________________ केवलव्यतिरेक्यनुमाननिरूपणम् 183 आह - तदनुव्यवसायेनेति / यथा घटप्रत्यक्षानुव्यवसायेन घटप्रकारकत्वस्य विषयीकरणात् यत् घटमहं जानामीत्यनुव्यवसायात् प्राक्कालजायमानं यत् प्रत्यक्षं घटप्रत्यक्षं घटोऽयमित्याकारकमेव सिद्धम् तद्वत् प्रकृते पृथिव्यां जलादित्रयोदशभेदसंशयानन्तरं जले जलप्रत्यक्षानन्तरं च जलादित्रयोदशभेदाभावावाजलमहं [88 B] जानामीत्यनुव्यवसायेन जलादित्रयोदशभेदप्रतियोगिप्रकारकत्वस्याविषयीकरणात् जलादित्रयोदशभेदाभाववज्जलमहं जानामीत्यनुव्यवसायप्राक्कालेजायमानं यत्प्रत्यक्षं ते(तज्)जलादित्रयोदशभेदप्रतियोगिकाभावविषयकं सिद्धमित्यर्थः / अतोऽयमर्थः सम्पन्नः। त्वयोक्तम् - पृथिव्यां जलादित्रयोदशभेदानां सन्दिग्धत्वात् जलादित्रयोदशभेदरूपप्रतियोगिनिश्चयाभावेऽभावप्रत्यक्ष निश्चयरूपं नसम्भवति प्रतियोगिनिश्चयरूपकारणस्याभावात् इति आचार्यमतोपरि पूर्वपक्षे सति एकं समाधानं यथा प्रतियोगिनिश्चयाभावेऽपि पृथिव्यां सन्देहरूपप्रतियोगिज्ञाने विद्यमानेऽपि पूर्वोक्तानुमानेन त्रयोदशभेदाभावो निश्चेतुं शक्यते एवेत्येकं समाधानम् / द्वितीयं तुप्रत्यक्षमपि तत्र यथा घटप्रत्यक्षे घटविषयत्वेघटमहं जानामीत्यनुव्यवसायस्तथा जलादित्रयोदशभेदाभाववजलं जानामि इत्यनुव्यवसाय एवाभावप्रत्यक्षे जलादित्रयोदशविषयकाभावप्रत्यक्षे जायते, अत्रापि अनुव्यवसाय एव प्रमाणमिति द्वितीयं समाधानम् इति पूर्वोक्तसङ्ग्रहः / एवावत्पर्यन्तं यज्ञपति उपाध्यायानां मतम् / अत्राहुरिति पक्षधरमिश्रा इतिशेषः।पूर्वमाचार्य(यः) पृथिव्यामितरभेदसाध्यप्रसिद्धिः सन्देहरूपोक्ता।तत्र चिन्तामणिकृता सन्देहरूपायांसाध्यप्रसिद्धौ सत्यांनजलादौसाध्याभावनिश्चयः यतः साध्याभावनिश्चये साध्यनिश्चयस्य कारणत्वात् इतरभेदसाध्यनिश्चयस्तु पृथिव्यां निश्चितो नास्ति / जलादौ तु इतरत्वमेव न तु इतरभेदः, तथा च साध्यनिश्चयाभावे साध्याभावनिश्चयाभावात् यदि साध्याभावनिश्चयो नास्ति तर्हि [यत्र] साध्याभावस्तत्र हेत्वभाव इति व्याप्तिनिश्चयाभावात्, तथा च व्याप्त्यनिर्णये कथं व्यतिरेक्यवतार इति दूषितमाचार्यमतम् / तत्र उपाध्यायसमाधानम् - यथासन्देहरूपायांसाध्यप्रसिद्धौसत्यामपि यत्रसाध्यसन्देहस्तत्रसाध्याभावनिश्चयोमाभवतु संशयस्य प्रतिबन्धकत्वात्। यत्रचजलादौ साध्यसन्देहो नास्तितत्रपूर्वोक्तानुमानात्जलंजलादीत्यादिरूपादनाव्यवसायात्] अथवाअनुव्यवसायसाक्षिकप्रत्यक्षप्रमाणात्वा साध्य(ध्या)भावनिश्चयो भविष्यति इति आचार्यमतम् उपाध्यायः समर्थितम्, तन्मतं मित्रैः दूष्यते। तथा च मणिकारोक्तं दूषणं दृढमित्यर्थः / यत्तद्भ्यामिति टीका। यत् त्वया सामान्यव्याप्तिरुक्ता यथा यत् समुदायैकदेशाभाववत् तत् समुदायाभाववत् यथा समुदायैकदेशघटाभाववति घटपटादिसमुदायाभावः इति तत्र दूषणमाह - यत्तद्घोटता सामान्यव्याप्तिः अनुमानाङ्गंनभवतिअनुगतव्याप्यता-वच्छेदकाभावात् / यथा धूमत्वं सर्वेषु धूमेषु अनुगतं जातिरूपं तिष्ठिति य(त)था घटपटादियावद्व्यक्तिषु यत्त्वमेवमनुगतं नास्ति, यत्त्वं नाम तत्तत्स्वरूपं घटत्वपटत्वादिरूपमेव, तथा च घटत्वं पटे नास्ति पटत्वं च घटे नास्तीतिकृत्वा यत्त्वं नानुगतम्, तथा चअनुगतव्याप्यतावच्छेदकाभावात् नेयं व्याप्तिः / उक्तानुमानमिति।जलं बलादित्रयोदशभेदसमुदायाभाववत् तदेकदेशाभाववत्त्वात् इति सामान्यव्याप्तिमूलकानुमानं [89 A] न