________________ 184 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका साध्याभावनिश्चायकम्, यत्त्वस्य अननुगतत्वेन अनुगतव्याप्यतावच्छेदकाभावेन सामान्यव्याप्ति(प्से)रनुमाना[न] त्वात्। ननु तर्हि प्राङ्नास्तितानुमानं नस्यात्।यथा तद्नेहं तदानीं मित्राभाववत्तदानीं तद्वत्तयाऽनुपलभ्यमानत्वात्, यथाऽयं(यथेदं) घटवत्तयाअनुपलभ्यमानं गृहम् अद्य घटाभाववत् अवघटमैत्रसाधारणगतदिवसकालाद्यतनकाले तत्साधारणं किञ्चिदप्येकमनुगतं यत्त्वं नास्तीति तदपि नान्वय्यनुमानं किन्तु व्यतिरेक्येव तदनुमानम् / कथम् ? सामान्यव्याप्तिस्तु अनुमानाङ्गमेव न भवति अनुगतयत्त्वाभावात् / दृष्टान्ताभावेन विशेषान्वयव्याप्तिस्तु न प्रतीयते। इदं गृहं पक्षः गतदिवसीयसायंकालमैत्राभाववत्गतदिवसीयसायंकाले मैत्रवत्तयाऽनुपलभ्यमानत्वात् / यतो गतदिवसीयसायंकाले मैत्रवत्तयाऽनुपलभ्यमानत्वस्य हेतोः पक्षातिरिक्तस्थलेऽन्वयः प्रतीतो नास्ति, तथा चान्वयव्याप्त्यभावे व्यतिरेक्येव यतः सामान्यव्याप्तिरङ्गमेव न भवति यत्त्वस्यानुगतस्याभावात् विशेषव्याप्तौ तु दृष्टान्त एव नास्तीति कृत्वा अन्वयव्याप्त्यप्रतीतौ व्यतिरेक्येव यथा यत्र यत्र मैत्राभावाभावे मैत्रः तत्र मैत्रवत्तया अनुपलभ्यत्वाभावोऽपि यथा मैत्रवत्तयोपलभ्यमानं मैत्रवद्गृहमिति / यदि च विशेषव्याप्तावपि कथञ्चिद् विशेषदृष्टान्तः लब्धः यथा द्वौ मैत्रौ गृहद्वये एककालेऽनुपलब्धौ तत्रापरो दृष्टान्तो भवति तदा विशेषदृष्टान्तस्य लब्धत्वात् अन्वय्येव। तदा सामान्यव्याप्तिर्नास्तीति। ननु विशेषान्वयव्याप्तिरुक्तरूपा न ज्ञाता व्यतिरेकव्याप्तिरपि न ज्ञाता, तदानीं प्राङ् नास्तिताबुद्धिरस्ति, सा तु सामान्यव्याप्तिमूलकैवेत्यत आह - तदुभयेति। तथा च यदा विशेषान्वयव्याप्तिन ज्ञाता सामान्यव्याप्तिरपि न ज्ञाता तदा प्राङ् नास्तिताबुद्धिरेव नास्त्येवेति एतावतैवोक्तम् / साध्याभावनिश्चयोऽनुमानेन भविष्यतीति उपाध्यायोक्तं खण्डितम् / सामान्यव्याप्तिमूलकानुमानाभावात् यदि व्यतिरेकी चेत् तदापुनस्तत्रापि साध्यसन्देहे साध्याभावानिश्चयात् न व्यतिरेक्यवतारः। अथानुव्यवसायसाक्षिकेण प्रत्यक्षप्रमाणेनैव साध्याभावनिश्चयो भविष्यतीति द्वितीयं कल्पं खण्डयितुमुपन्यस्यति - यत्त्विति / यादृश इति / यादृशः साध्याभावनिश्चयो व्याप्तिग्राहकः तादृशसाध्याभावांशेऽनुव्यवसायः साक्षी न भवति किन्तु तत्प्रकारकत्वांशे / तथा च जलं तादृशसमुदायाभाववत्तया जानामीत्यनुव्यवसायो यः स साध्याभावांशे निश्चायको नास्तिकिन्तुसाध्याभावप्रकारकत्वांशे निश्चायकः / ननु जले विशेष्ये साध्याभाववत्त्वांशे यद्यनुव्यवसायो निश्चायको न भवति तर्हि स किमंशे निश्चायक इत्यत आह - तद्ज्ञानमिति / तथा च रजतज्ञानवानित्यत्र यथा रजतत्वप्रकारकत्वांशे निश्चायको न तु पुरोवर्तिनि रजतत्वांशे, तथा च पृथिव्यां साध्यसन्देहो विद्यमाने जलेऽपि साध्याभावस्य सन्देहरूपमेव ज्ञानं तथा च सन्देहरूपज्ञानानन्तरं योऽनुव्यवसायः स तत्प्रकारकत्वांशे [89 B] साध्याभावप्रकारकत्वांशे निश्चायको न तु साध्याभावांशे इति कृत्वाऽनुव्यवसायोऽपि न तत्र प्रमाणम् / दूषणान्तरमाह - वस्तुत इति। तथा च जलं जलादित्रयोदशभेदसमुदायाभाववत् इत्यनुमाने क्रियमाणे जलादित्रयोदशभेदसमुदायाभावरूपस्य साध्यस्यापि निश्चयरूपा प्रसिद्धिर्नास्ति यतः पृथिव्यां जलादित्रयोदशभेदस्य प्रतियोगिनः सन्दिग्धत्वात् तदभावोऽपि सन्दिग्ध एवेति कृत्वा निश्चयरूपा साध्यप्रसिद्धिरपि नास्ति