SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ 194 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका बाधकमाह - धूमवत्त्वेनेति। तथा च यावद्वस्तु धूमवत् तावद्वस्तु वह्रिमत् इत्यत्र यद्यपि पर्वतत्वेन रूपेण पर्वते वह्निनिश्चयो नास्ति तथापि यावद्भूमवत् तावद्वह्निमत् इति निश्चये धूमवत्त्वेन प्रकारेण पर्वते वह्निनिश्चयसत्त्वात् किं बहुना वझिमत्त्वसामान्यलक्षणया प्रत्यासत्त्या वह्निमत्त्वेन रूपेण पर्वतेऽपि वहिनिश्चयात् पर्वतो वह्निमान् इत्यनुमितिर्न स्यात्। तथा चपक्षे सिद्धसाधनमात्रंदूषणं किन्तुपक्षतावच्छेदकसामानाधिकरण्येन (नासाध्यप्रसिद्धिर्दूषणम्, ततः प्रकृते किमागतमित्यतआह- तस्मादिति। तथाचप्रकृते पृथिवी इतरभिन्ना इत्यत्रपक्षतावच्छेदकसामानाधिकरण्येन तदसिद्धेरितरभेदासिद्धेनॊक्तदोषोन सिद्धसाधनमित्यर्थः। अत्राशङ्कते- नन्विति। तथा चपृथिवी इतरभिन्ना इत्यत्र पक्षतावच्छेदकं तदपि घटे वर्तते। इतरभेदोऽपि घटे प्रसिद्धः प्रत्यक्षेण यथा घटो न जलादिकम् / ततो घटे पृथिवीरूपपक्षतावच्छेदकसामानाधिकरण्येनेतरभेदस्यसाध्यस्य सिद्धेः सिद्धसाधनंभवत्येवेत्याशङ्कार्थः। समाधत्ते - सर्वेति। तथा च पृथिवीत्वमात्रं न पक्षतावच्छेदकं किन्तु सर्वपृथिवीत्वं विशिष्टमेव / घटे साध्यस्य सिद्धावपि सर्वपृथिवीत्वरूपपक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेर्घटादावपि अधिकरणेऽजातत्वेन सिद्धसाधनप्रसङ्गो नेत्यर्थः / न पृथिवीत्वमात्रं पक्षतावच्छेदकं किन्तु सर्वपृथिवीत्वमित्यत्र मूलकारसङ्गतिमाह - तदिदमिति टीका। घटादाविति शेषः। उपाध्यायोक्तेप्रथमपक्षे यत्रसमूहालम्बनरूपासाध्यसिद्धिरुद्देश्या तत्रपक्षतावच्छेदकनानात्वेऽपिक्वचित्पक्षे साध्यसिद्ध्यानांशतः सिद्धसाधनंनवासम्पूर्ण सिद्धसाधनम् उद्देश्यसिद्धेः घटादावेवाजातत्वात् इत्यनेष्टापत्तिरेवेत्याह - तदिति टीका / ननु तर्हि पक्षतावच्छेदकनानात्वेऽपि सिद्धसाधनं न दोषो न वा पक्षतावच्छेदकैक्येऽपि, तदा अंशतः सिद्धसाधनं कुत्र दोष इत्यत आह - सिषाधयिषेति। अयमर्थः - [94 B] यदा सर्वेषु पर्वतेषु पर्वतत्वरूपपक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धिर्जाता पुनर्यत्र पर्वतत्वेन रूपेण चि(चै)त्रस्य पर्वते एव मम वह्नयनुमितिर्भवतु एतादृशी या सिषाधयिषा तया कृत्वा पक्षतावच्छेदकसामानाधिकरण्येन या साध्यसिद्धिरुद्देश्या सा सिषाधयिषिते पक्षे एव साध्यप्रसिद्धिर्जायते न तु तदितरस्मिन् पर्वतान्तरे, तत्र पर्वतत्वरूपपक्षतावच्छेदकैक्येऽपि अंशतः सिद्धसाधनस्य प्रतिबन्धकत्वात् नानुमितिः / सोंऽशतः सिद्धसाधनस्य विषयः। तथाचपृथिवीइतरभिन्ना इत्यत्रन सिषाधयिषयाकाञ्चित् पक्षव्यक्तिमादायानुमानं येन अंशतः सिद्धसाधने दूषणं स्यादित्यर्थः। नचघटः कथं पक्षः साध्यनिश्चयेन संशय-सिषाधयिषयोरभावादिति वाच्यम्। सर्वा पृथिवी इतरभिन्नान वेति संशयस्य तत्प्रकारकसिषाधयिषायाश्च सामान्यतो घटविषयत्वात् घटत्वेन विशेषदर्शनं सिद्धिर्वा अतस्तेनरूपेण संशय-सिषाधयिषेनस्तः पृथिवीत्वेन ते भवतः एव धूमवान् वह्निमान् इति धूमवत्त्वेन वह्निनिश्चयेऽपि पर्वते वह्निसंशयवत् / यद्वासर्वत्वेन रूपेणनपक्षतासर्वत्राविप्रतिपत्तेः घटायेकदेशेइतरभेदस्य प्रत्यक्षसिद्धत्वात्
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy