________________ 192 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका अन्यथा अनुमानमात्रोच्छेदात् पक्षस्य सिद्धस्यैव साध्यत्वात्। अथ मूलव्याख्या। न चेति। पृथिवी जलाद् भिद्यते, जलावृत्तिधर्मत्वात्, यत्र यत्र जलावृत्तिधर्मत्वं तत्र तत्र / जलाद् भेदः यथा तेजसि जलावृत्तिधर्म उष्णस्पर्शः / तद्वत् तेजसि जलभेदोऽपि वर्तते / तथा च पृथिवी जलादिद्वादशभिन्ना सती प्रान्ते समवायाद् भिद्यते जलाद्यवृत्तिधर्मवत्त्वात् तेजोवत् इति अन्वयव्याप्त्यैव पृथिव्यामितरभेदसिद्धौ किमर्थं व्यतिरेकीति मूलाशङ्कार्थः / समाधत्ते - जलादीति / यद्यपि जलादिभिन्ना सती समवायभिन्नेत्येतादृश्यनुमितिरन्वयिनापि संभवति / तथा युगपजलादित्रयोदशभिनेति बुद्धिर्व्यतिरेकिसाध्या। युगपदित्यस्यव्याख्यासमप्राधान्येन समुदितजलादिभेदनिश्चय इत्यर्थः।पुनर्घटे दृष्टान्तेसाध्यप्रसिद्धौ पूर्वकृतायामाशङ्कते - न चेति। सम्पूर्णपृथिव्याः पक्षत्वे तदन्तःपातित्वात् घटोऽपि पक्ष एवेति सिद्धसाधनम् / समाधत्ते - न पक्षे साध्यसिद्धिमानं प्रतिबन्धकम् / कुतः ? द्रव्यत्वेन रूपेण पर्वतीयवह्रिसिद्धौ पर्वते वह्नयनुमानमपि न स्यात् / अत उद्देशीया साध्यसिद्धिः, तदेव सिद्धसाधनं प्रतिबन्धकम्। तथा च सर्वपृथिवीत्वेन पक्षे साध्यसिद्धेरुद्देश्यत्वेन घटे साध्यसिद्धिः, तदेव सिद्धसाधनं प्रतिबन्धकम् / तथा च सर्वपृथिवीत्वेन पक्षे साध्यसिद्धेरुद्देश्यत्वेन घटे साध्यसिद्धावपि आपरमाणु-आभूगोलपर्यन्तं साध्यसिद्धेरभावात् न सिद्धसाधनम्। न हि घटमात्रे साध्यसिद्धिरुद्देश्या। यथेतरभेदो विधेयः, सतु सर्वपृथिव्यामुद्देश्यायां साध्यते। तथा च सर्वपृथिवीरूपोद्देश्ये साध्यसिद्धेरभावेनः . प्रकृते न सिद्धसाधनं दूषणमिति भावः / तर्हि अंशतः सिद्धसाधनं कुत्र दूषणमित्यत आह - पक्षेति। तत् अंशतः सिद्धसाधनं पक्षतावच्छेदकनानात्वे एव भवति / अत्रोदाहरणमाह - अनित्येति / अंचतुरविचतुरेत्यादिना वाङ्मनसेइतिनिपात्यते।अनित्येवाङ्मनसे शरीरसम्बन्धित्वात्प्राणवत् इत्यत्रवाक्त्वावच्छेदेन मनस्त्वावच्छेदेन वाऽनित्यत्वबुद्धेरुद्देश्यतया वाक्त्वावच्छेदेन वाऽनित्यबुद्धेः सिद्धत्वात्मनस्त्वावच्छेदेनानित्यत्वबुद्धेरसिद्धत्वात् एकस्य सिद्धत्वमन्यस्यासिद्धत्वमिति कृत्वा पक्षतावच्छेदकयोक्त्विमनस्त्वयोर्भिन्नत्वादनित्ये वाङ्मनसे इति अंशतः सिद्धसाधनोदाहरणं स्फुटमेव / प्रकृते तु पृथिवीत्वं घटपरमाणुसाधारणमेकमेव पक्षतावच्छेदकम्, अतो नांशतः सिद्धसाधनम् / अन्यथेति / यदि अनुमितिविषयेषु पक्षसाध्यपक्षतावच्छेदकसाध्यतावच्छेदकेषु मध्ये एकस्य विषयस्य सिद्ध्या [93 B] सिद्धसाधनं दोषः स्यात् तदा अनुमानमात्रोच्छेदः स्यात् पर्वतो वह्निमान् इत्यत्रापि पर्वतस्य सिद्धसाधनत्वात् / साध्यतावच्छेदकवह्नित्वस्यापि सिद्धत्वादनुमानमात्रोच्छेदप्रसङ्गः / साध्यत्वादिति अनुमितिविषयत्वादित्यर्थः / यथाश्रुते पर्वतस्य साध्यत्वाभावादसम्भव इत्यन्यथा व्याख्यातम् / इतिपर्यन्तं टीकात्यक्तं मूलं व्यख्यातम् / मूलकारेणोक्तम् - अक्षतावच्छेदकनानात्व एव सिद्धसाधनं दोष इति / तत्र उपाध्यायेन दूषणं दीयते - पक्षतावच्छेदकेति टीका / पक्षतावच्छेदकैक्यं नानात्वं वा अंशतः सिद्धसाधनेऽप्रयोजकं किन्तूद्देश्यसिद्धयसिद्धिभ्यामेव सिद्धसाधनतदभावौ भवतः / तथा च प्रकृते पृथिवी