________________ 196 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका वह्निसंशयः तथा प्रकृते घटत्वरूपविशेषप्रकारेणेतरभेदनिर्णयेऽपि पृथिवीत्वेन रूपेणेतरभेदसंशयो भवत्येवेति। तथा च विशेषप्रकारकनिर्णयस्य सामान्यप्रकारकसंशयविरोधित्वमित्यत्र किं नियामकमित्यस्वरसादाह - किञ्चेति। यदवच्छेदेनेति / यथा पुरुषत्वावच्छेदेन स्थाणुत्वाभावरूपकोटिकानिश्चये जाते सति यत्र पुरुषज्ञानं तत्र स्थाणुत्वाभावकोटिकसंशयविरोधि दृष्टम्, न तु यदवच्छेदेन यत्र यत्कोटिएकानिश्चयस्तस्यावच्छेदकस्य यत्प्रकारको निर्णयस्तत्प्रकारकतत्कोटिकसंशयविरोधिगौरवात्। तथा चअयमर्थः-यदवच्छेदेन पुरुषत्वावच्छेदेन स्थाणुत्वाभावकोटिकनिर्णये पुरुषत्वं स्थाणुत्वाभावस्य व्यावर्तको धर्मः तथा च यत्र व्यावर्तकस्य धर्मस्य दर्शनं तत्र न व्यावृत्तस्य संशयो यथास्थाणुत्वाभावव्यापको धर्मः पुरुषत्वं तथा च यत्र पुरुषत्वज्ञानं तत्रस्थाणुत्वाभावसंशयः, परंतु त्वयोच्यते त(य)त्रपुरुषत्वज्ञानं तत्रपुरुषत्वप्रकारकसंशयो न भवतीति संशयविरोधित्वम् तत्त्वयुक्तम्। तत्प्रकारकत्वांशो गौरवात् त्याज्यः किन्तु यत्र व्यावर्तकधर्मज्ञानंतत्र न तच्छंशयः स च सामान्ये वाभवतु। तथाचप्रकृते इतरभेदस्य व्यावर्तको धर्मो घटत्वम्, तस्य घटेयज्ज्ञानं तत्स्वशब्देन घटत्वं तस्य व्यावृत्त्य इतरभेदः / तस्य घटत्वरूपविशेषप्रकारेणापि संशयविरोधिघटत्वज्ञानं सामान्यंयः प्रकारः पृथिवीत्वं तत्प्रकारकसंशयस्यापि विरोधिभवत्येवेत्यर्थः। नन्वेवं घटत्वेनेतरभेदनिर्णयेऽपिपृथिवीत्वेनेतरभेदसंशयो जायते इत्येतन्मूलं विरुद्धमित्यत आह - अत एवेति। यतः परामर्शग्रन्थे एवमुक्तमस्तिधूमत्वरूपव्याप्तिव्यावर्तकधर्मदर्शने विद्यमानेऽपिधूमत्वप्रकारको न सन्देहः किन्तुएतद्भूमत्वप्रकारकःसन्देहस्तुभविष्यत्येव। तथा चतच्छंशयनिराकरणार्थं पर्वतवृत्तिधूमो वहिव्याप्य इति परामर्शः स्वीकार्य एवेति पूर्वपक्षयित्वा यत्र व्यावर्तकधर्मदर्शनं तत्र तत्तत्संशयो न तु व्यावर्तकधर्मप्रकारकत्वांशोऽपि प्रविष्टव्यो गौरवादिति / तत्र सिद्धान्तितमतम् एव प्रकृते घटत्वरूपव्यावर्तकधर्मदर्शने विद्यमाने विशेषप्रकारको घटत्वप्रकारकः सामान्यप्रकारकः पृथिवीत्वप्रकारको वान तत्संशयो व्यावर्तकधर्मस्य तत्प्रतिबन्धकत्वादिति अर्थः / मूलकारसम्मतिमाह - तदिति। व्याख्यातं प्राक् / तथा च प्रकृते घटे घटत्वज्ञाने विद्यमाने पृथिवीत्वप्रकारकोऽपि नेतरभेदसंशय इत्यस्वरसार्थः / यद्वेति मूलम् / पृथिवी इतरभिन्ना इत्यत्र सर्वपृथिवीत्वेन न पक्षता। तत्र हेतुमाह - सर्वत्राविप्रतिपत्तेः। सर्वत्राविप्रतिपत्तिः कुतः ? घटे इति मूलम् / तथा च पृथिव्येकदेशे घटे इतरभेदस्य प्रत्यक्षसिद्धत्वात् न सर्वपृथिव्यां विप्रतिपत्तिः / ननु सर्वत्राविप्रतिपत्तावपि सामान्येन सर्वपृथिवीत्वेन रूपेण इतरभेदसाधने किं दूषणमित्यत आह - तथा चेति मूलम् / तथा च यत्र घटे [95 B] जलादिभेदः सिद्धोऽस्ति तत्र घटादावितरभेदसाधनमाकाङ्क्षितम्, ततः प्रकृतानुपयुक्तघटे इतरभेदसाधनेऽर्थान्तरं स्यात्, तथा च निग्रहः स्यादित्यर्थः / ननु सर्वपृथिवीत्वेन रूपेण न साधनं तर्हि केन रूपेणेतरभेदसाधनमित्यत आह - किन्त्विति मूलम् / सामान्येन पृथिवीत्वेन घटादिकं परित्यज्य यावदेव विप्रतिपत्तिविषयस्तावत एव पृथिवीत्वेन रूपेणेत्यर्थः / ननु तर्हि पृथिवीत्वेन रूपेण किमर्थं पक्षता ? ये ये पार्थिवाः परमाण्वादयः पदार्थाः विप्रतिपत्तिविषयास्तेषामेव तेन परमाणुत्वद्वयणुकत्वादिरूपेण पक्षता अस्तु इत्यत आह