________________ केवलव्यतिरेक्यनुमाननिरूपणम् 195 तथाचैकदेशे विप्रतिपत्तौ सामान्ये इतरभेदसाधने अर्थान्तरम्, किन्तु सामान्येन पृथिवीत्वेन यावदेव विप्रतिपत्तिविषयस्तावतामेव पक्षता विशेष्याननुगमात् / तर्हि पृथिवी इतरभिन्ना पृथिवीत्वात् घटवत् इति अन्वयिनैवेतरभेदस्य सिद्धत्वात् किं व्यतिरेकिणा, घटसाधारणपक्षत्वेऽप्यभेदानुमानवत् पक्षस्यापि दृष्टान्तत्वाविरोधात् पक्षान्यत्वं हि तत्रातन्त्रम्, किन्तु साध्यवत्तया निश्चितत्वं प्रयोजकम् / न च पृथिवीत्वाग्रहे पूर्वं गृहीतं यत्र साध्यं पश्चात् स्मर्यते तत्र हेतुसाध्यसामानाधिकरण्याग्रहात् व्यतिरेक्यवतार इति वाच्यम्। .. मूले आशङ्कते-नचेति। घटः पक्षएवनभवति।पक्षत्वं हिद्वेधा - साध्यसन्देहत्वेन सिषाधयिषितसाध्यवत्त्वेन वा। आये त्वाह - साध्यनिश्चयेति। साध्यसन्देहस्तन्निश्चयेनास्ति परं सिषाधयिषादिस्थले नास्तीत्यत्र हेतुर्मूले अनुक्तोऽपि बोध्यः / यथा पृथिवीत्यनुमानस्यापूर्वत्वात् केनापि रूपेण साध्यस्यानिर्णयात् प्रकारान्तरविषयकसिषाधयिषाया अभावात् इत्याशङ्कार्थः / समाधत्ते - सर्वेति मूलम्। यद्यपि घटत्वेन रूपेणेतरभेदस्य निश्चितत्वात् साध्यसन्देहोऽस्ति तथापि पृथिवीत्वेन घटे इतरभेदसन्देहो वर्तत एवेत्यर्थः / न तु विशेषदर्शनं घटत्वेन रूपेण घटे इतरभेदसंशयविरोधि। कुत इत्यत आह - धूमवान् इति। यथा धूमवत्त्वावच्छेदेन धूमवति वह्ननिर्णये जातेऽपि पर्वते पर्वतत्वेन रूपेण वह्रिसंशयो भवति तद्वत् प्रकृते पृथिवीत्वेन रूपेण इतरभेदसंशयो भवत्येवेति मूलम् / व्याख्या। अत्रास्वरसं दत्त्वा उत्तरग्रन्थं योजयति - नत्विति। तथा चधूमवत्त्वावच्छेदेन वह्निवह्निमत्त्वनिर्णये सति धूमवत्त्वेन सामान्येन प्रकारेण संशयो न भवति किन्तु धूमवत्त्वापेक्षया एतत्पर्वतत्वं विशेषस्तेन रूपेण संशयो भवतु / कुतः ? सामान्यप्रकाराकानिर्णयस्य सामान्यप्रकाराकासंशयविरोधित्वम्, न तु विशेषप्रकारकसंशयविरोधित्वम् / इदं दृष्टान्तेऽयं पर्वतो वह्निमान् न वेति संशये दृष्टम् / प्रकृते तु वैषम्यम् / कथम् ? विशेषप्रकारकनिर्णयस्य सामान्यप्रकारकसंशयविरोधित्वं नास्ति। धूमवत्वावच्छेदेन वह्निनिर्णये जातेऽपि पर्वतत्वेन प्रकारेण वह्रिसंशयास्य] जायमानत्वात् / विशेषप्रकारकनिर्णयस्य सामान्यप्रकारकसंशयविरोधित्वं कथमित्यत आह - तथा सतीति / तथा च एतत्पर्वतत्वरूपविशेषप्रकारेण वह्निनिश्चये पर्वतत्वसामान्यप्रकारकसंशयप्रसङ्गात् / तस्माद् विशेषरूपेण घटत्वेन प्रकारेणेतरभेदनिर्णये जाते सति पृथिवीत्वरूपसामान्यप्रकारेण संशयो नभवत्येवेतिभावः / ननु विशेषरूपेण निर्णये जातेऽपि सामान्यप्रकारकसंशये किं बाधकम् ? न च एतत्पर्वतत्वेन वह्निनिर्णये पर्वतत्वेन रूपेण वह्रिसंशयप्रसङ्ग इति वाच्यम् / पर्वतत्वरूपसामान्यप्रकारकोपस्थितौ [95 A] विशेषग्राहिका सामग्री एतत्त्वस्य ग्राहिका या सामग्री एतत्समावेशात् एतत्त्वमपि भासते इति कृत्वा न पर्वतत्वेन