________________ 190 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका [वा] तिष्ठति तत्र प्रतियोगिसत्त्वमप्रसिद्धं तथा चाभावाधिकरणे प्रतियोगिसत्त्वविरोधिनी या उपलब्धिस्तन्निर्वचनं कथं स्यादित्यर्थः / अधिकरणेति मूलम् / तथा च वह्निधूमोभयवति यथा वह्नयभावे धूमो न स्यादिति यथा तर्करूपमापादनं तद्वत् प्रतियोग्यभाववति प्रतियोगिसत्त्वमापादनरूपं भवत्येवेत्यर्थः / ननु यदीति मूलमसङ्गतम् / स्तम्भो यदि पिशाचः स्यात् तदास्तम्भवत् उपलभ्येत इत्यत्र तर्के पिशाचस्यातीन्द्रियत्वात् नोपलब्धिः स्तम्भस्य तु प्रत्यक्षत्वात् उपलब्धिः इति स्तम्भवत् इति दृष्टान्तो न सङ्गच्छते इत्यन्यथा व्याचष्टे - स्तम्भो यदीति / पिशाचात्मतया पिशाचत्ववत्तया उपलभ्येत / एतदर्थे व्याप्तिमाह - यो यदात्मतयेति। यो यदात्मा यत्स्वरूपः स तदात्मतया प्रमाविषयः यथा घटो घंटात्मा घटात्मतया प्रमाविषयः न तु स्तम्भः पिशाचात्मा पिशाचात्मतया प्रमाविषयः इत्यत्र दृष्टान्ताभावः तथा च कथं व्याप्तिस्तत्रेत्यत आह - विशिष्येति। विशेषाकारेण या व्याप्तिर्यथा यत्र यत्र पिशाचात्मत्वं तत्र तत्र पिशाचात्मतया प्रमाविषयत्वं यथा पिशाचे / यद्यपि पिशाचस्य प्रत्यक्षं नास्ति तथाप्यानुमानिकी प्रमा भवत्येव तोतिभावः। अत्रान्योक्तं दूषणं निराचष्टे - एतेनेति। ततः पिशाचवत् उपलभ्येत इत्यत्र उपलम्भपरम्, यदिप्रत्यक्षपरं तदा व्याप्त्यसिद्धिः।कथम् ? यत्र यत्रपिशाचात्मत्वं तत्र तत्र पिशाचात्मतया प्रत्यक्षत्वमप्रसिद्धम्, तथा चपिशाचस्यातीन्द्रियत्वात् पिशाचात्मतयाप्रत्यक्षत्वं नास्त्येव, अतो व्याप्तिरसिद्धा / यदि उपलम्भपदं ज्ञानमात्रपरं तदा तर्के इष्टापादनम्, स्तम्भस्यापि पिशाचात्मतया ज्ञानं भ्रमरूपं भवत्येवेति। तथा चोपलम्भस्य विद्यमानत्वात् उपलम्भापादनं कर्तुं न युज्यते इति दूषणं केनापि दत्तं तत् परास्तम् / यतो मया प्रत्यक्षोपलम्भपदं परित्यज्य प्रमापदं दत्तम् / स्तम्भ इति टीका / यदि स्तम्भे पिशाचतादात्म्यं स्यात् स्तम्भतादात्म्यमिवोपलभ्येत यतः स्तम्भे यत्तादात्म्यं तदुपलभ्यते एव यथा स्तम्भे रूपवत्तादात्म्यम् / एतावता स्तम्भे यदि पिशाचतादात्म्यं स्यात् तदास्तम्भतादात्म्यवत् उपलभ्येत।स्तम्भतादात्म्यं रूपवत्तादात्म्ये प्रसिद्धमस्ति इति कृत्वा तदापादनं कर्तुं शक्यते / अतः पिशाचान्योन्याभावः स्तम्भे प्रत्यक्ष एवेत्याहुः / तथा चैतावता प्रबन्धेनातीन्द्रियान्योन्याभावो (वे) [92 B] योग्यानुपलब्धिरस्ति, अतीन्द्रियात्यन्ताभावस्थले नास्तीत्युक्तं भवति। अत्राशङ्कते - नन्विति। त्वयोक्तं यदि घटे मनस्तादात्म्यं स्यात् तदा मनस्त्ववत्तयोपलभ्येत इत्युपलम्भापादनं कर्तुं शक्यते इति कृत्वा मनोऽन्योन्याभावग्रहे योग्यानुपलब्धिरस्ति / अतो मनोऽन्योन्याभावो घटे भवतु प्रत्यक्षः परं घंटेआकाशान्योन्याभावस्तु कथं प्रत्यक्षः कुतः ? घटे यदिआकाशतादात्म्यं स्यात् तदा आकाशत्ववत्तयोपलभ्येत इति वक्तुं न शक्यते, आकाशत्वस्य जातित्वाभावेनेष्टापादनासम्भवात् / तथा च योग्यव्यक्तिवृत्तिजातेर्योग्यत्वमे(मि)ति वक्तुं न शक्यते आकाशत्वस्य जातित्वाभावात् / आकाशतादात्म्यमाकाशत्वं शब्दाश्रयत्वमुपाधिरेव। तथा च घटे यदि आकाशतादात्म्यं स्यात् तदा घटत्ववत् उपलभ्येत इति वक्तुं न शक्यते शब्दाश्रयत्वस्य जातित्वाभावात् तदुपलम्भ आपादयितुं न शक्यते / योग्यव्यक्तीत्यनेनेति घटे कथमाकाशान्योन्याभावःप्रत्यक्षः ?, मनोऽन्योन्याभावस्तु प्रत्यक्षः सङ्गच्छते घटेमनस्त्वस्य जातिमत्त्वादित्याशङ्कार्थः /