________________ केवलव्यतिरेक्यनुमाननिरूपणम् 191 समाधत्ते - आकाशेति / तथा च घटो यदि आकाशात्मा स्यात् तदा आकाशवत् उपलभ्येत इदमापादनं कर्तुं शक्यते एव / कुतः ? आकाशघटयोरभेदे घटत्वं यथा नित्यं सदनेकसमवेतं सत् जातिस्तद्वत् आकाशत्वमपि नित्यमनेकसमवेतं सजातिर्भवत्येवेत्यागतम् / तथा च घटो यदि आकाशात्मा स्यात् तदा आकाशघटयोरभेदे सति यथा घटत्वं जातिः तद्वत् आकाशत्वमपि नित्यं सदनेकसमवेतं जातिः स्यादिति आकाशत्वस्य जातित्वापादनम्, ततो जातित्वापादने कृते या योग्यव्यक्तिर्जातिः सा योग्यैवेति कृत्वा आकाशत्वस्य घटे उपलम्भापादनं कर्तुं शक्यते एवेति / आकाशान्योन्याभावोऽपि घटे प्रत्यक्ष इति / नन्वाकाशत्वस्य कथं जातित्वापादनम् ? आकाशत्वं हि शब्दाश्रयत्वम्, तच्च सखण्डम्, तत्कथं जातिरूपं सम्भवतीति ? अतः आह - न हीति / तथा आकाशत्वस्याखण्डरूपजातित्वे एकव्यक्तिसमवेतत्वमेव बाधकम् / आकाशत्वस्य घटवृत्तित्वे एकव्यक्तिकत्वं यद् बाधकं तद्गतमेव / तथा चैकव्यक्तिकत्वरूपबाधकाभावे कथमाकाशत्वस्य शब्दाश्रयत्वरूपं सखण्डोपाधित्वं किन्तु अखण्डं जातिरेवेत्यर्थः / तथा च यदि आकाशघटयोरभेदस्तथा यथा घटत्वं जातिस्तथा आकाशत्वमपि जातिः, ततस्तदपि घटत्वतुल्या जातिरित्यर्थः / शङ्कते - यद्यपीति टीका। घटेआकाशतादात्म्यं स्यात् तदाआकाशत्वमपि जातिः स्यात्, एकव्यक्तिकत्वरूपं यद्बाधकंतद्घटवृत्तित्वेनैव गतं तथाऽत्रसामान्यादिकं नास्ति। कथम् ? घटो यदि सामान्यं विशेषः समवायो वास्यात् तदा सामान्यवत्तयोपलभ्येत इति वक्तुं न शक्यते सामान्यत्वस्य समवेतत्वाभावात् जातौ जातेरनङ्गीकारात् / नापि विशेषत्वं तस्यापि समवेतत्वाभावात् समवायत्वस्यापि / तथा च सामान्यत्वादेर्जातित्वाभावात् कथं तदुपलम्भापादनं योग्यव्यक्तीत्याद्यभावात् / तथा च सामान्यविशेषसमवायान्योन्याभावः [93 A] कथं प्रत्यक्ष इत्याशङ्कार्थः / समाधत्ते - तथापीति। तथा च घटो यदि सामान्यः स्यात् तदा यदेव घटतादात्म्यं तदेव सामान्यतादात्म्यम्, ततो घटव्यक्तिवृत्तित्वेनैव तदुपलम्भः स्यात्, तथा च सामान्ये घटादिव्यक्तिवृत्तित्वं सामान्यतादात्म्यमुपलभ्येत इत्यापादनं कर्तुं शक्यते एवेति। तथा चसामान्यविशेषसमवायतादात्म्येषु घटादिव्यक्तिवृत्तित्वेनैव घटतादात्म्यत्व(त्वात्) तदुपलम्भापादनं कर्तुं शक्यत एवेत्यर्थः / ततः सामान्याद्यन्योन्याभावः प्रत्यक्षसिद्ध इति सिद्धम् / नचपृथिवीजला द्भिद्यतेजलावृत्तिधर्मवत्त्वात् तेजोवत् एवमन्येभ्योऽपिभेदसिद्धौ द्वादशभिन्नेति विशेषणं दत्त्वा समवायभेदसाधनादन्वयिन एव पृथिव्यां त्रयोदशभेदसिद्धिरिति किंव्यतिरेकिणेतिवाच्यम्।जलादिभिन्नासतीसमवायभिन्नेति बुद्धवपि त्रयोदशभिन्नेति बुद्धेर्व्यतिरेकिसाध्यत्वात्।नचघटस्यापिपक्षत्वादंशत: सिद्धसाधनम्, सर्वा पृथिवी इतरभिन्ना इत्युद्देश्यप्रतीतेरभावात्, पक्षतावच्छेदकनानात्वे हि तत्, अत एवानित्येवाङ्मनसे इत्यत्रानित्यावागिति बुद्धेरुद्देश्याया: सिद्धत्वादंशतः सिद्धसाधनम्,