________________ 188 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका सत्त्वेनोपलम्भ आपादयितुं न शक्यते। घटग्राहकालोकरूपसामा यभावात्। अतो यादशेन तर्कितेन प्रतियोगिसत्त्वेनोपलम्भ आपादयितुं शक्यते तादृशानुपलब्धिः योग्यानुपलब्धिः, सा च अन्धकारे यादृशमध्ये प्रविष्टा आलोकरूपा सामग्री सा च नास्तीति कृत्वा न तत्र योग्यानुपलब्धिः / अतो यादृशपदं दत्तम् / य(न) त्विति मूलम्। न तु योग्यानुपलब्धिमात्रं प्रत्यक्षस्य प्रतियोगिनः अनुपलब्धिमात्रम् / अत्र बाधकमाह - अन्यथेति। यदि प्रत्यक्षस्य प्रतियोगिनः अनुपलब्धिमात्रमभावग्राहकं तदा यथा वायौ उद्भूतरूपाभावप्रतीतिर्जायते उद्भूतरूपस्य / प्रतियोगिनः स्थलान्तरे प्रत्यक्षत्वात् तद्वत् पृथिवीत्वस्य घटादावपि प्रत्यक्षत्वात् जलपरमाणौ पृथिवीत्वस्यानुपलब्धिमात्रेण तत्रपृथिवीत्वात्यन्ताभावप्रत्यक्षत्वापत्तिरित्यर्थः / प्रतियोगीति टीका।नत्व(नन्व)तीन्द्रियस्य मनःप्रभृतेरन्योन्याभावः प्रत्यक्षो यतो मूलकारोक्तयोग्यानुपलब्धेस्तत्र सत्त्वात् / कथम् ? यथा प्रतियोगिनो मनोऽभेदलक्षणस्य सत्त्वेन प्रतियोग्युपलम्भ आपादयितुं शक्यते। कथम् ? यदि घटो मनसोऽभिन्नः स्यात् तदा घटत्ववत् मनस्त्ववत्तयाप्युपलभ्येतयोग्यव्यक्तिवृत्तिजातेर्योग्यत्वात्। घटव्यक्तियो (यो)ग्या सा व्यक्तिर्मनसा सह यदिअभिन्ना तदा मनस्त्वं घटत्ववत्घटवृत्ति एवजातम्, ततोयथाघटत्वं घटे उपलभ्यते तथा मनस्त्वमप्युपलभ्येत इतितर्किताभेदलक्षणप्रतियोगिसत्त्वेनोपलम्भआपादयितुं शक्यतएवेतियथा मनोऽन्योन्याभावोघटेप्रत्यक्षस्तर्हि मनस्त्वात्यन्ताभावोऽपि घटे प्रत्यक्षः स्यात् / तत्रापि घटे मनस्त्वात्यन्ताभावग्राहिका योग्यानुपलब्धिर्वर्तत एव। कथम् ? यदि घटे मनस्त्वजातिः स्यात् तदा घटत्ववदुपलभ्येत योग्यव्यक्तिवृत्तिजातेोग्यत्वनियमादित्यत आह - एवमिति टीका। तथा मनस्त्वात्यन्ताभावोऽपि घटे प्रत्यक्ष इतीष्टापत्तिरित्यर्थः / यो ह्यनुपलम्भ इत्युक्त्वा योग्या चासौ अनुपलब्धिश्चेति / योग्यत्वं प्रतियोगिनि नान्वेति किन्तु अनुपलम्भ एवेति / तदेव यो ह्यनुपलम्भ इति वदता मूलकृतोक्तम् / एतच्च घटे मनस्त्वात्यन्ताभावग्रहकाले योग्यानुपलब्धिस्वरूपं वर्तते इति कृत्वा सोऽत्यन्ताभावः प्रत्यक्ष एव / तथा च घटादौ अधिकरणे यावन्तोऽतीन्द्रियप्रतियोगिकान्योन्याभावास्ते सर्वेऽपि प्रत्यक्षा एव / तथा च पिशाचान्योन्याभावोऽपि घटे स्तम्भे वा प्रत्यक्ष एव / अतीन्द्रियात्यन्ताभावस्तु घटादौ न प्रत्यक्षः / कथम् ? तत्र योग्यानुपलब्धिर्नास्ति। घटे यदि आकाश: परमाणुर्वा स्यात् तदा उपलभ्येत इति वक्तुं न शक्यते आकाशपरमाण्वोरतीन्द्रियत्वात्।नच तयोरन्योन्याभावोऽप्यप्रत्यक्षः स्यात् अतीन्द्रियप्रतियोगिकत्वादिति वाच्यम् / आकाशपरमाण्वादीनामत्यन्ताभावापेक्षया [91 B] अन्योन्याभावग्राहकानुपलब्धेरयमेव विशेषः यथातीन्द्रियात्यन्ताभावे प्रतियोग्युपलम्भापादकसाधकं किमपि नास्ति। कथम् ? घटे यदि आकाशः स्यात् तदा उपलभ्येत इति वक्तुं न शक्यते आकाशस्यातीन्द्रियत्वात्। अतीन्द्रियान्योन्याभावस्थले घटो यदि आकाशात्मा स्यात् तदा घटो यथा उद्भूतरूपत्वात् प्रत्यक्षः तद्वत् आकाशोऽपि प्रत्यक्षः स्यात् योग्यव्यक्तिवृत्तिया(जा)तेयोर्यो)ग्यत्वात् / कथम् ? घटो यदि आकाशात्मा जातः तदा आकाशत्वमपि घटवृत्ति जातम् / तथा च योग्यव्यक्तिवृत्तिजातेोग्येवे(ग्यते)ति आकाशत्वमपि घटे प्रत्यक्षमित्याकाशत्वमप्युपलभ्येत घटे इति