________________ केवलव्यतिरेक्यनुमाननिरूपणम् 189 कृत्वोपलम्भापादनं कर्तुं शक्यते, अतोऽतीन्द्रियान्योन्याभावः प्रत्यक्षः अतीन्द्रियात्यन्ता]भावस्तुनप्रत्यक्षः तत्र बीजमुपा(प)लम्भापादना]भावः [उपलम्भापादन] कर्तुं न शक्यत एवेति / अयमत्र सङ्ग्रहः - जलादित्रयोदशान्योन्याभावा घटे प्रत्यक्षा एवेति सिद्धान्तः / तद्विषयत्वेनेति टीका / तर्कितेना]त्पा(पा)दनमानुपलम्भविषयत्वेनेत्यर्थः / तथा च तादृशानुपलब्धिविषयो योऽभावः स एव योग्य इति भावः / ननु घटे. मनोऽन्योन्याभावः प्रत्यक्षोभवतुन तुमनस्त्वात्यन्ताभावः। कथम् ? यदिघटो मनःस्वरूपं स्यात् तदा मनःस्वरूपं प्रतियोगि मनस्त्वं तु जातिः प्रतियोगितावच्छेदकम् / तथा च घटो यदि मनःस्वरूपो जातस्तदा योग्यव्यक्तिवृत्तिर्जातिर्योग्यैवेति कृत्वा मनस्त्ववत्तया मनोऽभिन्नत्वेन घटाभिन्नत्वेन मन उपलभ्येत इति वक्तुं शक्यते / मनस्त्वात्यन्ताभावस्थले योग्यानुपलब्धिर्नास्ति / कुतः ? घटे यदि मनस्त्वं स्यात् तदा मनस्त्वं तादावत्तया मनस्त्वमुपलभ्येतेति वक्तुंनशाक्यातेमनस्त्वस्यातीन्द्रियत्वात् नापियोग्यव्यक्तीत्यपि वक्तुं शक्यते अभेदापादनाभावात् इत्यस्वरसात् मनोऽन्योन्याभावो हि भवतु प्रत्यक्षो न तु मनस्त्वात्यन्ताभावः प्रत्यक्ष इत्यत आह - अन्ये(न्य)त्वेति टीका। योग्यानुपलब्धिस्वरूपं विवृणोति।नहीति।मूले यो हीतिय विशेषणं दत्तं वर्तते तस्येदं विवरणम् / तादृशेति टीका।अधिकरणे प्रतियोग्यनुपलम्भमात्रम् अभावग्राहकमिति न हि। कुतः ? बाधकमाह - प्रतियोगीति टीका / यदा घटाभाववति भूतले घटस्मरणं नास्ति तदा घटानुपलम्भे विद्यमानेऽप्यभावग्रहो न जायते इत्यर्थः। तर्हि का दृश्यानुपलब्धिरभावग्राहिका इत्यत आह -किन्त्विति।अभावग्रहणे यावन्तिकारणानि वर्तन्ते तत्सद्भावे सति योग्यमभावं ग्राहयति सा योग्यानुपलब्धिः। सत्यन्तं तु घटस्मरणं नास्ति तदा घटानुपलम्भे विद्यमानेऽपि घटाभावो न गृह्यते इति सत्यन्तं सार्थकम् / ततः प्रकृतेऽपि मि(इ)त्यत आह - मनस्त्वेति / मनस्त्वात्यन्ताभावस्तु न प्रत्यक्षः, अत्यन्ताभावग्राहिका प्रतियोगियोग्यता तत्र तन्त्रम्, सा च नास्ति मनस .अयोग्यत्वात् / एतदेवाह - योग्येति / स इति मनस्त्वात्यन्ताभाव इत्यर्थः / ननु तर्हि प्रतियोगियोग्यता अन्योन्याभावग्रहेऽपि प्रयोजिकाऽस्तु / तथा च पीतघटाधिकरणे नीलरूपवदन्योन्याभाववत् वायावधिकरणे रूपवदन्योन्याभावस्यापि प्रत्यक्षता स्यात्, प्रतियोगी रूपवान् घटादिः तद(द्)योग्यताया विद्यमानत्वात् इत्यत आह - रूपवदिति। वायावधिकरणे रूपवदन्योन्याभावो न प्रत्यक्षः / कुत इत्यत आह - अधिकरणेति। तथा चअन्योन्याभावग्रहे अधिकरणयोग्यताया एव तन्त्रत्वम् / यत्रान्योन्याभावः [92 A] प्रत्यक्षस्तस्याधिकरणस्यापि योग्यता तन्त्रम्। अत एवेति टीका।अधिकरणे संसर्गाभावग्रहे प्रतियोगियोग्यता अधिकरणयोग्यता तन्त्रम्। तथा च वायो रूपवदन्योन्याभावो न प्रत्यक्ष इति सिद्धम्। नन्वत्र किं विनिगमकमित्यत आह - अन्तयोश्चेति टीका। मनस्त्वात्यन्ताभावः प्रत्यक्षोऽप्रत्यक्षो वा इत्यत्रानुभव एव विनिगमक इत्यर्थः / न त्विति टीका।ऐन्द्रियकस्येति टीका / प्रत्यक्षस्यानुपलब्धिस्तन्त्रंन भवति। अन्यथा जलपरमाणौ पृथिवीत्वाभावः प्रत्यक्षः स्यादित्यर्थः / ततो हि प्रत्यक्षानुपलब्धिमानं न तन्त्रम् / नन्विति टीका / तथा च यत्राधिकरणेऽभावोऽत्यन्ताभावोऽन्योन्याभावो