SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ केवलव्यतिरेक्यनुमाननिरूपणम् 185 इति नोक्तानुमानम् उपाध्यायकृतम् / ननु पृथिव्यां भेदभेदाभावस्य संशयरूपप्रसिद्धिर्भविष्यतीत्याशङ्कते - न चेति। दूषयति - भेदेति। तथा च भेदस्यापि अप्रसिद्धत्वात् [तदाभेदोऽप्यप्रसिद्ध एवेति भेदभेदाभावकोटिकः सन्देहोऽपि पृथिव्यां कथं स्यादित्यर्थः / न च कुत्रचिद् भेदस्य निश्चयो वर्तते / पश्चात् पृथिव्यां सन्देहो भविष्यतीत्यत आह - प्रसिद्धत्वे वेति / तथा च यत्रेतरभेदो निश्चितस्तत्रेतरभेदनिश्चयानन्तरं व्यतिरेकव्याप्तिनिश्चयसम्भवे यत्रेतरभेदाभावस्तत्र पृथिवीत्वाभाव इतिरूपे व्यतिरेकव्याप्तिनिश्चयार्थं यज्जलं तद्भेदसमुदायाभाववदित्यनुमानं व्यर्थम् / उपसंहरति - तस्मादिति / तथा च संशयस्यैवासम्भवात् संशयरूपा प्रसिद्धिर्न भवतीत्यर्थः / ननु जलभेदस्तेजसि तेजोभेदो जले जलतेजोभेदो वायौ इत्यादि त्रयोदश सुनिश्चिता एव तथा च भेदरूपकोटेरप्रसिद्धिर्नास्ति / न च तर्हि संशयो व्यर्थो भेदस्य निश्चितत्वादिति] वाच्यम् ऐकाधिरण्यभेदोपस्थितये संशयानुसरणात् संशयः सार्थक इत्याशङ्कते - न चेति / समाधत्ते - संसर्गेति / तथा च पृथिव्यां संशये संसर्गमर्यादया ऐकाधिकरण्यभानेऽपि प्रकारत्वेन ऐकाधिकरण्यभानाभावात् / यथा एकत्राधिकरणे त्रयोदशभेदा इति एकाधिकरणप्रकारतया भानं नास्ति। यथा वह्निमानित्यत्र यद्यपि वह्रिसंयोगस्य भानं वर्तते तथाप्यत्र व्यापकतावच्छेदकं वह्निसंयोगत्वं तस्य वह्निसंयोगत्वेन रूपेण भानं नास्ति वह्निसंयोगवति तत्रैव तद्भानं तेन रूपेण किन्तु वह्नित्वेनरूपेण वह्नित्वमेवव्यापकतावच्छेदकं तद्वत्प्रकृतेऽपि ऐकाधिकरण्यं यद्व्यापकतावच्छेदकं तेन प्रकारेण तु संशयो नास्तीति संसर्गविधयैव एकाधिकरणत्वं संशये भानमिति समुदायार्थः / . एतेन पृथिवी जलादिभ्यो भिन्नेति विप्रतिपत्तिरूपवादिवाक्यात् आकाङ्क्षादिमतोऽपूर्वार्थप्रतिपादकात् साध्यप्रसिद्धिरिति परास्तम् / वाक्यादेव पृथिव्यां साध्यसिद्धेर्व्यतिरेकिवैयर्थ्यात्।नचतबुद्धौवादिवाक्यजन्यत्वेनाप्रामाण्यसंशयात् निश्चयेऽपि संशय इति तन्निश्चयार्थं व्यतिरेकीति वाच्यम् / तर्हि संशयप्रसिद्ध साध्यं तस्य च न व्यतिरेकनिश्चायकत्वमित्युक्तत्वात् स्वार्थानुमाने तदभावाच्च / उच्यते घटादावेवेतरसकलभेदस्य प्रत्यक्षतः प्रसिद्धिः घटो न जलादिरिति प्रतीतेः / नन्वयमन्योन्याभावो न प्रत्यक्षः अतीन्द्रियप्रतियोगिकाभावत्वात्परमाणुसंसर्गाभाववत् योग्यानुपलब्धेरभावग्राहकत्वात् नयनोन्मीलनानन्तरं स्तम्भः पिशाचो न भवतीति प्रतीतेर्बाधकबलेन वायुतीतिवत् लिङ्गग्रहोपक्षीणत्वादिति चेत् / न। अथ मूलम् एतेनेति / पृथिवी जलादिभ्यो भिद्यते इत्येकेन वादिनोक्तम्, अन्येनोक्तं पृथिवी जलादिभ्यो न भिद्यते। इयं विप्रतिपत्तिः। एतस्माद् विप्रतिपत्तिरूपाद्वादिवाक्यात्। ननु वादिवाक्यमात्रात् कथं वाक्यार्थबोधो
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy