________________ 193 केवलव्यतिरेक्यनुमाननिरूपणम् इतरेभ्यो भिद्यते इत्यत्र सर्वपक्षव्यक्तिषु साध्यसिद्धिरुद्देश्या किं वा क्वचित् पक्षे साध्यसिद्धिरुद्देश्या ? यदि आद्यस्तत्राह - सर्वपक्षेति टीका / समूहालम्बनरूपा सर्वेषु पक्षेषु या साध्यसिद्धिः सैवोद्देश्या / परं क्वचित् पक्षे या साध्यसिद्धिः सा तूद्देश्यैव! [पक्षतावच्छेदकैक्ये] पक्षतावच्छेदकनानात्वे वा नांशतः सिद्धसाधनमित्यत्रापीति पूरणीयं जातायामपीत्यर्थः / तथा च यद्यपि पक्षे क्वचित् साध्यसिद्धिर्जाता तथापि न सिद्धसाधनमित्यर्थः / कुत इत्याह - तदंशेऽपीति टीका / सर्वपक्षांशे उद्देश्यरूपायाः समूहालम्बनसाध्यसिद्धेरजातत्वात् न सिद्धसाधनम् / यदि च क्वचित् पक्षे साध्यसिद्धिरुद्देश्या इति द्वितीयं कल्पमधिकृत्याह - यदेति टीका।समूहेति टीका। कोऽर्थः ? न समूहालम्बनरूपा सर्वपक्षव्यक्तिषु एका साध्यसिद्धिः किन्तु क्वचित्पक्षे यत्रकुत्रचित्पक्षे साध्यसिद्धिरुद्देश्या तदा पक्षतावच्छेदकैक्यं वा भवतु नानात्वं वा भवतु / तथा च क्वचित्पक्षे घटादौ साध्यसिद्धेर्जातत्वेन नांशतः सिद्धसाधनं किन्तु सम्पूर्णमेव सिद्धसाधनम् एतदेवाह - यदासमूहेति। उपसंहरति - तथा सतीति टीका। साध्यसिद्धौ समूहालम्बनरूपायाम् अथवा क्वचित्पक्षे साध्यसिद्धौ इत्युभयत्र इत्यर्थः। तदिति। पूर्ण सिद्धसाधनम् अवर्जनीयमेव / अथवा पक्षतावच्छेदकैक्ये नानात्वे वोद्देश्यसाध्यसिद्धौ तदिति सम्पूर्णमेव सिद्धसाधनमवर्जनीयमेवेत्यर्थः / एतदेवोपपादयति-पक्षतावच्छेदकैक्येति। तथा चपक्षतावच्छेदकैक्येऽपि क्वचित्पक्षे साध्यसिद्धेरुद्देश्याया जातत्वेन पक्षतावच्छेदकैक्येऽपि सम्पूर्ण सद्धसाधनम्। अयमत्र निष्कर्षः - पृथिवी इतरभिन्ना इत्यत्र सर्वापृथिवी इतरभिन्ना इत्युद्देश्यं किं वा काचित् पृथिवी इतरभिन्ना इत्युद्देश्यम् ? यदि सर्वा पृथिवी इतरभिन्ना इत्युद्देश्यं तदा अंशतो वा सम्पूर्णस्य वा सिद्धसाधनस्य प्रसङ्ग एव नास्ति। सर्वा पृथिवी इतरभिन्ना इत्युद्देश्यसिद्धरजातत्वात् पक्षतावच्छेदकनानात्वग्रहणं व्यर्थमेव। यदि क्वचित्पक्षेसाध्यसिद्धिरुद्देश्या तदा क्वचित्पक्षेघटे साध्यसिद्धेर्जातत्वेन सम्पूर्णमेव सिद्धसाधनमिति किमर्थं पक्षतावच्छेदकनानात्वग्रहणम् इत्युभयथापि ग्रहणमिति उपाध्यायाः चिन्त्यं वदन्ति / उपाध्यायमतं दूषयति - अत्र ब्रूम इति / यत् त्वयोक्तं क्वचित्पक्षे [94 A] साध्यसिद्धेर्जातत्वेन सम्पूर्ण सिद्धसाधनं पक्षतावच्छेदकनानात्वाभावेऽपि जातम् / तथा च कथं व्यतिरेक्यनुमानमिति यदुक्तं तदुक्तं सर्वत्रा(त्र) पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धिरनुमानं(न)फलं यथा पर्वतत्वसामानाधिकरण्येन / तदिति टीका। तथा च प्रकृते पृथिवीत्वसामानाधिकरण्येनानुमानफलं यथापर्वतत्वसामानाधिकरण्येन वह्रिसिद्धिरनुमानस्य फलम् / तथा प्रकृतेऽपि पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धिश्चेत् स्यात् तदा सम्पूर्ण सिद्धसाधनमेवोक्तव्यतिरेक्यनुमाने जातं नांशतः सिद्धसाधनमिति त्वदुक्तं दूषणं स्यात् परं तदेव नास्तीत्याह - पक्षतेति टीका / तादृशेति। पक्षधर्मतावच्छेदकसामानाधिकरण्येन साध्यसिद्धरित्यर्थः / तदिति टीका। तथा च प्रकृते पृथिवी इतरभिन्ना इत्यत्र पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरजातत्वेन व्यतिरेक्यनुमाने सिद्धसाधनमेव नास्तीत्यर्थः / न तुपक्षतावच्छेदकसामानाधिरण्येन साध्यसिद्धौ सिद्धसाधनम्, किन्तुपक्षे साध्यसिद्धिमात्रेण सिद्धसाधनम्, तत्तु वर्तत एव घटस्यापि पक्षत्वादित्यत आह - न हीति / तदिति सिद्धसाधनमित्यर्थः /