________________ 186 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका मध्यस्थस्येत्यत आह - आकाङ्गादिमत इति / तथा चाकाङ्क्षायोग्यतासन्निधिसहितात् वाक्यात् अन्वयबोधो भवत्येव।ननुआकाङ्गादिमत्त्वमपिवाक्यस्य कुतोभवतीत्यत आह - अपूर्वेति।अपूर्वत्वं तु विधेयान्वयबोधकत्वम् / अत एव गौरश्वः पुरुषो हस्तीत्यादौ क्रियाऽभावात् विधेयार्थबोधकत्वं नास्तीति भावः / तथा चैतस्मादेव वाक्यादेव साध्यप्रसिद्धिर्जाता इतरभेदरूपज्ञानं जातमिति जीर्णमतम् / एतद् दूषयति - अपास्तमिति / वाक्यादिति मूलम् / तथा च पृथिवी इतरभिनेति वाक्यादेव यदि पृथिव्यामितरभेदः सिद्धस्तदा व्यतिरेक्यनुमानं किमर्थम् ?, साध्यप्रसिद्धेर्वाक्यादेव जातत्वात् / शङ्कते - न चेति मूलम् / तथा च पृथिवी इतरभिन्नेति वाक्यात् यद्यपि पृथिव्यामितरभेदो ज्ञातस्तथापि तस्मिन् पृथिवी इतरभिन्नेति अनाप्तो यो वादी तद्वाक्यजन्यत्वेनाप्रामाण्यशङ्काऽस्त्येव यथा इदं मे ज्ञानं जातं प्रमान वा। तथा चप्रामाण्यसंशयानन्तरं ज्ञाने प्रामाण्यसंशयात् पृथिवी इतरभिन्ना न वेति सशयो जायते, ततो हि संशयरूपसाध्यप्रसिद्धावपि इतरभेदनिश्चयार्थं व्यतिरेक्यनुमानमित्या-. शङ्कार्थः / विषय इति मूलम् / पृथिवी इतरभिन्ना न वेति इतरभेदरूपे विषये सन्देह इत्यर्थः / दूषयति - न हीति / वादिवाक्यात्पृथिवीइतरभिन्नेत्येवेति निश्चयस्तुन तिष्ठत्येव किन्तुसंशयः, तथा चसंशयरूपासाध्यप्रसिद्धिस्त्वङ्गमेवनभवति यतः साध्यसन्देहे साध्याभावस्यैवसन्देहस्तन्निश्चये निश्चयइतिसाध्याभावानिश्चये यत्र साध्याभावस्तत्र पृथिवीत्वाभाव इति व्याप्तिनिश्चयो न भवतीति उक्तं पूर्वम् / तस्येति साध्यसन्देहस्येत्यर्थः / न व्यतिरेकेति / साध्याभावनिश्चायकत्वं नास्तीत्यर्थः / ननु यत्र पूर्वं वादिवाक्यात् पृथिवी इतरभिन्ना इति निश्चयो जातः, तदनन्तरं यत्रेतरभेदाभावस्तत्र पृथिवीत्वाभाव इत्युत्कटसामग्री व्याप्तिज्ञानेच्छारूपा, तद्वशात् यत्राप्रामाण्यसंशयोत्तरं विषयसंशयस्तत्र व्यतिरेक्यनुमानं सार्थकमेवेत्यत आह - स्वार्थमिति / यत्र च वादी नास्ति स्वयमेव यदा व्यतिरेक्यनुमानं करोति तत्र तदभावात् वादिवाक्याभावात् इत्यर्थः / तथा च तत्र स्वार्थस्थले वादिवाक्याभावात् साध्यप्रसिद्धयभावेव्यतिरेक्यवतारो नस्यादितिभावः। घटादाविति।आचार्यनीता साध्यप्रसिद्धिर्यथाघटादाविति। यथा घटो न जलं न तेज इत्यादिना त्रयोदशप्रतियोगिको भेदः प्रत्यक्षसिद्धः, तत इतरभेदः प्रसिद्धः, ततो घटे इतरभेदप्रसिद्धयनन्तरं यत्र यत्र इतरभेदाभावस्तत्र तत्र पृथिवीत्वाभावो यथा जले इति व्यतिरेकी भवत्येव / ननु त्रयोदशसु मध्ये जलं यत् प्रत्यक्षं तस्य भेदोऽपि घटे प्रत्यक्षो भवति, परमतीन्द्रियं यथाऽऽकाशादिकं तद्भेदो घटेकथं प्रत्यक्षः? कुतोऽतीन्द्रियः ? प्रतियोगिकाभावत्वात्। इत्याशङ्कते-नन्विति / परमाणुसंसर्गाभावो यथा [न] प्रत्यक्षः / यथाभूतलादौ देशान्तरस्थपरमाणोरत्यन्ताभावः सचन प्रत्यक्षः, तद्वत् घटे आकाशान्योन्याभावोऽपि न प्रत्यक्षः तथा च इतरभेद आकाशभेदो घटेऽप्रत्यक्षः तथा च घटे कथं त्रयोदशभेदः प्रत्यक्षतः प्रसिद्ध इत्युक्तमित्यर्थः / ननु आकाशस्यातीन्द्रियत्वेऽपि योग्यानुपलब्धिसहकारात् भूतलाधिकरणकघटात्यन्ताभावप्रत्यक्षवत् घटाधिकरणकाकाशाद्यन्योन्याभावोऽपि प्रत्यक्षः स्यात् इत्यत [90 B] आह - योग्येति। तथा च योग्यस्यानुपलब्धिर्योग्यानुपलब्धिः, योग्यत्वं तु स्थलान्तरे प्रत्यक्षत्वम्, तस्य पदार्थस्य याऽनुपलब्धि: तत्सहकारितयेन्द्रियेणाभावो गृह्यते / ननु प्रतियोगिनः अप्रत्यक्षत्वे यदि योग्यानुपलब्धिर्नास्ति तदा स्तम्भः