________________ केवलव्यतिरेक्यनुमाननिरूपणम् 187 पिशाचो न भवतीति पिशाचान्योन्याभावोऽपि प्रत्यक्षो न स्यादित्यत आह - नयनेति / बाधकबलेनेति / योग्यानुपलब्धेरभावग्राहकत्वं घटात्यन्ताभावग्रहेअन्वयव्यतिरेकाभ्यां सिद्धमस्ति ।यथा घटः प्रत्यक्षो वर्तते इति कृत्वा तद्ग्राहिकायां सामर यां सत्यामपि घटो यदि नोपलभ्यते तदा घटो नास्तीति प्रतीतिर्भवति / तथा च योग्यानुपलब्धिरेवाभावग्राहिका दृष्टाऽस्ति तथा प्रकृते पिशाचस्यातीन्द्रियत्वेन तत्प्रत्यक्षसामग्री नास्तीति तत्र योग्यानुपलब्धिर्नास्ति। अत्रैवानुकूलं दृष्टान्तमाह - वायुरिति। यथा द्रव्यप्रत्यक्षत्वे उद्भूतरूपवत्त्वं प्रयोजकम्, तच्च वायौ नास्ति, अतो वायोः प्रत्यक्षत्वप्रयोजकं नास्ति / अथ वायुति इति प्रत्यक्षप्रतीतिर्दृश्यते, सा प्रतीतिर्बाधकं यत्प्रत्यक्षत्वप्रयोजकोद्भूतरूपवत्त्वाभावस्तद्बलेनानुमानिक्येव अनुमानरूपो यः स्पर्शस्तद्ग्रहेणोपक्षीणावायुत्वानुमापकस्पर्शग्रहविषयिणीत्यर्थः। तथा चस्पर्शः प्रत्यक्षस्तत्रवायोरनुमानम्, तद्वदियमपि प्रतीतिः स्तम्भः पिशाचो न भवतीति प्रतीतिरपि लिङ्गग्रहोपक्षीणा तथा चायं पिशाचाद् भिद्यते चक्रकोटरादिमत्त्वात् अत्र चक्रकोटरत्वेन पिशाचभेदोऽनुमीयते, ततोऽयमन्योन्याभावः प्रत्यक्षो न भवति किन्तु आनुमानिक एवेति। तथा घटे आकाशादीनामतीन्द्रियत्वात् कथमाकाशादिभेदो घटे प्रत्यक्ष इतिमूले आशङ्कार्थः / ऐन्द्रियकस्येति टीका। प्रत्यक्षस्येत्यर्थः / तथा च कुत्रचित् प्रतियोगिनः प्रत्यक्षस्योपस्थितिर्वक्तव्या सा च नास्तीति कृत्वा योग्यानुपलब्धिर्नास्तीति टीकार्थः / तेन यथाश्रुते सिद्धान्तेनोक्ता योग्या चासौ अनुपलब्धिश्चेति योग्यानुपलब्धिः सा च वर्तते एवेति कर्मधारयं त्यक्त्वा तत्पुरुषष्टीकाकृता व्याख्यात इति ध्येयम्। यो ह्यनुपलम्भोऽधिकरणे प्रतियोगिमत्त्वविरोधी सोऽभावं ग्राहयति न तु योग्यानुपलब्धिमात्रम् अन्यथा वायौ रूपाभावप्रतीतिवत् जलपरमाणौ पृथिवीत्वाभाव ग्रहप्रसङ्गात् अधिकरणे प्रतियोगिसत्त्वं च तर्कितं यदि हि स्तम्भः पिशाच: स्यात् .. स्तम्भवत् उपलभ्येत न पिशाचानुपलम्भः स्यात् / यो हीति मूलम् / अयमर्थः तर्कितप्रतियोगिसत्त्वप्रसञ्जितप्रतियोगिकानुपलब्धिरेतस्यायमर्थः / येन प्रतियोगिसत्त्वेन तर्कितेन प्रतियोग्युपलम्भआपादयितुं शक्यते तादृशप्रतियोगिनो याऽनुपलब्धिः सायोग्यानुपलब्धिः / यथा चक्षुर्भूतलसंयोगो वर्तते आलोकादिकं च वर्तते अथ च घटस्मरणमपि विशेषणज्ञानं वर्तते; तत्र भूतले यदि अत्र घटः स्यात् तदा भूतलवत् उपलभ्येत, नोपलभ्यते, तस्मात् घटो नास्तीति प्रतियोगिसत्त्वं तर्कितम्, तेन तर्कितेन प्रतियोगिसत्त्वेन उपलभ्येत इत्युपा(प)लम्भापादनम् / अत एव तर्कितप्रतियोगिसत्त्वस्य उपलम्भस्य च व्याप्तिः। यथा तत्र तादृशभूतलेन्द्रियसामग्रीसमवधानकालेप्रतियोगिसत्त्वंतत्र उपलम्भो [91A] भूतलाधिकरणकं घटदर्शनम् / व्यावृत्तिर्यथा प्रतियोगिसत्त्वेनोपलम्भ आपादयितुं न शक्यते / घटाभाववत्यपि भूतले तर्कितेन प्रतियोगिसत्त्वेनोपलम्भ आपादयितुं न शक्यते। कुतः ? अन्धकारे घटाभाववत्यपि भूतले तर्कितेन प्रतियोगि