक्षः। ननु घटसाधारणी पृथिवीत्वेन रूपेण पक्षता इति प्रथमः पक्षः। ततः तस्मिन् पक्षे घटस्य पक्षान्तर्भूतत्वात् सपक्षो घटो न भवति। तथा चहेतुसाध्ययोरन्वयव्याप्तौ सपक्षाभावात् व्यतिरेक्येवोचित इत्यभिप्रायेण मूलमपरिपूर्णमिति मूलं संगमयति टीकाकार: - पूर्वमत इति टीका। घटसाधारणा पृथिवीत्वेन रूपेण पक्षतेति पूर्वस्मिन् कल्पे इत्यर्थः / पूर्व पक्षताद्वयं कृतम् - एको घट
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy